[भ] पराचेतसस्य वचनं कीर्तयन्ति पुरा विदः यस्याः किं चिन नाददते जञातयॊ न स विक्रयः ॥ 1 ॥
अर्हणं तत कुमारीणाम आनृशंस्यतमं च तत सर्वं च परतिदेयं सयात कन्यायै तद अशेषतः ॥ 2 ॥
पितृभिर भरातृभिश चैव शवशुरैर अथ देवरैः पूज्या लालयितव्याश च बहुकल्याणम ईप्सुभिः ॥ 3 ॥
यदि वै सत्री न रॊचेत पुमांसं न परमॊदयेत अमॊदनात पुनः पुंसः परजनं न परवर्धते ॥ 4 ॥
पूज्या लालयितव्याश च सत्रियॊ नित्यं जनाधिप अपूजिताश च यत्रैताः सर्वास तत्राफलाः करियाः तदैव तत कुलं नास्ति यदा शॊचन्ति जामयः ॥ 5 ॥
जामी शप्तानि गेहानि निकृत्तानीव कृत्यया नैव भान्ति न वर्धन्ते शरिया हीनानि पार्थिव ॥ 6 ॥
सत्रियः पुंसां परिददे मनुर जिगमिषुर दिवम अबलाः सवल्प कौपीनाः सुहृदः सत्यजिष्णवः ॥ 7 ॥
ईर्ष्यवॊ मानकामाश च चण्डा असुहृदॊ ऽबुधाः सत्रियॊ माननम अर्हन्ति ता मानयत मानवाः ॥ 8 ॥
सत्री परत्ययॊ हि वॊ धर्मॊ रतिभॊगाश च केवलाः परिचर्यान्न संस्कारास तद आयत्ता भवन्तु वः ॥ 9 ॥
उत्पादनम अपत्यस्य जातस्य परिपालनम परीत्यर्थं लॊकयात्रा च पश्यत सत्री निबन्धनम ॥ 10 ॥
संमान्यमानाश चैताभिः सर्वकार्याण्य अवाप्स्यथ विदेहराजदुहिता चात्र शलॊकम अगायत ॥ 11 ॥
नास्ति यज्ञः सत्रियः कश चिन न शराद्धं नॊपवासकम धर्मस तु भर्तृशुश्रूषा तया सवर्गं जयत्य उत ॥ 12 ॥
पिता रक्षति कौमारे भर्ता रक्षति यौवने पुतास तु सथविरी भावे न सत्री सवातन्त्र्यम अर्हति ॥ 13 ॥
शरिय एताः सत्रियॊ नाम सत्कार्या भूतिम इच्छता लालिता निगृहीता च सत्री शरीर भवति भारत ॥ 14 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 46
Reach this point to mark the section finished.
Continue to अध्याय 47