धर्मDharmic Data

आश्वमेधिकपर्व · Ashvamedhika Parva

अध्याय 33

  1. [बर] नाहं तथा भीरु चरामि लॊके; तथा तवं मां तर्कयसे सवबुद्ध्या विप्रॊ ऽसमि मुक्तॊ ऽसमि वनेचरॊ ऽसमि; गृहस्थ धर्मा बरह्म चारी तथास्मि ॥ 1 ॥

  2. नाहम अस्मि यथा मां तवं पश्यसे चक्षुषा शुभे मया वयाप्तम इदं सर्वं यत किं चिज जगती गतम ॥ 2 ॥

  3. ये के चिज जन्तवॊ लॊके जङ्गमाः सथावराश च ह तेषां माम अन्तकं विद्धि दारूणाम इव पावकम ॥ 3 ॥

  4. राज्यं पृथिव्यां सर्वस्याम अथ वापि तरिविष्टपे तथा बुद्धिर इयं वेत्ति बुद्धिर एव धनं मम ॥ 4 ॥

  5. एकः पन्था बराह्मणानां येन गच्छन्ति तद्विदः गृहेषु वनवासेषु गुरु वासेषु भिक्षुषु लिङ्गैर बहुभिर अव्यग्रैर एका बुद्धिर उपास्यते ॥ 5 ॥

  6. नाना लिङ्गाश्रमस्थानां येषां बुद्धिः शमात्मिका ते भावम एकम आयान्ति सरितः सागरं यथा ॥ 6 ॥

  7. बुद्ध्यायं गम्यते मार्गः शरीरेण न गम्यते आद्यन्तवन्ति कर्माणि शरीरं कर्मबन्धनम ॥ 7 ॥

  8. तस्मात ते सुभगे नास्ति परलॊककृतं भयम मद्भावभावनिरता ममैवात्मानम एष्यसि ॥ 8 ॥

Reach this point to mark the section finished.

Continue to अध्याय 34

Previous: अध्याय 32