[भीस्म] एवं सतुतः स भगवान गुह्यैस तथ्यैश च नामभिः तं मुनिं दर्शयाम आस नारदं विश्वरूपधृक ॥ 1 ॥
किं चिच चन्द्र विशुद्धात्मा किं चिच चन्द्राद विशेषवान कृशानु वर्णः किं चिच च किं चिद धिष्न्याकृतिः परभुः ॥ 2 ॥
शुकपत्रवर्णः किं चिच च किं चित सफतिक सप्रभः नीलाञ्जनचय परख्यॊ जातरूपप्रभः कव चित ॥ 3 ॥
परवालाङ्कुर वर्णश च शवेतवर्णः कव चिद बभौ कव चित सुवर्णवर्णाभॊ वैदूर्यसदृशः कव चित ॥ 4 ॥
नीलवैदूर्य सदृश इन्द्रनीलनिभः कव चित मयूरग्रीव वर्णाभॊ मुक्ताहार निभः कव चित ॥ 5 ॥
एतान वर्णान बहुविधान रूपे बिभ्रत सनातनः सहस्रनयनः शरीमाञ शतशीर्षः सहस्रपात ॥ 6 ॥
सहस्रॊदर बाहुश च अव्यक्त इति च कव चित ओंकारम उद्गिरन वक्त्रात सावित्रीं च तद अन्वयाम ॥ 7 ॥
शेषेभ्यश चैव वक्त्रेभ्यश चतुर्वेदॊद्गतं वसु आरण्यकं जगौ देवॊ हरिर नारायणॊ वशी ॥ 8 ॥
वेदीं कमन्दलुं दर्भान मनि रूपान अथॊपलान अजिनं दन्द काष्ठं च जवलितं च हुताशनम धारयाम आस देवेशॊ हस्तैर यज्ञपतिस तदा ॥ 9 ॥
तं परसन्नं परसन्नात्मा नारदॊ दविजसत्तमः वाग्यतः परयतॊ भूत्वा ववन्दे परमेश्वरम तम उवाच नतं मूर्ध्ना देवानाम आदिर अव्ययः ॥ 10 ॥
एकतश च दवितश चैव तरितश चैव महर्षयः इमं देशम अनुप्राप्ता मम दर्शनलालसाः ॥ 11 ॥
न च मां ते ददृशिरे न च दरक्ष्यति कश चन ऋते हय एकान्तिक शरेष्ठात तवं चैवैकान्तिकॊ मतः ॥ 12 ॥
ममैतास तनवः शरेष्ठा जाता धर्मगृहे दविज तास तवं भजस्व सततं साधयस्व यथागतम ॥ 13 ॥
वृणीष्व च वरं विप्र मत्तस तवं यम इहेच्छसि परसन्नॊ ऽहं तवाद्येह विश्वमूर्तिर इहाव्ययः ॥ 14 ॥
[नारद] अद्य मे तपसॊ देव यमस्य नियमस्य च सद्यः फलम अवाप्तं वै दृष्टॊ यद भगवान मया ॥ 15 ॥
वर एष ममात्यन्तं दृष्टस तवं यत सनातनः भगवान विश्वदृक सिंहः सर्वमूर्तिर महाप्रभुः ॥ 16 ॥
[भीस्म] एवं संदर्शयित्वा तु नारदं परमेष्ठिजम उवाच वचनं भूयॊ गच्छ नारद माचिरम ॥ 17 ॥
इमे हय अनिन्द्रियाहारा मद्भक्ताश चन्द्र वर्चसः एकाग्राश चिन्तयेयुर मां नैषां विघ्नॊ भवेद इति ॥ 18 ॥
सिद्धाश चैते महाभागाः पुरा हय एकान्तिनॊ ऽभवन तमॊ रजॊ विनिर्मुक्ता मां परवेक्ष्यन्त्य असंशयम ॥ 19 ॥
न दृश्यश चक्षुषा यॊ ऽसौ न सपृश्यः सपर्शनेन च न घरेयश चैव गन्धेन रसेन च विवर्जितः ॥ 20 ॥
सत्त्वं रजस तमश चैव न गुणास तं भजन्ति वै यश च सर्वगतः साक्षी लॊकस्यात्मेति कथ्यते ॥ 21 ॥
