धर्मDharmic Data

अनुशासनपर्व · Anushasana Parva

अध्याय 151

  1. [य] किं शरेयः पुरुषस्येह किं कुर्वन सुखम एधते विपाप्मा च भवेत केन किं वा कल्मष नाशनम ॥ 1 ॥

  2. [भ] अयं दैवतवंशॊ वै ऋषिवंशसमन्वितः दविसंध्यं पठितः पुत्र कल्मषापहरः परः ॥ 2 ॥

  3. देवासुरगुरुर देवः सर्वभूतनमस्कृतः अचिन्त्यॊ ऽथाप्य अनिर्देश्यः सर्वप्राणॊ हय अयॊनिजः ॥ 3 ॥

  4. पितामहॊ जगन नाथः सावित्री बरह्मणः सती वेद भूर अथ कर्ता च विष्णुर नारायणः परभुः ॥ 4 ॥

  5. उमापतिर विरूपाक्षः सकन्दः सेनापतिस तथा विशाखॊ हुतभुग वायुश चन्द्रादित्यौ परभाकरौ ॥ 5 ॥

  6. शक्रः शचीपतिर देवॊ यमॊ धूमॊर्णया सह वरुणः सह गौर या च सह ऋद्ध्या धनेश्वरः ॥ 6 ॥

  7. सौम्या गौः सुरभिर देवी विश्रवाश च महान ऋषिः षट कालः सागरॊ गाङ्गा सरवन्त्यॊ ऽथ मरुद्गणाः ॥ 7 ॥

  8. वालखिल्यास तपःसिद्धाः कृष्णद्वैपायनस तथा नारदः पर्वतश चैव विश्वावसुर हहाहुहूः ॥ 8 ॥

  9. तुम्बरुश चित्रसेनश च देवदूतश च विश्रुतः देवकन्या महाभागा दिव्याश चाप्सरसां गणाः ॥ 9 ॥

  10. उर्वशी मेनका रम्भा मिश्रकेशी अलम्बुषा विश्वाची च घृताची च पञ्च चूडा तिलॊत्तमा ॥ 10 ॥

  11. आदित्या वसवॊ रुद्राः साश्विनः पितरॊ ऽपि च धर्मः सत्यं तपॊ दीक्षा वयवसायः पितामहः ॥ 11 ॥

  12. शर्वर्यॊ दिवसाश चैव मारीचः कश्यपस तथा शुक्रॊ बृहस्पतिर भौमॊ बुधॊ राहुः शनैश्चरः ॥ 12 ॥

  13. नक्षत्राण्य ऋतवश चैव मासाः संध्याः स वत्सराः वैनतेयाः समुद्राश च कद्रुजाः पन्नगास तथा ॥ 13 ॥

  14. शतद्रूश च विपाशा च चन्द्र भागा सरस्वती सिन्धुश च देविका चैव पुष्करं तीर्थम एव च ॥ 14 ॥

  15. गङ्गा महानदी चैव कपिला नर्मदा तथा कम्पुना च विशल्या च करतॊयाम्बुवाहिनी ॥ 15 ॥

  16. सरयूर गण्डकी चैव लॊहित्यश च महानदः ताम्रारुणा वेत्रवती पर्णाशा गौतमी तथा ॥ 16 ॥

  17. गॊदावरी च वेण्णा च कृष्ण वेणा तथाद्रिजा दृषद्वती च कावेरी वंक्षुर मन्दाकिनी तथा ॥ 17 ॥

  18. परयागं च परभासं च पुण्यं नैमिषम एव च तच च विश्वेश्वर सथानं यत्र तद विमलं सरः ॥ 18 ॥

  19. पुण्यतीर्थैर्श च कलिलं कुरुक्षेत्रं परकीर्तितम सिन्धूत्तमं तपॊ दानं जम्बू मार्गम अथापि च ॥ 19 ॥

  20. हिरण्वती वितस्ता च तथैवेक्षुमती नदी वेद समृतिर वैदसिनी मलवासाश च नद्य अपि ॥ 20 ॥

  21. भूमिभागास तथा पुण्या गङ्गा दवारम अथापि च ऋषिकुल्यास तथा मेध्या नदी चित्रपथा तथा ॥ 21 ॥

  22. कौशिकी यमुना सीता तथा चर्मण्वती नदी नदी भीम रथी चैव बाहुदा च महानदी महेन्द्र वाणी तरिदिवा नीलिका च सरस्वती ॥ 22 ॥

  23. नन्दा चापरनन्दा च तथा तीर्थं महाह्रदम गयाथ फल्गु तीर्थं च धर्मारण्यं सुरैर वृतम ॥ 23 ॥

  24. तथा देव नदी पुण्या सरश च बरह्मनिर्मितम पुण्यं तरिलॊकविख्यातं सर्वपापहरं शिवम ॥ 24 ॥

  25. हिमवान पर्वतश चैव दिव्यौषधिसमन्वितः विन्ध्यॊ धातुविचित्राङ्गस तीर्थवान औषधान्वितः ॥ 25 ॥

  26. मेरुर महेन्द्रॊ मलयः शवेतश च रजता चितः शृङ्गवान मन्दरॊ नीलॊ निषधॊ दर्दुरस तथा ॥ 26 ॥

