[भ] सर्वान कामान परयच्छन्ति ये परयच्छन्ति काञ्चनम इत्य एवं भगवान अत्रिः पितामहसुतॊ ऽबरवीत ॥ 1 ॥
पवित्रं शुच्य अथायुष्यं पितॄणाम अक्षयं च तत सुवर्णं मनुजेन्द्रेण हरिश्चन्द्रेण कीर्तितम ॥ 2 ॥
पानीय दानं परमं दानानां मनुर अब्रवीत तस्माद वापीश च कूपांश च तडागानि च खानयेत ॥ 3 ॥
अर्धं पापस्य हरति पुरुषस्येह कर्मणः कूपः परवृत्त पानीयः सुप्रवृत्तश च नित्यशः ॥ 4 ॥
सर्वं तारयते वंशं यस्य खाते जलाशये गावः पिबन्ति विप्राश च साधवश च नराः सदा ॥ 5 ॥
निदाघकाले पानीयं यस्य तिष्ठत्य अवारितम स दुर्गं विषमं कृच्छ्रं न कदा चिद अवाप्नुते ॥ 6 ॥
बृहस्पतेर भगवतः पूष्णश चैव भगस्य च अश्विनॊश चैव वह्नेश च परीतिर भवति सर्पिषा ॥ 7 ॥
परमं भेषजं हय एतद यज्ञानाम एतद उत्तमम रसानाम उत्तमं चैतत फलानां चैतद उत्तमम ॥ 8 ॥
फलकामॊ यशः कामः पुष्टि कामश च नित्यदा घृतं दद्याद दविजातिभ्यः पुरुषः शुचिर आत्मवान ॥ 9 ॥
घृतं मासे आश्वयुजि विप्रेभ्यॊ यः परयच्छति तस्मै परयच्छतॊ रूपं परीतौ देवाव इहाश्विनौ ॥ 10 ॥
पायसं सर्पिषा मिश्रं दविजेभ्यॊ यः परयच्छति गृहं तस्य न रक्षांसि धर्षयन्ति कदा चन ॥ 11 ॥
पिपासया न मरियते सॊपच्छन्दश च दृश्यते न पराप्नुयाच च वयसनं करकान यः परयच्छति ॥ 12 ॥
परयतॊ बराह्मणाग्रेभ्यः शरद्धया परया युतः उपस्पर्शन षड्भागं लभते पुरुषः सदा ॥ 13 ॥
यः साधनार्थं काष्ठानि बराह्मणेभ्यः परयच्छति परतापार्थं च राजेन्द्र वृत्तवद्भ्यः सदा नरः ॥ 14 ॥
सिध्यन्त्य अर्थाः सदा तस्य कार्याणि विविधानि च उपर्य उपरि शत्रूणां वपुषा दीप्यते च सः ॥ 15 ॥
भगवांश चास्य सुप्रीतॊ वह्निर भवति नित्यशः न तं तयजन्ते पशवः संग्रामे च जयत्य अपि ॥ 16 ॥
पुत्राञ शरियं च लभते यश छत्रं संप्रयच्छति चक्षुर वयाधिं न लभते यज्ञभागम अथाश्नुते ॥ 17 ॥
निदाघकाले वर्षे वा यश छत्रं संप्रयच्छति नास्य कश चिन मनॊ दाहः कदा चिद अपि जायते कृच्छ्रात स विषमाच चैव विप्र मॊक्षम अवाप्नुते ॥ 18 ॥
परदानं सर्वदानानां शकटस्य विशिष्यते एवम आह महाभागः शाण्डिल्यॊ भगवान ऋषिः ॥ 19 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 64
Reach this point to mark the section finished.
Continue to अध्याय 65