धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 92

  1. [भ] तथाविधौ परवृत्ते तु सर्व एव महर्षयः पितृयज्ञान अकुर्वन्त विधिदृष्टेन कर्मणा ॥ 1 ॥

  2. ऋषयॊ धर्मनित्यास तु कृत्वा निवपनान्य उत तर्पणं चाप्य अकुर्वन्त तीर्थाम्भॊभिर यतव्रताः ॥ 2 ॥

  3. निवापैर दीयमानैश च चातुर्वर्ण्येन भारत तर्पिताः पितरॊ देवास ते नान्नं जरयन्ति वै ॥ 3 ॥

  4. अजीर्णेनाभिहन्यन्ते ते देवाः पितृभिः सह सॊमम एवाभ्यपद्यन्त निवापान नाभिपीडिताः ॥ 4 ॥

  5. ते ऽबरुवन सॊमम आसाद्य पितरॊ ऽजीर्ण पीडिताः निवापान्नेन पीड्यामः शरेयॊ नात्र विधीयताम ॥ 5 ॥

  6. तान सॊमः परत्युवाचाथ शरेयश चेद ईप्सितं सुराः सवयम्भू सदनं यातस वै शरेयॊ विधास्यति ॥ 6 ॥

  7. ते सॊमवचनाद देवाः पितृभिः सह भारत मेरुशृङ्गे समासीनं पितामहम उपागमन ॥ 7 ॥

  8. [पितरह] निवापान्नेन भगवन भृशं पीड्यामहे वयम परसादं कुरु नॊ देव शरेयॊ नः संविधीयताम ॥ 8 ॥

  9. इति तेषां वचः शरुत्वा सवयम्भूर इदम अब्रवीत एष मे पार्श्वतॊ वह्निर युष्मच छरेयॊ विधास्यति ॥ 9 ॥

  10. [अग्नि] सहितास तात भॊक्ष्यामॊ निवापे समुपस्थिते जरयिष्यथ चाप्य अन्नं मया सार्धं न संशयः ॥ 10 ॥

  11. एतच छरुत्वा तु पितरस ततस ते विज्वराभवन एतस्मात कारणाच चाग्नेः पराक्तनं दीयते नृप ॥ 11 ॥

  12. निवप्ते चाग्निपूर्वे वै निवापे पुरुषर्षभ न बरह्मराक्षसास तं वै निवापं धर्षयन्त्य उत रक्षांसि चापवर्तन्ते सथिते देवे विभावसौ ॥ 12 ॥

  13. पूर्वं पिण्डं पितुर दद्यात ततॊ दद्यात पितामहे परपितामहाय च तत एष शराद्धविधिः समृतः ॥ 13 ॥

  14. बरूयाच छराद्धे च सावित्रीं पिण्डे पिण्डे समाहितः सॊमायेति च वक्तव्यं तथा पितृमतेति च ॥ 14 ॥

  15. रजस्वला च या नारी वयङ्गिता कर्णयॊश च या निवापे नॊपतिष्ठेत संग्राह्या नान्यवंशजाः ॥ 15 ॥

  16. जलं परतरमाणश च कीर्तयेत पितामहान नदीम आसाद्य कुर्वीत पितॄणां पिण्ड तर्पणम ॥ 16 ॥

  17. पूर्वं सववंशजानां तु कृत्वाद्भिस तर्पणं पुनः सुहृत संबन्धिवर्गाणां ततॊ दद्याज जलाञ्जलिम ॥ 17 ॥

  18. कल्माषगॊयुगेनाथ युक्तेन तरतॊ जलम पितरॊ ऽभिलषन्ते वै नावं चाप्य अधिरॊहतः सदा नावि जलं तज्ज्ञाः परयच्छन्ति समाहिताः ॥ 18 ॥

  19. मासार्धे कृष्णपक्षस्य कुयान निवपनानि वै पुष्टिर आयुस तथा वीर्यं शरीश चैव पितृवर्तिनः ॥ 19 ॥

  20. पितामहः पुलस्त्यश च वसिष्टाः पुलहस तथा अङ्गिराश च करतुश चैव कश्यपश च महान ऋषिः एते कुरु कुलश्रेष्ठ महायॊगेश्वराः समृताः ॥ 20 ॥

  21. एते च पितरॊ राजन्न एष शराद्धविधिः परः परेतास तु पिण्ड संबन्धान मुच्यन्ते तेन कर्मणा ॥ 21 ॥

  22. इत्य एषा पुरुषश्रेष्ठ शराद्धॊत्पत्तिर यथागमम खयापिता पूर्वनिर्दिष्टा दानं वक्ष्याम्य अतः परम ॥ 22 ॥

Reach this point to mark the section finished.

Continue to अध्याय 93

Previous: अध्याय 91