भूतग्राम शरीरेषु नश्यत्सु न विनश्यति अजॊ नित्यः शाश्वतश च निर्गुणॊ निष्कलस तथा ॥ 22 ॥
दविर दवादशेभ्यस तत्त्वेभ्यः खयातॊ यः पञ्चविंशकः पुरुषॊ निष्क्रियश चैव जञानदृश्यश च कथ्यते ॥ 23 ॥
यं परविश्य भवन्तीह मुक्ता वै दविजसत्तम स वासुदेवॊ विज्ञेयः परमात्मा सनातनः ॥ 24 ॥
पश्य देवस्य माहात्म्यं महिमानं च नारद शुभाशुभैः कर्मभिर यॊ न लिप्यति कदा चन ॥ 25 ॥
सत्त्वं रजस तमश चैव गुणान एतान परचक्षते एते सर्वशरीरेषु तिष्ठन्ति विचरन्ति च ॥ 26 ॥
एतान गुणांस तु कषेत्रज्ञॊ भुङ्क्ते नैभिः स भुज्यते निर्गुणॊ गुणभुक चैव गुणस्रष्टा गुणाधिकः ॥ 27 ॥
जगत परतिष्ठा देवर्षे पृथिव्य अप्सु परलीयते जयॊतिष्य आपः परलीयन्ते जयॊतिर वायौ परलीयते ॥ 28 ॥
खे वायुः परलयं याति मनस्य आकाशम एव च मनॊ हि परमं भूतं तद अव्यक्ते परलीयते ॥ 29 ॥
अव्यक्तं पुरुषे बरह्मन निष्क्रिये संप्रलीयते नास्ति तस्मात परतरं पुरुषाद वै सनातनात ॥ 30 ॥
नित्यं हि नास्ति जगति भूतं सथावरजङ्गमम ऋते तम एकं पुरुषं वासुदेवं सनातनम सर्वभूतात्मभूतॊ हि वासुदेवॊ महाबलः ॥ 31 ॥
पृथिवी वायुर आकाशम आपॊ जयॊतिश च पञ्चमम ते समेता महात्मानः शरीरम इति संज्ञितम ॥ 32 ॥
तद आविशति यॊ बरह्मन्न अदृश्यॊ लघुविक्रमः उत्पन्न एव भवति शरीरं चेष्टयन परभुः ॥ 33 ॥
न विना धातुसंघातं शरीरं भवति कव चित न च जीवं विना बरह्मन धातवश चेष्टयन्त्य उत ॥ 34 ॥
स जीवः परिसंख्यातः शेषः संकर्षणः परभुः तस्मात सनत्कुमारत्वं यॊ लभेत सवकर्मणा ॥ 35 ॥
यस्मिंश च सर्वभूतानि परलयं यान्ति संक्षये स मनः सर्वभूतानां परद्युम्नः परिपथ्यते ॥ 36 ॥
तस्मात परसूतॊ यः कर्ता कार्यं कारणम एव च यस्मात सर्वं परभवति जगत सथावरजङ्गमम सॊ ऽनिरुद्धः स ईशानॊ वयक्तिः सा सर्वकर्मसु ॥ 37 ॥
यॊ वासुदेवॊ भगवान कषेत्रज्ञॊ निर्गुणात्मकः जञेयः स एव भगवाञ जीवः संकर्षणः परभुः ॥ 38 ॥
संकर्षणाच च परद्युम्नॊ मनॊ भूतः स उच्यते परद्युम्नाद यॊ ऽनिरुद्धस तु सॊ ऽहंकारॊ महेश्वरः ॥ 39 ॥
मत्तः सर्वं संभवति जगत सथावरजङ्गमम अक्षरं च कषरं चैव सच चासच चैव नारद ॥ 40 ॥
मां परविश्य भवन्तीह मुक्ता भक्तास तु ये मम अहं हि पुरुषॊ जञेयॊ निष्क्रियः पञ्चविंशकः ॥ 41 ॥
निर्गुणॊ निष्कलश चैव निर्द्वन्द्वॊ निष्परिग्रहः एतत तवया न विज्ञेयं रूपवान इति दृश्यते इच्छन मुहूर्तान नश्येयम ईशॊ ऽहं जगतॊ गुरुः ॥ 42 ॥
