धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 328

  1. [जनमेजय] अस्तौषीद यैर इमं वयासः सशिष्यॊ मधुसूदनम नामभिर विविधैर एषां निरुक्तं भगवन मम ॥ 1 ॥

  2. वक्तुम अर्हसि शुश्रूसॊः परजापतिपतेर हरेः शरुत्वा भवेयं यत पूतः शरच चन्द्र इवामलः ॥ 2 ॥

  3. [वैषम्पायन] शृणु राजन यथाचस्त फल्गुनस्य हरिर विभुः परसन्नात्मात्मनॊ नाम्नां निरुक्तं गुणकर्मजम ॥ 3 ॥

  4. नामभिः कीर्तितैस तस्य केशवस्य महात्मनः पृष्टवान केशवं राजन फल्गुनः परवीर हा ॥ 4 ॥

  5. [अर्जुन] भगवन भूतभव्येश सर्वभूतसृग अव्यय लॊकधाम जगन नाथ लॊकानाम अभयप्रद ॥ 5 ॥

  6. यानि नामानि ते देवकीर्तितानि महर्षिभिः वेदेषु सपुराणेषु यानि गुह्यानि कर्मभिः ॥ 6 ॥

  7. तेषां निरुक्तं तवत्तॊ ऽहं शरॊतुम इच्छामि केशव न हय अन्यॊ वर्तयेन नाम्नां निरुक्तं तवाम ऋते परभॊ ॥ 7 ॥

  8. [षरीभगवान] ऋग्वेदे सयजुर्वेदे तथैवाथर्व सामसु पुराणे सॊपनिषदे तथैव जयॊतिषे ऽरजुन ॥ 8 ॥

  9. सांख्ये च यॊगशास्त्रे च आयुर्वेदे तथैव च बहूनि मम नामानि कीर्तितानि महर्षिभिः ॥ 9 ॥

  10. गौनानि तत्र नामानि कर्मजानि च कानि चित निरुक्तं कर्मजानां च शृणुष्व परयतॊ ऽनघ कथ्यमानं मया तात तवं हि मे ऽरधं समृतः पुरा ॥ 10 ॥

  11. नमॊ ऽति यशसे तस्मै देहिनां परमात्मने नारायणाय विश्वाय निर्गुणाय गुणात्मने ॥ 11 ॥

  12. यस्य परसादजॊ बरह्मा रुद्रश च करॊधसंभवः यॊ ऽसौ यॊनिर हि सर्वस्य सथावरस्य चरस्य च ॥ 12 ॥

  13. अस्तादश गुणं यत तत सत्त्वं सत्त्ववतां वर परकृतिः सा परा मह्यं रॊदसी यॊगधारिणी ऋता सत्यामराजय्या लॊकानाम आत्मसंज्ञिता ॥ 13 ॥

  14. तस्मात सर्वाः परवर्तन्ते सर्ग परलय विक्रियाः ततॊ यज्ञश च यस्ता च पुराणः पुरुषॊ विरात अनिरुद्ध इति परॊक्तॊ लॊकानां परभवाप्ययः ॥ 14 ॥

  15. बराह्मे रात्रिक्षये पराप्ते तस्य हय अमिततेजसः परसादात परादुरभवत पद्मं पद्मनिभेक्षण तत्र बरह्मा समभवत स तस्यैव परसादजः ॥ 15 ॥

  16. अह्नः कषये ललाताच च सुतॊ देवस्य वै तथा करॊधाविष्टस्य संजज्ञे रुद्रः संहार कारकः ॥ 16 ॥

  17. एतौ दवौ विबुधश्रेष्ठौ परसादक्रॊधजौ समृतौ तद आदेशित पन्थानौ सृष्टि संहार कारकौ निमित्तमात्रं ताव अत्र सर्वप्रानि वरप्रदौ ॥ 17 ॥

