[य] पितामह महाप्राज्ञ सर्वशास्त्रविशारद शरुतं मे महद आख्यानम इदं मतिमतां वर ॥ 1 ॥
भूयस तु शरॊतुम इच्छामि धर्मार्थसहितं नृप कथ्यमानं तवया किं चित तन मे वयाख्यातुम अर्हसि ॥ 2 ॥
केन मृत्युर गृहस्थेन धर्मम आश्रित्य निर्जितः इत्य एतत सर्वम आचक्ष्व तत्त्वेन मम पार्थिव ॥ 3 ॥
[भ] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम यथा मृत्युर गृहस्थेन धर्मम आश्रित्य निर्जितः ॥ 4 ॥
मनॊः परजापते राजन्न इक्ष्वाकुर अभवत सुतः तस्य पुत्रशतं जज्ञे नृपतेः सूर्यवर्चसः ॥ 5 ॥
दशमस तस्य पुत्रस तु दशाश्वॊ नाम भारत माहिष्मत्याम अभूद राजा धर्म आत्मा सत्यविक्रमः ॥ 6 ॥
दशाश्वस्य सुतस तव आसीद राजा परमधार्मिकः सत्ये तपसि दाने च यस्य नित्यं रतं मनः ॥ 7 ॥
मदिराश्व इति खयातः पृथिव्यां पृथिवीपतिः धनुर्वेदे च वेदे च निरतॊ यॊ ऽभवत सदा ॥ 8 ॥
मरिदाश्वस्य पुत्रस तु दयुतिमान नाम पार्थिवः महाभागॊ महातेजा महासत्त्वॊ महाबलः ॥ 9 ॥
पुत्रॊ दयुतिमतस तव आसीत सुवीरॊ नाम पार्थिवः धर्मात्मा कॊशवांश चापि देवराज इवापरः ॥ 10 ॥
सुवीरस्य तु पुत्रॊ ऽभूत सर्वसंग्राम दुर्जयः दुर्जयेत्य अभिविख्यातः सर्वशास्त्रविशारदः ॥ 11 ॥
दुर्जयस्येन्द्र वपुषः पुत्रॊ ऽगनिसदृशद्युतिः दुर्यॊधनॊ नाम महान राजासीद राजसत्तम ॥ 12 ॥
तस्येन्द्र समवीर्यस्य संग्रामेष्व अनिवर्तिनः विषयश च परभावश च तुल्यम एवाभ्यवर्तत ॥ 13 ॥
रत्नैर धनैश च पशुभिः सस्यैश चापि पृथग्विधैः नगरं विषयश चास्य परतिपूर्णं तदाभवत ॥ 14 ॥
न तस्य विषये चाभूत कृपणॊ नापि दुर्गतः वयाधितॊ वा कृशॊ वापि तस्मिन नाभून नरः कव चित ॥ 15 ॥
सुदक्षिणॊ मधुरवाग अनसूयुर जितेन्द्रियः धर्मात्मा चानृशंसश च विक्रान्तॊ ऽथाविकत्थनः ॥ 16 ॥
यज्वा वदान्यॊ मेधावी बरह्मण्यः सत्यसंगरः न चावमन्ता दाता च वेदवेदाङ्गपारगः ॥ 17 ॥
तं नर्मदा देव नदी पुण्या शीतजला शिवा चकमे पुरुषश्रेष्ठं सवेन भावेन भारत ॥ 18 ॥
तस्य जज्ञे तदा नद्यां कन्या राजीवलॊचना नाम्ना सुदर्शना राजन रूपेण च सुदर्शना ॥ 19 ॥
तादृग्रूपा न नारीषु भूतपूर्वा युधिष्ठिर दुर्यॊधन सुता यादृग अभवद वरवर्णिनी ॥ 20 ॥
ताम अग्निश चकमे साक्षाद राजकन्यां सुदर्शनाम भूत्वा च बराह्मणः साक्षाद वरयाम आस तं नृपम ॥ 21 ॥
दरिद्रश चासवर्णश च ममायम इति पार्थिवः न दित्सति सुतां तस्मै तां विप्राय सुदर्शनाम ॥ 22 ॥
ततॊ ऽसय वितते यज्ञे नष्टॊ ऽभूद धव्यवाहनः ततॊ दुर्यॊधनॊ राजा वाक्यम आहर्त्विजस तदा ॥ 23 ॥
दुष्कृतं मम किं नु सयाद भवतां वा दविजर्षभाः येन नाशं जगामाग्निः कृतं कुपुरुषेष्व इव ॥ 24 ॥