माया हय एषा मया सृष्टा यन मां पश्यसि नारद सर्वभूतगुणैर युक्तं नैवं तवं जञातुम अर्हसि मयैतत कथितं सम्यक तव मूर्ति चतुष्टयम ॥ 43 ॥
सिद्धा हय एते महाभागा नरा हय एकान्तिनॊ ऽभवन तमॊ रजॊ भयां निर्मुक्ताः परवेक्ष्यन्ति च मां मुने ॥ 44 ॥
अहं कर्ता च कार्यं च कारणं चापि नारद अहं हि जीव संज्ञॊ वै मयि जीवः समाहितः मैवं ते बुद्धिर अत्राभूद दृष्टॊ जीवॊ मयेति च ॥ 45 ॥
अहं सर्वत्रगॊ बरह्मन भूतग्रामान्तर आत्मकः भूतग्राम शरीरेषु नश्यत्सु न नशाम्य अहम ॥ 46 ॥
हिरण्यगर्भॊ लॊकादिश चतुर्वक्त्रॊ निरुक्तगः बरह्मा सनातनॊ देवॊ मम बह्व अर्थचिन्तकः ॥ 47 ॥
पश्यैकादश मे रुद्रान दक्षिणं पार्श्वम आस्थितान दवादशैव तथादित्यान वामं पार्श्वं समास्थितान ॥ 48 ॥
अग्रतश चैव मे पश्य वसून अस्तौ सुरॊत्तमान नासत्यं चैव दस्रं च भिषजौ पश्य पृष्ठतः ॥ 49 ॥
सर्वान परजापतीन पश्य पश्य सप्त ऋषीन अपि वेदान यज्ञांश च शतशः पश्यामृतम अथौषधीः ॥ 50 ॥
तपांसि नियमांश चैव यमान अपि पृथग्विधान तथास्त गुणम ऐश्वर्यम एकस्थं पश्य मूर्तिमत ॥ 51 ॥
शरियं लक्ष्मीं च कीर्तिं च पृथिवीं च ककुद्मिनीम वेदानां मातरं पश्य मत सथां देवीं सरस्वतीम ॥ 52 ॥
धरुवं च जयॊतिषां शरेष्ठं पश्य नारद खेचरम अम्भॊ धरान समुद्रांश च सरांसि सरितस तथा ॥ 53 ॥
मूर्तिमन्तः पितृगणांश चतुरः पश्य सत्तम तरींश चैवेमान गुणान पश्य मत्स्थान मूर्ति विवर्जितान ॥ 54 ॥
देवकार्याद अपि मुने पितृकार्यं विशिष्यते देवानां च पितॄणां च पिता हय एकॊ ऽहम आदितः ॥ 55 ॥
अहं हयशिरॊ भूत्वा समुद्रे पश्चिमॊत्तरे पिबामि सुहुतं हव्यं कव्यं च शरद्धयान्वितम ॥ 56 ॥
मया सृष्टः पुरा बरह्मा मद यज्ञम अयजत सवयम ततस तस्मै वरान परीतॊ ददाव अहम अनुत्तमान ॥ 57 ॥
मत पुत्रत्वं च कल्पादौ लॊकाध्यक्षत्वम एव च अहंकारकृतं चैव नाम पर्याय वाचकम ॥ 58 ॥
तवया कृतां च मर्यादां नातिक्राम्यति कश चन तवं चैव वरदॊ बरह्मन वरेप्सूनां भविष्यसि ॥ 59 ॥
सुरासुरगणानां च ऋषीणां च तपॊधन पितॄणां च महाभाग सततं संशितव्रत विविधानां च भूतानां तवम उपास्यॊ भविष्यसि ॥ 60 ॥
परादुर्भावगतश चाहं सुरकार्येषु नित्यदा अनुशास्यस तवया बरह्मण्णियॊज्यश च सुतॊ यथा ॥ 61 ॥
एतांश चान्यांश च रुचिरान बरह्मणे ऽमिततेजसे अहं दत्त्वा वरान परीतॊ निवृत्ति परमॊ ऽभवम ॥ 62 ॥