  18. कपर्दी जतिलॊ मुन्दः शमशानगृहसेवकः उग्रव्रतधरॊ रुद्रॊ यॊगी तरिपुरदारुणः ॥ 18 ॥

  19. दक्षक्रतुहरश चैव भग नेत्रहरस तथा नारायणात्मकॊ जञेयः पाण्डवेय युगे युगे ॥ 19 ॥

  20. तस्मिन हि पूज्यमाने वै देवदेवे महेश्वरे संपूजितॊ भवेत पार्थ देवॊ नारायणः परभुः ॥ 20 ॥

  21. अहम आत्मा हि लॊकानां विश्वानां पाण्डुनन्दन तस्माद आत्मानम एवाग्रे रुद्रं संपूजयाम्य अहम ॥ 21 ॥

  22. यद्य अहं नार्चयेयं वै ईशानं वरदं शिवम आत्मानं नार्चयेत कश चिद इति मे भावितं मनः मया परमाणं हि कृतं लॊकः समनुवर्तते ॥ 22 ॥

  23. परमानानि हि पूज्यानि ततस तं पूजयाम्य अहम यस तं वेत्ति स मां वेत्ति यॊ ऽनु तं स हि माम अनु ॥ 23 ॥

  24. रुद्रॊ नारायणश चैव सत्त्वम एकं दविधाकृतम लॊके चरति कौन्तेय वयक्ति सथं सर्वकर्मसु ॥ 24 ॥

  25. न हि मे केन चिद देयॊ वरः पाण्डवनन्दन इति संचिन्त्य मनसा पुराणं विश्वम ईश्वरम पुत्रार्थम आराधितवान आत्मानम अहम आत्मना ॥ 25 ॥

  26. न हि विष्णुः परनमति कस्मै चिद विबुधाय तु ऋत आत्मानम एवेति ततॊ रुद्रं भजाम्य अहम ॥ 26 ॥

  27. सब्रह्मकाः सरुद्राश च सेन्द्रा देवाः सहर्षिभिः अर्चयन्ति सुरश्रेष्ठं देवं नारायणं हरिम ॥ 27 ॥

  28. भविष्यतां वर्ततां च भूतानां चैव भारत सर्वेषाम अग्रणीर विष्णुः सेव्यः पूज्यश च नित्यशः ॥ 28 ॥

  29. नमस्व हव्यदं विष्णुं तथा शरणदं नम वरदं नमस्व कौन्तेय हव्यकव्य भुजं नम ॥ 29 ॥

  30. चतुर्विधा मम जना भक्ता एवं हि ते शरुतम तेषाम एकान्तिनः शरेष्ठास ते चैवानन्य देवताः अहम एव गतिस तेषां निराशीः कर्म कारिणाम ॥ 30 ॥

  31. ये च शिष्टास तरयॊ भक्ताः फलकामा हि ते मताः सर्वे चयवन धर्माणः परतिबुद्धस तु शरेष्ठ भाक ॥ 31 ॥

  32. बरह्माणं शिति कन्थं च याश चान्या देवताः समृताः परबुद्धवर्याः सेवन्ते एष पार्थानुकीत्रितः भक्तं परति विशेषस ते एष पार्थानुकीर्तितः ॥ 32 ॥

  33. तवं चैवाहं च कौन्तेय नरनारायणौ समृतौ भारावतरणार्थं हि परविष्टौ मानुषीं तनुम ॥ 33 ॥

  34. जानाम्य अध्यात्मयॊगांश च यॊ ऽहं यस्माच च भारत निवृत्ति लक्षणॊ धर्मस तथाभ्युदयिकॊ ऽपि च ॥ 34 ॥

  35. नराणाम अयनं खयातम अहम एकः सनातनः आपॊ नारा इति परॊक्ता आपॊ वै नरसूनवः अयनं मम तत पूर्वम अतॊ नारायणॊ हय अहम ॥ 35 ॥

