[बर] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम बराह्मणस्य च संवादं जनकस्य च भामिनि ॥ 1 ॥
बराह्मणं जनकॊ राजा सन्नं कस्मिंश चिद आगमे विषये मे न वस्तव्यम इति शिष्ट्य अर्थम अब्रवीत ॥ 2 ॥
इत्य उक्तः परत्युवाचाथ बराह्मणॊ राजसत्तमम आचक्ष्व विषयं राजन यावांस तव वशे सथितः ॥ 3 ॥
सॊ ऽनयस्य विषये राज्ञॊ वस्तुम इच्छाम्य अहं विभॊ वचस ते कर्तुम इच्छामि यथाशास्त्रं महीपते ॥ 4 ॥
इत्य उक्तः स तदा राजा बराह्मणेन यशस्विना मुहुर उष्णं च निःश्वस्य न स तं परत्यभाषत ॥ 5 ॥
तम आसीनं धयायमानं राजानम अमितौजसम कश्मलं सहसागच्छद भानुमन्तम इव गरहः ॥ 6 ॥
समाश्वास्य ततॊ राजा वयपेते कश्मले तदा ततॊ मुहूर्ताद इव तं बराह्मणं वाक्यम अब्रवीत ॥ 7 ॥
पितृपैतामहे राज्ये वश्ये जनपदे सति विषयं नाधिगच्छामि विचिन्वन पृथिवीम इमाम ॥ 8 ॥
नाध्यगच्छं यदा पृथ्व्यां मिथिला मार्गिता मया नाध्यगच्छं यदा तस्यां सवप्रजा मार्गिता मया ॥ 9 ॥
नाध्यगच्छं यदा तासु तदा मे कश्मलॊ ऽभवत ततॊ मे कश्मलस्यान्ते मतिः पुनर उपस्थिता ॥ 10 ॥
तया न विषयं मन्ये सर्वॊ वा विषयॊ मम [] आत्मापि चायं न मम सर्वा वा पृथिवी मम उष्यतां यावद उत्साहॊ भुज्यतां यावद इष्यते ॥ 11 ॥
पितृपैतामहे राज्ये वश्ये जनपदे सति बरूहि कां बुद्धिम आस्थाय ममत्वं वर्जितं तवया ॥ 12 ॥
कां वा बुद्धिं विनिश्चित्य सर्वॊ वै विषयस तव नावैषि विषयं येन सर्वॊ वा विषयस तव ॥ 13 ॥
[ज] अन्तवन्त इहारम्भा विदिता सर्वकर्मसु नाध्यगच्छम अहं यस्मान ममेदम इति यद भवेत ॥ 14 ॥
कस्येदम इति कस्य सवम इति वेद वचस तथा नाध्यगच्छम अहं बुद्ध्या ममेदम इति यद भवेत ॥ 15 ॥
एतां बुद्धिं विनिश्चित्य ममत्वं वर्जितं मया शृणु बुद्धिं तु यां जञात्वा सर्वत्र विषयॊ मम ॥ 16 ॥
नाहम आत्मार्थम इच्छामि गन्धान घराणगतान अपि तस्मान मे निर्जिता भूमिर वशे तिष्ठति नित्यदा ॥ 17 ॥
नाहम आत्मार्थम इच्छामि रसान आस्ये ऽपि वर्ततः आपॊ मे निर्जितास तस्माद वशे तिष्ठन्ति नित्यदा ॥ 18 ॥
नाहम आत्मार्थम इच्छामि रूपं जयॊतिश च चक्षुषा तस्मान मे निर्जितं जयॊतिर वशे तिष्ठति नित्यदा ॥ 19 ॥
नाहम आत्मार्थम इच्छामि सपर्शांस तवचि गताश च ये तस्मान मे निर्जितॊ वायुर वशे तिष्ठति नित्यदा ॥ 20 ॥
नाहम आत्मार्थम इच्छामि शब्दाञ शरॊत्रगतान अपि तस्मान मे निर्जिताः शब्दा वशे तिष्ठन्ति नित्यदा ॥ 21 ॥
नाहम आत्मार्थम इच्छामि मनॊ नित्यं मनॊ ऽनतरे मनॊ मे निर्जितं तस्माद वशे तिष्ठति नित्यदा ॥ 22 ॥
देवेभ्यश च पितृभ्यश च भूतेभ्यॊ ऽतिथिभिः सह इत्य अर्थं सर्व एवेमे समारम्भा भवन्ति वै ॥ 23 ॥
ततः परहस्य जनकं बराह्मणः पुनर अब्रवीत तवज जिज्ञासार्थम अद्येह विद्धि मां धर्मम आगतम ॥ 24 ॥
तवम अस्य बरह्म नाभस्य बुद्ध्यारस्यानिवर्तिनः सत्त्वनेमि निरुद्धस्य चक्रस्यैकः परवर्तकः ॥ 25 ॥
आश्वमेधिकपर्व · Ashvamedhika Parva
अध्याय 32
Reach this point to mark the section finished.
Continue to अध्याय 33