निर्वानं सर्वधर्माणां निवृत्तिः परमा समृता तस्मान निवृत्तिम आपन्नश चरेत सर्वाङ्गनिर्वृतः ॥ 63 ॥
विद्या सहायवन्तं माम आदित्यस्थं सनातनम कपिलं पराहुर आचार्याः सांख्यनिश्चित निश्चयाः ॥ 64 ॥
हिरण्यगर्भॊ भगवान एष छन्दसि सुष्टुतः सॊ ऽहं यॊगगतिर बरह्मन यॊगशास्त्रेषु शब्दितः ॥ 65 ॥
एषॊ ऽहं वयक्तिम आगम्य तिष्ठामि दिवि शाश्वतः ततॊ युगसहस्रान्ते संहरिष्ये जगत पुनः कृत्वात्म सथानि भूतानि सथावराणि चराणि च ॥ 66 ॥
एकाकी विद्यया सार्धं विहरिष्ये दविजॊत्तम ततॊ भूयॊ जगत सर्वं करिष्यामीह विद्यया ॥ 67 ॥
अस्मन मूर्तिश चतुर्थी या सासृजच छेषम अव्ययम स हि संकर्षणः परॊक्तः परद्युम्नं सॊ ऽपय अजीजनत ॥ 68 ॥
परद्युम्नाद अनिरुद्धॊ ऽहं सर्गॊ मम पुनः पुनः अनिरुद्धात तथा बरह्मा तत्रादि कमलॊद्भवः ॥ 69 ॥
बरह्मणः सर्वभूतानि चराणि सथावराणि च एतां सृष्टिं विजानीहि कल्पादिषु पुनः पुनः ॥ 70 ॥
यथा सूर्यस्य गगनाद उदयास्त मयाव इह नस्तौ पुनर बलात काल आनयत्य अमितद्युतिः तथा बलाद अहं पृथ्वीं सर्वभूतहिताय वै ॥ 71 ॥
सत्त्वैर आक्रान्त सर्वाङ्गां नस्तां सागरमेखलाम आनयिष्यामि सवं सथानं वाराहं रूपम आस्थितः ॥ 72 ॥
हिरण्याक्षं हनिष्यामि दैतेयं बलगर्वितम नारसिंहं वपुः कृत्वा हिरण्यकशिपुं पुनः सुरकार्ये हनिष्यामि यज्ञघ्नं दितिनन्दनम ॥ 73 ॥
विरॊचनस्य बलवान बलिः पुत्रॊ महासुरः भविष्यति स शक्रं च सवराज्याच चयावयिष्यति ॥ 74 ॥
तरैलॊक्ये ऽपहृते तेन विमुखे च शचीपतौ अदित्यां दवादशः पुत्रः संभविष्यामि कश्यपात ॥ 75 ॥
ततॊ राज्यं परदास्यामि शक्रायामित तेजसे देवताः सथापयिष्यामि सवेषु सथानेषु नारद बलिं चैव करिष्यामि पातालतलवासिनम ॥ 76 ॥
तरेतायुगे भविष्यामि रामॊ भृगुकुलॊद्वहः कषत्रं चॊत्सादयिष्यामि समृद्धबलवाहनम ॥ 77 ॥
संधौ तु समनुप्राप्ते तरेतायां दवापरस्य च रामॊ दाशरथिर भूत्वा भविष्यामि जगत्पतिः ॥ 78 ॥
तरितॊपघाताद वैरूप्यम एकतॊ ऽथ दवितस तथा पराप्स्यतॊ वारणत्वं हि परजापतिसुताव ऋषी ॥ 79 ॥
तयॊर ये तव अन्वये जाता भविष्यन्ति वनौकसः ते सहाया भविष्यन्ति सुरकार्ये मम दविज ॥ 80 ॥
ततॊ रक्षःपतिं घॊरं पुलस्त्य कुलपांसनम हनिष्ये रावणं संख्ये सगणं लॊककन्तकम ॥ 81 ॥
दवापरस्य कलेश चैव संधौ पर्यवसानिके परादुर्भावः कंस हेतॊर मथुरायां भविष्यति ॥ 82 ॥
तत्राहं दानवान हत्वा सुबहून देवकन्तकान कुशस्थलीं करिष्यामि निवासं दवारकां पुरीम ॥ 83 ॥
