[य] उक्ताः पितामहेनेह सुवर्णस्य विधानतः विस्तरेण परदानस्य ये गुणाः शरुतिलक्षणाः ॥ 1 ॥
यत तु कारणम उत्पत्तेः सुवर्णस्येह कीर्तितम स कथं तारकः पराप्तॊ निधनं तद बरवीहि मे ॥ 2 ॥
उक्तः स देवतानां हि अवध्य इति पार्थिव न च तस्येह ते मृत्युर विस्तरेण परकीर्तितः ॥ 3 ॥
एतद इच्छाम्य अहं शरॊतुं तवत्तः कुरुकुलॊद्वह कार्त्स्न्येन तारक वधं परं पौतूहलं हि मे ॥ 4 ॥
[भ] विपन्नकृत्या राजेन्द्र देवता ऋषयस तथा कृत्तिकाश चॊचयाम आसुर अपत्यभरणाय वै ॥ 5 ॥
न देवतानां काचिद धि समर्था जातवेदसः एकापि शक्ता तं गर्भं संधारयितुम ओजसा ॥ 6 ॥
षण्णां तासां ततः परीतः पावकॊ गर्भधारणात सवेन तेजॊ विसर्गेण वीर्येण परमेण च ॥ 7 ॥
तास तु षट कृत्तिका गर्भं पुपुषुर जातवेदसः षट्सु वर्त्मसु तेजॊ ऽगनेः सकलं निहितं परभॊ ॥ 8 ॥
ततस ता वर्धमानस्य कुमारस्य महात्मनः तेजसाभिपरीताङ्ग्यॊ न कव चिच छर्म लेभिरे ॥ 9 ॥
ततस तेजः परीताङ्ग्यः सर्वाः काल उपस्थिते समं गर्भं सुषुविरे कृत्तिकास ता नरर्षभ ॥ 10 ॥
ततस तं षड अधिष्ठानं गर्भम एकत्वम आगतम पृथिवी परतिजग्राह कान्ती पुरसमीपतः ॥ 11 ॥
स गर्भॊ दिव्यसंस्थानॊ दीप्तिमान पावकप्रभः दिव्यं शरवणं पराप्य ववृधे परियदर्शनः ॥ 12 ॥
ददृशुः कृत्तिकास तं तु बालं वह्नि समद्युतिम जातस्नेहाश च सौहार्दात पुपुषुः सतन्य विस्रवैः ॥ 13 ॥
अभवत कार्त्तिकेयः स तरैलॊक्ये स चराचरे सकन्नत्वात सकन्दतां चापगुहावासाद गुहॊ ऽभवत ॥ 14 ॥
ततॊ देवास तरयस्त्रिंशद दिशश च स दिग ईश्वराः रुद्रॊ धाता च विष्णुश च यज्ञः पूषार्यमा भगः ॥ 15 ॥
अंशॊ मित्रश च साध्याश च वसवॊ वासवॊ ऽशविनौ आपॊ वायुर नभश चन्द्रॊ नक्षत्राणि गरहा रविः ॥ 16 ॥
पृथग भूतानि चान्यानि यानि देवार्पणानि वै आजग्मुस तत्र तं दरष्टुं कुमारं जवलनात्मजम ऋषयस तुष्टुवुश चैव गन्धर्वाश च जगुस तथा ॥ 17 ॥
षडाननं कुमारं तं दविषड अक्षं दविज परियम पीनांसं दवादश भुजं पावकादित्यवर्चसम ॥ 18 ॥
शयानं शरगुल्मस्थं दृष्ट्वा देवाः सहर्षिभिः लेभिरे परमं हर्षं मेनिरे चासुरं हतम ॥ 19 ॥
ततॊ देवाः परियाण्य अस्य सर्व एव समाचरन करीडतः करीडनीयानि ददुः पक्षिगणांश च ह ॥ 20 ॥
सुपर्णॊ ऽसय ददौ पत्रं मयूरं चित्रबर्हिणम राक्षसाश च ददुस तस्मै वराहमहिषाव उभौ ॥ 21 ॥
कुक्कुटं चाग्निसंकाशं परददौ वरुणः सवयम चन्द्रमाः परददौ मेषम आदित्यॊ रुचिरां परभाम ॥ 22 ॥
गवां माता च गा देवी ददौ शतसहस्रशः छागम अग्निर गुणॊपेतम इला पुष्पफलं बहु ॥ 23 ॥
सुधन्वा शकटं चैव रथं चामितकूबरम वरुणॊ वारुणान दिव्यान भुजंगान परददौ शुभान सिंहान सुरेन्द्रॊ वयाघ्रांश च दवीपिनॊ ऽनयांश च दंष्ट्रिणः ॥ 24 ॥
शवापदांश च बहून घॊरांश छत्राणि विविधानि च राक्षसासुरसंघाश च ये ऽनुजग्मुस तम ईश्वरम ॥ 25 ॥
वर्धमानं तु तं दृष्ट्वा परार्थयाम आस तारकः उपायैर बहुभिर हन्तुं नाशकच चापि तं विभुम ॥ 26 ॥
सेनापत्येन तं देवाः पूजयित्वा गुहालयम शशंसुर विप्रकारं तंतस्मै तारक कारितम ॥ 27 ॥
स विवृद्धॊ महावीर्यॊ देव सेनापतिः परभुः जघानामॊघया शक्त्या दानवं तारकं गुहः ॥ 28 ॥
तेन तस्मिन कुमारेण करीडता निहते ऽसुरे सुरेन्द्रः सथापितॊ राज्ये देवानां पुनर ईश्वरः ॥ 29 ॥
स सेनापतिर एवाथ बभौ सकन्दः परतापवान ईशॊ गॊप्ता च देवानां परिय कृच छंकरस्य च ॥ 30 ॥
हिरण्यमूर्तिर भगवान एष एव च पावकिः सदा कुमारॊ देवानां सेनापत्यम अवाप्तवान ॥ 31 ॥
तस्मात सुवर्णं मङ्गल्यं रत्नम अक्षय्यम उत्तमम सहजं कार्त्तिकेयस्य वह्नेस तेजः परं मतम ॥ 32 ॥
एवं रामाय कौरव्य वसिष्ठॊ ऽकथयत पुरा तस्मात सुवर्णदानाय परयतस्व नराधिप ॥ 33 ॥
रामः सुवर्णं दत्त्वा हि विमुक्तः सर्वकिल्बिषैः तरिविष्टपे महत सथानम अवापासुलभं नरैः ॥ 34 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 86
Reach this point to mark the section finished.
Continue to अध्याय 87