  36. छादयामि जगद विश्वं भूत्वा सूर्य इवांशुभिः सर्वभूताधिवासश च वासुदेवस ततॊ हय अहम ॥ 36 ॥

  37. गतिश च सर्वभूतानां परजानां चापि भारत वयाप्ता मे रॊदसी पार्थ कान्तिश चाभ्यधिका मम ॥ 37 ॥

  38. अधिभूतानि चान्ते ऽहं तद इच्छंश चास्मि भारत करमणाच चाप्य अहं पार्थ विष्णुर इत्य अभिसंज्ञितः ॥ 38 ॥

  39. दमात सिद्धिं परीप्सन्तॊ मां जनाः कामयन्ति हि दिवं चॊर्वीं च मध्यं च तस्माद दामॊदरॊ हय अहम ॥ 39 ॥

  40. पृश्निर इत्य उच्यते चान्नं वेदा आपॊ ऽमृतं तथा ममैतानि सदा गर्भे पृश्निगर्भस ततॊ हय अहम ॥ 40 ॥

  41. ऋषयः पराहुर एवं मां तरित कूपाभिपातितम पृश्निगर्भ तरितं पातीत्य एकत दवित पातितम ॥ 41 ॥

  42. ततः स बरह्मणः पुत्र आद्यॊ ऋषि वरस तरितः उत्ततारॊद पानाद वै पृश्निगर्भानुकीर्तनात ॥ 42 ॥

  43. सूर्यस्य तपतॊ लॊकान अग्नेः सॊमस्य चाप्य उत अंशवॊ ये परकाशन्ते मम ते केशसंज्ञिताः सर्वज्ञाः केशवं तस्मान माम आहुर दविजसत्तमाः ॥ 43 ॥

  44. सवपत्न्याम आहितॊ गर्भ उतथ्येन महात्मना उतथ्ये ऽनतर्हिते चैव कदा चिद देव मायया बृहस्पतिर अथाविन्दत तां पत्नीं तस्य भारत ॥ 44 ॥

  45. ततॊ वै तम ऋषिश्रेष्ठं मैथुनॊपगतं तथा उवाच गर्भः कौन्तेय पञ्च भूतसमन्वितः ॥ 45 ॥

  46. पूर्वागतॊ ऽहं वरद नार्हस्य अम्बां परबाधितुम एतद बृहस्पतिः शरुत्वा चुक्रॊध च शशाप च ॥ 46 ॥

  47. मैथुनॊपगतॊ यस्मात तवयाहं विनिवारितः तस्माद अन्धॊ जास्यसि तवं मच छापान नात्र संशयः ॥ 47 ॥

  48. स शापाद ऋषिमुख्यस्य दीर्घं तम उपेयिवान स हि दीर्घतमा नाम नाम्ना हय आसीद ऋषिः पुरा ॥ 48 ॥

  49. वेदान अवाप्य चतुरः साङ्गॊपाङ्गान सनातनान परयॊजयाम आस तदा नाम गुह्यम इदं मम ॥ 49 ॥

  50. आनुपूर्व्येण विधिना केशवेति पुनः पुनः स चक्षुष्मान समभवद गौतमश चाभवत पुनः ॥ 50 ॥

  51. एवं हि वरदं नाम केशवेति ममार्जुन देवानाम अथ सर्वेषाम ऋषीणां च महात्मनाम ॥ 51 ॥

  52. अग्निः सॊमेन संयुक्त एकयॊनिमुखं कृतम अग्नीषॊमात्मकं तस्माज जगत कृत्स्नं चराचरम ॥ 52 ॥

  53. अपि हि पुराणे भवत्य एकयॊन्य आत्मकाव अग्नीषॊमौ देवाश चाग्निमुखा इति एकयॊनित्वाच च परस्परं महयन्तॊ लॊकान धारयत इति ॥ 53 ॥

Reach this point to mark the section finished.

Continue to अध्याय 329

Previous: अध्याय 327