वसानस तत्र वै पुर्याम अदितेर विप्रियं करम हनिष्ये नरकं भौमं मुरं पीथं च दानवम ॥ 84 ॥
पराग्ज्यॊतिष पुरं रम्यं नाना धनसमन्वितम कुशस्थलीं नयिष्यामि हत्वा वै दानवॊत्तमान ॥ 85 ॥
शंकरं च महासेनं बान परियहितैषिणम पराजेष्याम्य अथॊद्युक्तौ देवलॊकनमस्कृतौ ॥ 86 ॥
ततः सुतं बलेर जित्वा बानं बाहुसहस्रिणम विनाशयिष्यामि ततः सर्वान सौभनिवासिनः ॥ 87 ॥
यः कालयवनः खयातॊ गर्ग तेजॊ ऽभिसंवृतः भविष्यति वधस तस्य मत्त एव दविजॊत्तम ॥ 88 ॥
जरासंधश च बलवान सर्वराजविरॊधकः भविष्यत्य असुरः सफीतॊ भूमिपालॊ गिरिव्रजे मम बुद्धिपरिस्पन्दाद वधस तस्य भविष्यति ॥ 89 ॥
समागतेषु बलिषु पृथिव्यां सर्वराजसु वासविः सुसहायॊ वै मम हय एकॊ भविष्यति ॥ 90 ॥
एवं लॊका वदिष्यन्ति नरनारायणाव ऋषी उद्युक्तौ दहतः कषत्रं लॊककार्यार्थम ईश्वरौ ॥ 91 ॥
कृत्वा भावावतरणं वसुधाया यथेप्सितम सर्वसात्वत मुख्यानां दवारकायाश च सत्तम करिष्ये परलयं घॊरम आत्मज्ञाति विनाशनम ॥ 92 ॥
कर्माण्य अपरिमेयानि चतुर्मूर्ति धरॊ हय अहम कृत्वा लॊकान गमिष्यामि सवान अहं बरह्म सत्कृतान ॥ 93 ॥
हंसॊ हयशिराश चैव परादुर्भावा दविजॊत्तम यदा वेदश्रुतिर नस्ता मया परत्याहृता तदा सवेदाः सश्रुतीकाश च कृताः पूर्वं कृते युगे ॥ 94 ॥
अतिक्रान्ताः पुराणेषु शरुतास ते यदि वा कव चित अतिक्रान्ताश च बहवः परादुर्भावा ममॊत्तमाः लॊककार्याणि कृत्वा च पुनः सवां परकृतिं गताः ॥ 95 ॥
न हय एतद बरह्मणा पराप्तम ईदृशं मम दर्शनम यत तवया पराप्तम अद्येह एकान्तगतबुद्धिना ॥ 96 ॥
एतत ते सर्वम आख्यातं बरह्मन भक्तिमतॊ मया पुराणं च भविष्यं च सरहस्यं च सत्तम ॥ 97 ॥
एवं स भगवान देवॊ विश्वमूर्ति धरॊ ऽवययः एतावद उक्त्वा वचनं तत्रैवान्तरधीयत ॥ 98 ॥
नारदॊ ऽपि महातेजाः पराप्यानुग्रहम ईप्सितम नरनारायणौ दरष्टुं पराद्रवद बदराश्रमम ॥ 99 ॥
इदं महॊपनिषदं चतुर्वेद समन्वितम सांख्ययॊगकृतं तेन पञ्चरात्रानुशब्दितम ॥ 100 ॥
नारायण मुखॊद्गीतं नारदॊ ऽशरावयत पुनः बरह्मणः सदने तात यथादृष्टं यथा शरुतम ॥ 101 ॥
[युधिस्थिर] एतद आश्चर्यभूतं हि माहात्म्यं तस्य धीमतः किं बरह्मा न विजानीते यतः शुश्राव नारदात ॥ 102 ॥
पितामहॊ हि भगवांस तस्माद देवाद अनन्तरः कथं स न विजानीयात परभावम अमितौजसः ॥ 103 ॥
[भीस्म] महाकल्पसहस्राणि महाकल्पशतानि च समतीतानि राजेन्द्र सर्गाश च परलयाश च ह ॥ 104 ॥