  27. चित्रकूटॊ ऽञजनाभश च पर्वतॊ गन्धमादनः पुण्यः सॊमगिरिश चैव तथैवान्ये महीधराः दिशश च विदिशश चैव कषितिः सर्वे महीरुहाः ॥ 27 ॥

  28. विश्वे देवा नभश चैव नक्षत्राणि गरहास तथा पान्तु वः सततं देवाः कीर्तिताकीर्तिता मया ॥ 28 ॥

  29. कीर्तयानॊ नरॊ हय एतान मुच्यते सर्वकिल्बिषैः सतुवंश च परतिनन्दंश च मुच्यते सर्वतॊ भयात सर्वसंकरपापेभ्यॊ देवता सतवनन्दकः ॥ 29 ॥

  30. देवतान अन्तरं विप्रांस तपःसिद्धांस तपॊ ऽधिकान कीर्तितान कीर्तयिष्यामि सर्वपापप्रमॊचनान ॥ 30 ॥

  31. यवक्रीतॊ ऽथ रैभ्यश च कक्षीवान औशिजस तथा भृग्वङ्गिरास तथा कण्वॊ मेधातिथिर अथ परभुः बर्ही च गुणसंपन्नः पराचीं दिशम उपाश्रिताः ॥ 31 ॥

  32. भद्रां दिशं महाभागा उल्मुचुः परमुचुस तथा मुमुचुश च महाभागः सवस्त्य आत्रेयश च वीर्यवान ॥ 32 ॥

  33. मित्रा वरुणयॊः पुत्रस तथागस्त्यः परतापवान दृढायुश चॊर्ध्वबाहुश च विश्रुताव ऋषिसत्तमौ ॥ 33 ॥

  34. पश्चिमां दिशम आश्रित्य य एधन्ते निबॊध तान उषद्गुः सह सॊदर्यैः परिव्याधश च वीर्यवान ॥ 34 ॥

  35. ऋषिर दीर्घतमाश चैव गौतमः कश्यपस तथा एकतश च दवितश चैव तरितश चैव महर्षयः अत्रेः पुत्रश च धर्मात्मा तथा सारस्वतः परभुः ॥ 35 ॥

  36. उत्तरां दिशम आश्रित्य य एधन्ते निबॊध तान अत्रिर वसिष्ठः शक्तिश च पाराशर्यश च वीर्यवान ॥ 36 ॥

  37. विश्वामित्रॊ भरद्वाजॊ जमदग्निस तथैव च ऋचीक पौत्रॊ रामश च ऋषिर औद्दालकिस तथा ॥ 37 ॥

  38. शवेतकेतुः कॊहलश च विपुलॊ देवलस तथा देव शर्मा च धौम्यश च हस्तिकाश्यप एव च ॥ 38 ॥

  39. लॊमशॊ नाचिकेतश च लॊमहर्षण एव च ऋषिर उग्रश्रवाश चैव भार्गवश चयवनस तथा ॥ 39 ॥

  40. एष वै समवायस ते ऋषिदेव समन्वितः आद्यः परकीर्तितॊ राजन सर्वपापप्रमॊचनः ॥ 40 ॥

  41. नृगॊ ययातिर नहुषॊ यदुः पूरुश च वीर्यवान धुन्धुमारॊ दिलीपश च सगरश च परतापवान ॥ 41 ॥

  42. कृशाश्वॊ यौवनाश्वश च चित्राश्वः सत्यवांस तथा दुःषन्तॊ भरतश चैव चक्रवर्ती महायशाः ॥ 42 ॥

  43. यवनॊ जनकश चैव तथा दृढरथॊ नृपः रघुर नरवरश चैव तथा दशरथॊ नृपः ॥ 43 ॥

  44. रामॊ राक्षसहा वीरः शशबिन्दुर भगीरथः हरिश्चन्द्रॊ मरुत्तश च जह्नुर जाह्नवि सेविता ॥ 44 ॥

  45. महॊदयॊ हय अलर्कश च ऐलश चैव नराधिपः करंधमॊ नरश्रेष्ठः कध्मॊरश च नराधिपः ॥ 45 ॥

  46. दक्षॊ ऽमबरीषः कुकुरॊ रवतश च महायशाः मुचुकुन्दश च राजर्षिर मित्र भानुः परियं करः ॥ 46 ॥

  47. तरसदस्युस तथा राजा शवेतॊ राजर्षिसत्तमः महाभिषश च विख्यातॊ निमि राजस तथाष्टकः ॥ 47 ॥

  48. आयुः कषुपश च राजर्षिः कक्षेयुश च नराधिपः शिबिर औशीनरश चैव गयश चैव नराधिपः ॥ 48 ॥

  49. परतर्दनॊ दिवॊदासः सौदासः कॊसलेश्वरः ऐलॊ नलश च राजर्षिर मनुश चैव परजापतिः ॥ 49 ॥

  50. हविध्रश च पृषध्रश च परतीपः शंतनुस तथा कक्षसेनश च राजर्षिर ये चान्ये नानुकीर्तिताः ॥ 50 ॥

  51. मा विघ्नं मा च मे पापं मा च मे परिपन्थिनः धरुवॊ जयॊ मे नित्यं सयात परत्र च परा गतिः ॥ 51 ॥

Reach this point to mark the section finished.

Continue to अध्याय 152

Previous: अध्याय 150