न हय अल्पं दुष्कृतं नॊ ऽसति येनाग्निर नाशम आगतः भवतां वाथ वा मह्यं तत्त्वेनैतद विमृश्यताम ॥ 25 ॥
एतद राज्ञॊ वचः शरुत्वा विप्रास ते भरतर्षभ नियता वाग्यताश चैव पावकं शरणं ययुः ॥ 26 ॥
तान दर्शयाम आस तदा भगवान हव्यवाहनः सवं रूपं दीप्तिमत कृत्वा शरदर्कसमद्युतिः ॥ 27 ॥
ततॊ महात्मा तान आह दहनॊ बराह्मणर्षभान वरयाम्य आत्मनॊ ऽरथाय दुर्यॊधन सुताम इति ॥ 28 ॥
ततस ते काल्यम उत्थाय तस्मै राज्ञे नयवेदयन बराह्मणा विस्मिताः सर्वे यद उक्तं चित्रभानुना ॥ 29 ॥
ततः स राजा तच छरुत्वा वचनं बरह्मवादिनाम अवाप्य परमं हर्षं तथेति पराह बुद्धिमान ॥ 30 ॥
परायाचत नृपः शुल्कं भगवन्तं विभावसुम नित्यं सांनिध्यम इह ते चित्रभानॊ भवेद इति तम आह भगवान अग्निर एवम अस्त्व इति पार्थिवम ॥ 31 ॥
ततः सांनिध्यम अध्यापि माहिष्मत्यां विभावसॊः दृष्टं हि सहदेवेन दिशॊ विजयता तदा ॥ 32 ॥
ततस तां समलंकृत्य कन्याम अहत वाससम ददौ दुर्यॊधनॊ राजा पावकाय महात्मने ॥ 33 ॥
परतिजग्राह चाग्निस तां राजपुत्रीं सुदर्शनाम विधिना वेद दृष्टेन वसॊर धाराम इवाध्वरे ॥ 34 ॥
तस्या रूपेण शीलेन कुलेन वपुषा शरिया अभवत परीतिमान अग्निर गर्भं तस्यां समादधे ॥ 35 ॥
तस्यां समभवत पुत्रॊ नाम्नाग्नेयः सुदर्शनः शिशुर एवाध्यगात सर्वं स च बरह्म सनातनम ॥ 36 ॥
अथौघवान नाम नृपॊ नृगस्यासीत पितामहः तस्याप्य ओघवती कन्या पुत्रश चौघरथॊ ऽभवत ॥ 37 ॥
ताम ओघवान ददौ तस्मै सवयम ओघवतीं सुताम सुदर्शनाय विदुषे भार्यार्थं देवरूपिणाम ॥ 38 ॥
स गृहस्थाश्रमरतस तया सह सुदर्शनः कुरुक्षेत्रे ऽवसद राजन्न ओघवत्या समन्वितः ॥ 39 ॥
गृहस्थश चावजेष्यामि मृत्युम इत्य एव स परभॊ परतिज्ञाम अकरॊद धीमान दीप्ततेजा विशां पते ॥ 40 ॥
ताम अथौघवतीं राजन स पावकसुतॊ ऽबरवीत अतिथेः परतिकूलं ते न कर्तव्यं कथं चन ॥ 41 ॥
येन येन च तुष्येत नित्यम एव तवयातिथिः अप्य आत्मनः परदानेन न ते कार्या विचारणा ॥ 42 ॥
एतद वरतं मम सदा हृदि संपरिवर्तते गृहस्थानां हि सुश्रॊणि नातिथेर विद्यते परम ॥ 43 ॥
परमाणं यदि वामॊरु वचस ते मम शॊभने इदं वचनम अव्यग्रा हृदि तवं धारयेः सदा ॥ 44 ॥
निष्क्रान्ते मयि कल्याणि तथा संनिहिते ऽनघे नातिथिस ते ऽवमन्तव्यः परमाणं यद्य अहं तव ॥ 45 ॥
तम अब्रवीद ओघवती यता मूर्ध्नि कृताञ्जलिः न मे तवद वचनात किं चिद अकर्तव्यं कथं चन ॥ 46 ॥
जिगीषमाणं तु गृहे तदा मृत्युः सुदर्शनम पृष्ठतॊ ऽनवगमद राजन रन्धान्वेषी तदा सदा ॥ 47 ॥
इध्मार्थं तु गते तस्मिन्न अग्निपुत्रे सुदर्शने अतिथिर बराह्मणः शरीमांस ताम आहौघवतीं तदा ॥ 48 ॥
