[य] दह्यमानाय विप्राय यः परयच्छत्य उपानहौ यत फलं तस्य भवति तन मे बरूहि पितामह ॥ 1 ॥
[भ] उपानहौ परयच्छेद यॊ बराह्मणेभ्यॊ समाहितः मर्दते कनकान सर्वान विषमान निस्तरत्य अपि स शत्रूणाम उपरि च संतिष्ठति युधिष्ठिर ॥ 2 ॥
यानं चाश्वतरी युक्तं तस्य शुभ्रं विशां पते उपतिष्ठति कौन्तेय रूप्यकाञ्चनभूषणम शकटं दम्य संयुक्तं दत्तं भवति चैव हि ॥ 3 ॥
[य] यत फलं तिलदाने च भूमिदाने च कीर्तितम गॊप्रदाने ऽननदाने च भूयस तद बरूहि कौरव ॥ 4 ॥
[भ] शृणुष्व मम कौन्तेय तिलदानस्य यत फलम निशम्य च यथान्यायं परयच्छ कुरुसत्तम ॥ 5 ॥
पितॄणां परथमं भॊज्यं तिलाः सृष्टाः सवयम्भुवा तिलदानेन वै तस्मात पितृपक्षः परमॊदते ॥ 6 ॥
माघमासे तिलान यस तु बराह्मणेभ्यः परयच्छति सर्वसत्त्वसमाकीर्णं नरकं स न पश्यति ॥ 7 ॥
सर्वकामैः स यजते यस तिलैर यजते पितॄन न चाकामेन दातव्यं तिलश्राद्धं कथं चन ॥ 8 ॥
महर्षेः कश्यपस्यैते गात्रेभ्यः परसृता तिलाः ततॊ दिव्यं गता भावं परदानेषु तिलाः परभॊ ॥ 9 ॥
पौष्टिका रूपदाश चैव तथा पापविनाशनाः तस्मात सर्वप्रदानेभ्यस तिलदानं विशिष्यते ॥ 10 ॥
आपस्तम्बश च मेधावी शङ्खश च लिखितस तथा महर्षिर गौतमश चापि तिलदानैर दिवं गताः ॥ 11 ॥
तिलहॊमपरा विप्राः सर्वे संयत मैथुनाः समा गव्येन हविषा परवृत्तिषु च संस्थिताः ॥ 12 ॥
सर्वेषाम एव दानानां तिलदानं परं समृतम अक्षयं सर्वदानानां तिलदानम इहॊच्यते ॥ 13 ॥
उत्पन्ने च पुरा हव्ये कुशिकर्षिः परंतप तिलैर अग्नित्रयं हुत्वा पराप्तवान गतिम उत्तमाम ॥ 14 ॥
इति परॊक्तं कुरुश्रेष्ठ तिलदानम अनुत्तमम विधानं येन विधिना तिलानाम इह शस्यते ॥ 15 ॥
अत ऊर्ध्वं निबॊधेदं देवानां यष्टुम इच्छताम समागमं महाराज बरह्मणा वै सवयम्भुवा ॥ 16 ॥
देवाः समेत्य बरह्माणं भूमिभागं यियक्षवः शुभं देशम अयाचन्त यजेम इति पार्थिव ॥ 17 ॥
[देवाह] भगवंस तवं परभुर भूमेः सर्वस्य तरिदिवस्य च यजेमहि महाभाग यज्ञं भवद अनुज्ञया नाननुज्ञात भूमिर हि यज्ञस्य फलम अश्नुते ॥ 18 ॥
तवं हि सर्वस्य जगतः सथावरस्य चरस्य च परभुर भवसि तस्मात तवं समनुज्ञातुम अर्हसि ॥ 19 ॥
[बरह्मा] ददामि मेदिनी भागं भवद्भ्यॊ ऽहं सुरर्षभाः यस्मिन देशे करिष्यध्वं यज्ञं काश्यपनन्दनाः ॥ 20 ॥
[देवाह] भगवन कृतकामाः समॊ यक्ष्यामस तव आप्तदक्षिणैः इमं तु देशं मुनयः पर्युपासन्त नित्यदा ॥ 21 ॥
