[य] कीदृशेभ्यः परदातव्यं भवेच छराद्धं पितामह दविजेभ्यः कुरुशार्दूल तन मे वयाख्यातुम अर्हसि ॥ 1 ॥
[भ] बराह्मणान न परीक्षेत कषत्रियॊ दानधर्मवित दैवे कर्मणि पित्र्ये तु नयाय्यम आहुः परीक्षणम ॥ 2 ॥
देवताः पूजयन्तीह दैवेनैवेह तेजसा उपेत्य तस्माद देवेभ्यः सर्वेभ्यॊ दापयेन नरः ॥ 3 ॥
शराद्धे तव अथ महाराज परीक्षेद बराह्मणान बुधः कुलशीलवयॊ रूपैर विद्ययाभिजनेन च ॥ 4 ॥
एषाम अन्ये पङ्क्तिदूषास तथान्ये पङ्क्तिपावनाः अपाङ्क्तेयास तु ये राजन कीर्तयिष्यामि ताञ शृणु ॥ 5 ॥
कितवॊ भरूणहा यक्ष्मी पशुपालॊ निराकृतिः पराम परेष्यॊ वार्धुषिकॊ गायनः सर्वविक्रयी ॥ 6 ॥
अगार दाही गरदः कुण्डाशी सॊमविक्रयी सामुद्रिकॊ राजभृत्यस तैलिकः कूटकारकः ॥ 7 ॥
पित्रा विवदमानश च यस्य चॊपपतिर गृहे अभिशस्तस तथा सतेनः शिल्पं यश चॊपजीवति ॥ 8 ॥
पर्व कारश च सूची च मित्र धरुक पारदारिकः अव्रतानाम उपाध्यायः काण्डपृष्ठस तथैव च ॥ 9 ॥
शवभिर यश च परिक्रामेद यः शुना दष्ट एव च परिवित्तिश च यश च सयाद दुश्चर्मा गुरुतल्पगः कुशीलवॊ देवलकॊ नक्षत्रैर यश च जीवति ॥ 10 ॥
एतान इह विजानीयाद अपाङ्क्तेयान दविजाधमान शूद्राणाम उपदेशं च ये कुर्वन्त्य अल्पचेतसः ॥ 11 ॥
षष्टिं काणः शतं षण्ढः शवित्री यावत परपश्यति पङ्क्त्यां समुपविष्टायां तावद दूषयते नृप ॥ 12 ॥
यद विष्टित शिरा भुङ्क्ते यद भुङ्क्ते दक्षिणामुखः सॊपानत्कश च यद भुङ्क्ते सर्वं विद्यात तद आसुरम ॥ 13 ॥
असूयता च यद दत्तं यच च शरद्धा विवर्जितम सर्वं तद असुरेन्द्राय बरह्मा भागम अकल्पयत ॥ 14 ॥
शवानश च पङ्क्तिदूषाश च नावेक्षेरन कथं चन तस्मात परिवृते दद्यात तिलांश चान्ववकीरयेत ॥ 15 ॥
तिलादाने च करव्यादा ये च करॊधवशा गणाः यातुधानाः पिशाचाश च विप्रलुम्पन्ति तद धविः ॥ 16 ॥
यावद धयपङ्क्त्यःपङ्क्त्यां वै भुञ्जानान अनुपश्यति तावत फलाद भरंशयति दातारं तस्य बालिशम ॥ 17 ॥
इमे तु भरतश्रेष्ठ विज्ञेयाः पङ्क्तिपावनाः ये तव अतस तान परवक्ष्यामि परीक्षस्वेह तान दविजान ॥ 18 ॥
वेद विद्याव्रतस्नाता बराह्मणाः सर्व एव हि पाङ्क्तेयान यांस तु वक्ष्यामि जञेयास ते पङ्क्तिपावनाः ॥ 19 ॥
तरिणाचिकेतः पञ्चाग्निस तरिसुपर्णः षडङ्गवित बरह्म देयानुसंतानश छन्दॊगॊ जयेष्ठसामगः ॥ 20 ॥
मातापित्र्यॊर यश च वश्यः शरॊत्रियॊ दश पूरुषः ऋतुकालाभिगामी च धर्मपत्नीषु यः सदा वेद विद्याव्रतस्नातॊ विप्रः पङ्क्तिं पुनात्य उत ॥ 21 ॥
अथर्वशिरसॊ ऽधयेता बरह्म चारी यतव्रतः सत्यवादी धर्मशीलः सवकर्मनिरतश च यः ॥ 22 ॥
ये च पुण्येषु तीर्थेषु अभिषेककृतश्रमाः मखेषु च स मन्त्रेषु भवन्त्य अवभृथाप्लुताः ॥ 23 ॥
अक्रॊधना अचपलाः कषान्ता दान्ता जितेन्द्रियाः सर्वभूतहिता ये च शराद्धेष्व एतान निमन्त्रयेत एतेषु दत्तम अक्षय्यम एते वै पङ्क्तिपावनाः ॥ 24 ॥
इमे परे महाराज विज्ञेयाः पङ्क्तिपावनाः यतयॊ मॊक्षधर्मज्ञा यॊगाः सुचरितव्रताः ॥ 25 ॥