आतिथ्यं दत्तम इच्छामि तवयाद्य वरवर्णिनि परमाणं यदि धर्मस ते गृहस्थाश्रमसंमतः ॥ 49 ॥
इत्य उक्ता तेन विप्रेण राजपुत्री यशस्विनी विधिना परतिजग्राह वेदॊक्तेन विशां पते ॥ 50 ॥
आसनं चैव पाद्यं च तस्मै दत्त्वा दविजातये परॊवाचौघवती विप्रं केनार्थः किं ददामि ते ॥ 51 ॥
ताम अब्रवीत ततॊ विप्रॊ राजपुत्रीं सुदर्शनाम तवया ममार्थः कल्याणि निर्विशङ्के तद आचर ॥ 52 ॥
यदि परमाणं धर्मस ते गृहस्थाश्रमसंमतः परदानेनात्मनॊ राज्ञि कर्तुम अर्हसि मे परियम ॥ 53 ॥
तथा संछन्द्यमानॊ ऽनयैर ईप्सितैर नृप कन्यया नान्यम आत्मप्रदानात स तस्या वव्रे वरं दविजः ॥ 54 ॥
सा तु राजसुता समृत्वा हर्तुर वचनम आदितः तथेति लज्जमाना सा तम उवाच दविजर्षभम ॥ 55 ॥
ततॊ रहः स विप्रर्षिः सा चैवॊपविवेश ह संस्मृत्य भर्तुर वचनं गृहस्थाश्रमकाङ्क्षिणः ॥ 56 ॥
अथेध्मान समुपादाय स पावकिर उपागमत मृत्युना रौद्रभावेन नित्यं बन्धुर इवान्वितः ॥ 57 ॥
ततस तव आश्रमम आगम्य स पावकसुतस तदा ताम आजुहावौघवतीं कवासि यातेति चासकृत ॥ 58 ॥
तस्मै परतिवचः सा तु भर्त्रे न परददौ तदा कराभ्यां तेन विप्रेण सपृष्टा भर्तृव्रता सती ॥ 59 ॥
उच्छिष्टास्मीति मन्वाना लज्जिता भर्तुर एव च तूष्णींभूताभवत साध्वी न चॊवाचाथ किं चन ॥ 60 ॥
अथ तां पुनर एवेदं परॊवाच स सुदर्शनः कव सा साध्वी कव सा याता गरीयः किम अतॊ मम ॥ 61 ॥
पतिव्रता सत्यशीला नित्यं चैवार्जवे रता कथं न परत्युदेत्य अद्य समयमाना यथा पुरा ॥ 62 ॥
उटजस्थस तु तं विप्रः परत्युवाच सुदर्शनम अतिथिं विद्धि संप्राप्तं पावके बराह्मणं च माम ॥ 63 ॥
अनया छन्द्यमानॊ ऽहं भार्यया तव सत्तम तैस तैर अतिथि सत्कारैर आर्जवे ऽसया दृढं मनः ॥ 64 ॥
अनेन विधिना सेयं माम अर्चति शुभानना अनुरूपं यद अत्राद्य तद भवान वक्तुम अर्हति ॥ 65 ॥
कूटमुद्गर हस्तस तु मृत्युस तं वै समन्वयात हीनप्रतिज्ञम अत्रैनं वधिष्यामीति चिन्तयन ॥ 66 ॥
सुदर्शनस तु मनसा कर्मणा चक्षुषा गिरा तयक्तेर्ष्यस तयक्तमन्युश च समयमानॊ ऽबरवीद इदम ॥ 67 ॥
सुरतं ते ऽसतु विप्राग्र्य परीतिर हि परमा मम गृहस्थस्य हि धर्मॊ ऽगर्यः संप्राप्तातिथि पूजनम ॥ 68 ॥
अतिथिः पूजितॊ यस्य गृहस्थस्य तु गच्छति नान्यस तस्मात परॊ धर्म इति पराहुर मनीषिणः ॥ 69 ॥
पराणा हि मम दाराश च यच चान्यद विद्यते वसु अतिथिभ्यॊ मया देयम इति मे वरतम आहितम ॥ 70 ॥
निःसंदिग्धं मया वाक्यम एतत ते समुदाहृतम तेनाहं विप्र सत्येन सवयम आत्मानम आलभे ॥ 71 ॥
पृथिवी वायुर आकाशम आपॊ जयॊतिश च पञ्चमम बुद्धिर आत्मा मनः कालॊ दिशश चैव गुणा दश ॥ 72 ॥