[भ] ततॊ ऽगस्यश च कण्वश च भृगुर अत्रिर वृषा कपिः असितॊ देवलश चैव देवयज्ञम उपागमन ॥ 22 ॥
ततॊ देवा महात्मान ईजिरे यज्ञम अच्युत तथा समापयाम आसुर यथाकालं सुरर्षभाः ॥ 23 ॥
त इष्टयज्ञास तरिदशा हिमवत्य अचलॊत्तमे षष्ठम अंशं करतॊस तस्य भूमिदानं परचक्रिरे ॥ 24 ॥
परादेश मात्रं भूमेस तु यॊ दद्याद अनुपस्कृतम न सीदति स कृच्छ्रेषु न च दुर्गाण्य अवाप्नुते ॥ 25 ॥
शीतवातातप सहां गृहभूमिं सुसंस्कृताम परदाय सुरलॊकस्थः पुण्यान्ते ऽपि न चाल्यते ॥ 26 ॥
मुदितॊ वसते पराज्ञः शक्रेण सह पार्थिव रतिश्रय परदाता च सॊ ऽपि सवर्गे महीयते ॥ 27 ॥
अध्यापक कुले जातः शरॊत्रियॊ नियतेन्द्रियः गृहे यस्य वसेत तुष्टः परधानं लॊकम अश्नुते ॥ 28 ॥
तथा गवार्थे शरणं शीतवर्षसहं महत आ सप्तमं तारयति कुलं भरतसत्तम ॥ 29 ॥
कषेत्रभूमिं ददल लॊके पुत्र शरियम अवाप्नुयात रत्नभूमिं परदत्त्वा तु कुलवंशं विवर्धयेत ॥ 30 ॥
न चॊषरां न निर्दग्धां महीं दद्यात कथं चन न शमशानपरीतां च न च पापनिषेविताम ॥ 31 ॥
पारक्ये भूमिदेशे तु पितॄणां निर्पवेत तु यः तद भूमिस्वामि पितृभिः शराध कर्म विहन्यते ॥ 32 ॥
तस्मात करीवा महीं दद्यात सवल्पाम अपि विचक्षणः पिंडः पितृभ्यॊ दत्तॊ वै तस्यां भवति शाश्वतः ॥ 33 ॥
अटवी पर्वताश चैव नदीतीर्थानि यानि च सराण्य अस्वामिकान्य आहुर न हि तत्र परिग्रहः ॥ 34 ॥
इत्य एतद भूमिदानस्य फलम उक्तं विशां पते अतः परं तु गॊदानं कीर्तयिष्यामि ते ऽनघ ॥ 35 ॥
गावॊ ऽधिकास तपस्विभ्यॊ यस्मात सर्वेभ्य एव च तस्मान महेश्वरॊ देवस तपस ताभिः समास्थितः ॥ 36 ॥
बरह्मलॊके वसन्त्य एताः सॊमेन सह भारत आसां बरह्मर्षयः सिद्धाः परार्थयन्ति परां गतिम ॥ 37 ॥
पयसा हविषा दध्ना शकृताप्य अथ चर्मणा अस्थिभिश चॊपकुर्वन्ति शृङ्गैर वालैश च भारत ॥ 38 ॥
नासां शीतातपौ सयातां सदैताः कर्म कुर्वते न वर्षं विषमं वापि दुःखम आसां भवत्य उत ॥ 39 ॥
बराह्मणैः सहिता यान्ति तस्मात परतरं पदम एकं गॊब्राह्मणं तस्मात परवदन्ति मनीषिणः ॥ 40 ॥
रन्ति देवस्य यज्ञे ताः पशुत्वेनॊपकल्पिताः ततश चर्मण्वती राजन गॊचर्मभ्यः परवर्तिता ॥ 41 ॥
पशुत्वाच च विनिर्मुक्ताः परदानायॊपकल्पिताः ता इमा विप्रमुख्येभ्यॊ यॊ ददाति महीपते निस्तरेद आपदं कृच्छ्रां विषमस्थॊ ऽपि पार्थिव ॥ 42 ॥