सर्गस्यादौ समृतॊ बरह्मा परजा सर्ग करः परभुः जानाति देवप्रवरं भूयश चातॊ ऽधिकं नृप परमात्मानम ईशानम आत्मनः परभवं तथा ॥ 105 ॥
ये तव अन्ये बरह्म सदने सिद्धसंघाः समागताः तेभ्यस तच छरावयाम आस पुराणं वेद संमितम ॥ 106 ॥
तेषां सकाशात सूर्यश च शरुत्वा वै भावितात्मनाम आत्मानुगामिनां बरह्म शरावयाम आस भारत ॥ 107 ॥
षट षष्टिर हि सहस्राणि ऋषीणां भावितात्मनाम सूर्यस्य तपतॊ लॊकान निर्मिता ये पुरःसराः तेषाम अकथयत सूर्यः सर्वेषां भावितात्मनाम ॥ 108 ॥
सूर्यानुगामिभिस तात ऋषिभिस तैर महात्मभिः मेरौ समागता देवाः शराविताश चेदम उत्तमम ॥ 109 ॥
देवानां तु सकाशाद वै ततः शरुत्वासितॊ दविजः शरावयाम आस राजेन्द्र पितॄणां मुनिसत्तमः ॥ 110 ॥
मम चापि पिता तात कथयाम आस शंतनुः ततॊ मयैतच छरुत्वा च कीर्तितं तव भारत ॥ 111 ॥
सुरैर वा मुनिभिर वापि पुराणं यैर इदं शरुतम सर्वे ते परमात्मानं पूजयन्ति पुनः पुनः ॥ 112 ॥
इदम आख्यानम आर्षेयं पारम्पर्यागतं नृप नावासुदेव भक्ताय तवया देयं कथं चन ॥ 113 ॥
मत्तॊ ऽनयानि च ते राजन्न उपाख्यान शतानि वै यानि शरुतानि धर्म्याणि तेषां सारॊ ऽयम उद्धृतः ॥ 114 ॥
सुरासुरैर यथा राजन निर्मथ्यामृतम उद्धृतम एवम एतत पुरा विप्रैः कथामृतम इहॊद्धृतम ॥ 115 ॥
यश चेदं पथते नित्यं यश चेदं शृणुयान नरः एकान्तभावॊपगत एकान्ते सुसमाहितः ॥ 116 ॥
पराप्य शवेतं महाद्वीपं भूत्वा चन्द्रप्रभॊ नरः स सहस्रार्चिषं देवं परविशेन नात्र संशयः ॥ 117 ॥
मुच्येतार्तस तथा रॊगाच छरुत्वेमाम आदितः कथाम जिज्ञासुर लभते कामान भक्तॊ भक्त गतिं वरजेत ॥ 118 ॥
तवयापि सततं राजन्न अभ्यर्च्यः पुरुषॊत्तमः स हि माता पिता चैव कृत्स्नस्य जगतॊ गुरुः ॥ 119 ॥
बरह्मण्य देवॊ भगवान परीयतां ते सनातनः युधिष्ठिर महाबाहॊ महाबाहुर जनार्दनः ॥ 120 ॥
[वैषम्पायन] शरुत्वैतद आख्यान वरं धर्मराज जनमेजय भरातरश चास्य ते सर्वे नारायण पराभवन ॥ 121 ॥
जितं भगवता तेन पुरुषेणेति भारत नित्यं जप्यपरा भूत्वा सरस्वतीम उदीरयन ॥ 122 ॥
यॊ हय अस्माकं गुरुः शरेष्ठः कृष्ण दवैपयनॊ मुनिः स जगौ परमं जप्यं नारायणम उदीरयन ॥ 123 ॥
गत्वान्तरिक्षात सततं कषीरॊदम अमृताशयम पूजयित्वा च देवेशं पुनर आयात सवम आश्रमम ॥ 124 ॥
शान्तिपर्व · Shanti Parva
अध्याय 326
Reach this point to mark the section finished.
Continue to अध्याय 327