नित्यम एते हि पश्यन्ति देहिनां देहसंश्रिताः सुकृतं दुष्कृतं चापि कर्म धर्मभृतां वर ॥ 73 ॥
यथैषा नानृता वाणी मयाद्य समुदाहृता तेन सत्येन मां देवाः पालयन्तु दहन्तु वा ॥ 74 ॥
ततॊ नादः समभवद दिक्षु सर्वासु भारत असकृत सत्यम इत्य एव नैतन मिथ्येति सर्वशः ॥ 75 ॥
उटजात तु ततस तस्मान निश्चक्राम स वै दविजः वपुषा खं च भूमिं च वयाप्य वायुर इवॊद्यतः ॥ 76 ॥
सवरेण विप्रः शैक्षेण तरीँल लॊकान अनुनादयन उवाच चैनं धर्मज्ञं पूर्वम आमन्त्र्य नामतः ॥ 77 ॥
धर्मॊ ऽहम अस्मि भद्रं ते जिज्ञासार्थं तवानघ पराप्तः सत्यं च ते जञात्वा परीतिर मे परमा तवयि ॥ 78 ॥
विजितश च तवया मृत्युर यॊ ऽयं तवाम अनुगच्छति रन्ध्रान्वेषी तव सदा तवया धृत्या वशीकृतः ॥ 79 ॥
न चास्ति शक्तिस तरैलॊक्ये कस्य चित पुरुषॊत्तम पतिव्रताम इमां साध्वीं तवॊद्वीक्षितुम अप्य उत ॥ 80 ॥
रक्षिता तवद गुणैर एषा पतिव्रतगुणैस तथा अधृष्या यद इयं बरूयात तथा तन नान्यथा भवेत ॥ 81 ॥
एषा हि तपसा सवेन संयुक्ता बरह्मवादिनी पावनार्थं च लॊकस्य सरिच्छ्रेष्ठा भविष्यति ॥ 82 ॥
अर्धेनौघवती नाम तवाम अर्थेनानुयास्यति शरीरेण महाभागा यॊगॊ हय अस्या वशे सथितः ॥ 83 ॥
अनया सह लॊकांश च गन्तासि तपसार्जितान यत्र नावृत्तिम अभ्येति शाश्वतांस तान सनातनान ॥ 84 ॥
अनेन चैव देहेन लॊकांस तवम अभिपत्स्यसे निर्जितश च तवया मृत्युर ऐश्वर्यं च तवॊत्तमम ॥ 85 ॥
पञ्च भूतान्य अतिक्रान्तः सववीर्याच च मनॊ भवः गृहस्थ धर्मेणानेन कामक्रॊधौ च ते जितौ ॥ 86 ॥
सनेहॊ रागश च तन्द्री च मॊहॊ दरॊहश च केवलः तव शुश्रूषया राजन राजपुत्र्या विनिर्जिताः ॥ 87 ॥
[भ] शुक्लानां तु सहस्रेण वाजिनां रथम उत्तमम युक्तं परगृह्य भगवान वयवसायॊ जगाम तम ॥ 88 ॥
मृत्युर आत्मा च लॊकाश च जिता भूतानि पञ्च च बुद्धिः कालॊ मनॊ वयॊम कामक्रॊधौ तथैव च ॥ 89 ॥
तस्माद गृहाश्रमस्थस्य नान्यद दैवतम अस्ति वै ऋते ऽतिथिं नरव्याघ्र मनसैतद विचारय ॥ 90 ॥
अतिथिः पूजितॊ यस्य धयायते मनसा शुभम न तत करतुशतेनापि तुल्यम आहुर मनीषिणः ॥ 91 ॥
पात्रं तव अतिथिम आसाद्य शीलाढ्यं यॊ न पूजयेत स दत्त्वा सुकृतं तस्य कषपयेत हय अनर्चितः ॥ 92 ॥
एतत ते कथितं पुत्र मयाख्यानम अनुत्तमम यथा हि विजितॊ मृत्युर गृहस्थेन पुराभवत ॥ 93 ॥
धन्यं यशस्यम आयुष्मद इदम आख्यानम उत्तमम बुभूषिताभिमन्तव्यं सर्वदुश्चरितापहम ॥ 94 ॥
य इदं कथयेद विद्वान अहन्य अहनि भारत सुदर्शनस्य चरितं पुण्याँल लॊकान अवाप्नुयात ॥ 95 ॥
अनुशासनपर्व · Anushasana Parva
अध्याय 2
Reach this point to mark the section finished.
Continue to अध्याय 3