गवां सहस्रदः परेत्य नरकं न परपश्यति सर्वत्र विजयं चापि लभते मनुजाधिप ॥ 43 ॥
अमृतं वै गवां कषीरम इत्य आह तरिदशाधिपः तस्माद ददाति यॊ धेनुम अमृतं स परयच्छति ॥ 44 ॥
अग्नीनाम अव्ययं हय एतद धौम्यं वेद विदॊ विदुः तस्माद ददाति यॊ धेनुं स हौम्यं संप्रयच्छति ॥ 45 ॥
सवर्गॊ वै मूर्तिमान एष वृषभं यॊ गवां पतिम विप्रे गुणयुते दद्यात स वै सवर्गे महीयते ॥ 46 ॥
पराणा वै पराणिनाम एते परॊच्यन्ते भरतर्षभ तस्माद ददाति यॊ धेनुं पराणान वै स परयच्छति ॥ 47 ॥
गावः शरण्या भूतानाम इति वेद विदॊ विदुः तस्माद ददाति यॊ धेनुं शरणं संप्रयच्छति ॥ 48 ॥
न वधार्थं परदातव्या न कीनाशे न नास्तिके गॊजीविने न दातव्या तथा गौः पुरुषर्षभ ॥ 49 ॥
ददाति तादृशानां वै नरॊ गाः पापकर्मणाम अक्षयं नरकं यातीत्य एवम आहुर मनीषिणः ॥ 50 ॥
न कृशां पापवत्सां वा वन्ध्यां रॊगान्वितां तथा न वयङ्गां न परिश्रान्तां दद्याद गां बराह्मणाय वै ॥ 51 ॥
दश गॊसहस्रदः सम्यक शक्रेण सह मॊदते अक्षयाँल लभते लॊकान नरः शतसहस्रदः ॥ 52 ॥
इत्य एतद गॊप्रदानं च तिलदानं च कीर्तितम तथा भूमिप्रदानं च शृणुष्वान्ने च भारत ॥ 53 ॥
अन्नदानं परधानं हि कौन्तेय परिचक्षते अन्नस्य हि परदनेन रन्तिदेवॊ दिवं गतः सवायम्भुवं महाभागं स पश्यति नराधिप ॥ 54 ॥
न हिरण्यैर न वासॊभिर नाश्वदानेन भारत पराप्नुवन्ति नराः शरेयॊ यथेहान्न परदाः परभॊ ॥ 55 ॥
अन्नं वै परमं दरव्यम अन्नं शरीश च परा मता अन्नात पराणः परभवति तेजॊ वीर्यं बलं तथा ॥ 56 ॥
सद्भ्यॊ ददाति यश चान्नं सदैकाग्र मना नरः न स दुर्गाण्य अवाप्नॊतीत्य एवम आह पराशरः ॥ 57 ॥
अर्चयित्वा यथान्यायं देवेभ्यॊ ऽननं निवेदयेत यदन्नॊ हि नरॊ राजंस तदन्नास तस्य देवताः ॥ 58 ॥
कौमुद्यां शुक्लपक्षे तु यॊ ऽननदानं करॊत्य उत ॥ 59 ॥
स संतरति दुर्गाणि परेत्य चानन्त्यम अश्नुते ॥ 60 ॥
अभुक्त्वातिथये चान्नं परयच्छेद यः समाहितः स वै बरह्म विदां लॊकान पराप्नुयाद भरतर्षभ ॥ 61 ॥
सुकृच्छ्राम आपदं पराप्तश चान्नदः पुरुषस तरेत पापं तरति चैवेह दुष्कृतं चापकर्षति ॥ 62 ॥
इत्य एतद अन्नदानस्य तिलदानस्य चैव ह भूमिदानस्य च फलं गॊदानस्य च कीर्तितम ॥ 63 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 65
Reach this point to mark the section finished.
Continue to अध्याय 66