ये चेतिहासं परयताः शरावयन्ति दविजॊत्तमान ये च भाष्य विदः के चिद ये च वयाकरणे रताः ॥ 26 ॥
अधीयते पुराणं ये धर्मशास्त्राण्य अथापि च अधीत्य च यथान्यायं विधिवत तस्य कारिणः ॥ 27 ॥
उपपन्नॊ गुरु कुले सत्यवादी सहस्रदः अग्र्यः सर्वेषु वेदेषु सर्वप्रवचनेषु च ॥ 28 ॥
यावद एते परपश्यन्ति पङ्क्त्यास तावत पुनन्त्य उत ततॊ हि पावनात पङ्क्त्याः पङ्क्तिपावन उच्यते ॥ 29 ॥
करॊशाद अर्धतृतीयात तु पावयेद एक एव हि बरह्म देयानुसंतान इति बरह्म विदॊ विदुः ॥ 30 ॥
अनृत्विग अनुपाध्यायः स चेद अग्रासनं वरजेत ऋत्विग्भिर अननुज्ञातः पङ्क्त्या हरति दुष्कृतम ॥ 31 ॥
अथ चेद वेदवित सर्वैः पङ्क्तिदॊषैर विवर्जितः न च सयात पतितॊ राजन पङ्क्तिपावन एव सः ॥ 32 ॥
तस्मात सर्वप्रयत्नेन परीक्ष्यामन्त्रयेद दविजान सवकर्मनिरतान दान्तान कुले जातान बहुश्रुतान ॥ 33 ॥
यस्य मित्र परधानानि शराद्धानि च हवींषि च न परीणाति पितॄन देवान सवर्गं च न स गच्छति ॥ 34 ॥
यश च शराद्धे कुरुते संगतानि; न देव यानेन पथा स याति स वै मुक्तः पिप्पलं बन्धनाद वा; सवर्गाल लॊकाच चयवते शराद्धमित्रः ॥ 35 ॥
तस्मान मित्रं शराद्धकृन नाद्रियेत; दद्यान मित्रेभ्यः संग्रहार्थं धनानि यं मन्यते नैव शत्रुं न मित्रं; तं मध्यस्थं भॊजयेद धव्यकव्ये ॥ 36 ॥
यथॊषरे बीजम उप्तं न रॊहेन; न चास्यॊप्ता पराप्नुयाद बीजभागम एवं श राद्धं भुक्तम अनर्हमाणैर; न चेह नामुत्र फलं ददाति ॥ 37 ॥
बराह्मणॊ हय अनधीयानस तृणाग्निर इव शाम्यति तस्मै शराद्धं न दातव्यं न हि भस्मनि हूयते ॥ 38 ॥
संभॊजनी नाम पिशाचदक्षिणा; सा नैव देवान न पितॄन उपैति इहैव सा भराम्यति कषीणपुण्या; शालान्तरे गौर इव नष्टवत्सा ॥ 39 ॥
यथाग्नौ शान्ते घृतम आजुहॊति; तन नैव देवान न पितॄन उपैति तथा दत्तं नर्तने गायने च; यां चानृचे दक्षिणाम आवृणॊति ॥ 40 ॥
उभौ हिनस्ति न भुनक्ति चैषा; या चानृचे दक्षिणा दीयते वै आघातनी गर्हितैषा पतन्ती; तेषां परेतान पातयेद देव यानात ॥ 41 ॥
ऋषीणां समयं नित्यं ये चरन्ति युधिष्ठिर निश्चिताः सर्वधर्मज्ञास तान देवा बराह्मणान विदुः ॥ 42 ॥
सवाध्यायनिष्ठा ऋषयॊ जञन निष्ठास तथैव च तपॊ निष्ठाश च बॊद्धव्याः कर्म निष्ठाश च भारत ॥ 43 ॥
कव्यानि जञाननिष्ठेभ्यः परतिष्ठाप्यानि भारत तत्र ये बराह्मणाः के चिन न निन्दति हि ते वराः ॥ 44 ॥
ये तु निन्दन्ति जल्पेषु न ताञ शराद्धेषु भॊजयेत बराह्मणा निन्दिता राजन हन्युस तरिपुरुषं कुलम ॥ 45 ॥
वैखानसानां वचनम ऋषीणां शरूयते नृप दूराद एव परीक्षेत बराह्मणान वेदपारगान परियान वा यदि वा दवेष्यांस तेषु तच छराद्धम आवपेत ॥ 46 ॥
यः सहस्रं सहस्राणां भॊजयेद अनृचां नरः एकस तान मन्त्रवित परीतः सर्वान अर्हति भारत ॥ 47 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 90
Reach this point to mark the section finished.
Continue to अध्याय 91