धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 314

  1. [भी] एतच छरुत्वा तु वचनं कृतात्मा कृतनिश्चयः आत्मनात्मानम आस्थाय दृष्ट्वा चात्मानम आत्मना ॥ 1 ॥

  2. कृतकार्यः सुखी शान्तस तूस्नीं परायाद उदङ मुखः शैशिरं गिरिम उद्दिश्य सधर्मा मातरिश्वनः ॥ 2 ॥

  3. एतस्मिन्न एव काले तु देवर्षिर नारदस तदा हिमवन्तम इयाद दरष्टुं सिद्धचारणसेवितम ॥ 3 ॥

  4. तम अप्सरॊगणाकीर्णं गीतस्वननिनादितम किंनराणां समूहैश च भृङ्गराजैस तथैव च ॥ 4 ॥

  5. मद्गुभिः खञ्जरीतैश च विचित्रैर जीव जीवकैः चित्रवर्णैर मयूरैश च केका शतविराजितैः राजहंस समूहैश च हृष्टैः परभृतैस तथा ॥ 5 ॥

  6. पक्षिराजॊ गरुत्मांश च यं नित्यम अधिगच्छति चत्वारॊ लॊकपालश च देवाः सर्षिगणास तथा यत्र नित्यं समायान्ति लॊकस्य हितकाम्यया ॥ 6 ॥

  7. विष्णुना यत्र पुत्रार्थे तपस तप्तं महात्मना यत्रैव च कुमारेण बाल्ये कषिप्ता दिवौकसः ॥ 7 ॥

  8. शक्तिर नयस्ता कषितितले तरैलॊक्यम अवमन्य वै यत्रॊवाच जगत सकन्दः कषिपन वाक्यम इदं तदा ॥ 8 ॥

  9. यॊ ऽनयॊ ऽसति मत्तॊ ऽभयधिकॊ विप्रा यस्याधिकं परियाः यॊ बरह्मण्यॊ दवितीयॊ ऽसति तरिषु लॊकेषु वीर्यवान ॥ 9 ॥

  10. सॊ ऽभयुद्धरत्व इमां शक्तिम अथ वा कम्पयत्व इति तच छरुत्वा वयथिता लॊकाः क इमाम उद्धरेद इति ॥ 10 ॥

  11. अथ देवगणं सर्वं संभ्रान्तेन्द्रिय मानसम अपश्यद भगवान विष्णुः कषिप्रं सासुरराक्षसम किं नव अत्र सुकृतं कार्यं भवेद इति विचिन्तयन ॥ 11 ॥

  12. स नामृष्यत तं कषेपम अवैक्षत च पावकिम स परहस्य विशुद्धात्मा शक्तिं परज्वलितां तदा कम्पयाम आस सव्येन पानिना पुरुषॊत्तमः ॥ 12 ॥

  13. शक्त्यां तु कम्पयानायां विष्णुना बलिना तदा मेदिनी कम्पिता सर्वा सशैलवनकानना ॥ 13 ॥

  14. शक्तेनापि समुद्धर्तुं कम्पिता सा न तूद्धृता रक्षता सकन्द राजस्य धर्षणां परभविष्णुना ॥ 14 ॥

  15. तां कम्पयित्वा भगवान परह्रादम इदम अब्रवीत पश्य वीर्यं कुमारस्य नैतद अन्यः करिष्यति ॥ 15 ॥

  16. सॊ ऽमृष्यमाणस तद वाक्यं समुद्धरण निश्चितः जग्राह तां तस्य शक्तिं न चैनाम अप्य अकम्पयत ॥ 16 ॥

  17. नादं महान्तं मुक्त्वा स मूर्च्छितॊ गिरिमूर्धनि विह्वलः परापतद भूमौ हिरण्यकशिपॊः सुतः ॥ 17 ॥

  18. यत्रॊत्तरां दिशिं गत्वा शैलराजस्य पार्श्वतः तपॊ ऽतप्यत दुर्धर्षस तात नित्यं वृषध्वजः ॥ 18 ॥

  19. पावकेन परिक्षिप्तॊ दीप्यता तस्य चाश्रमः आदित्यबन्धनं नाम दुर्धर्षम अकृतात्मभिः ॥ 19 ॥

  20. न तत्र शक्यते गन्तुं यक्षराक्षस दानवैः दशयॊजनविस्तारम अग्निज्वाला समावृतम ॥ 20 ॥

  21. भगवान पवकस तत्र सवयं तिष्ठति वीर्यवा सर्वविघ्नान परशमयन महादेवस्य धीमतः ॥ 21 ॥

  22. दिव्यं वर्षसहस्रं हि पादेनैकेन तिष्ठतः देवान संतापयंस तत्र महादेवॊ धृतव्रतः ॥ 22 ॥

  23. ऐन्द्रीं तु दिशम आस्थाय शैलराजस्य धीमतः विविक्ते पर्वत तते पाराशर्यॊ महातपः वेदान अध्यापयाम आस वयासः शिष्यान महातपः ॥ 23 ॥

  24. सुमन्तुं च महाभागं वैशम्पायनम एव च जैमिनिं च महाप्राज्ञं पैलं चापि तपस्विनम ॥ 24 ॥

  25. एभिः शिष्यैः परिवृतॊ वयास आस्ते महातपः तत्राश्रमपदं पुण्यं ददर्श पितुर उत्तमम आरणेयॊ विशुद्धात्मा नभसीव दिवाकरः ॥ 25 ॥

  26. अथ वयासः परिक्षिप्तं जवजन्तम इव पावकम ददर्श सुतम आयान्तं दिवाकरसमप्रभम ॥ 26 ॥

  27. असज्जमानं वृक्षेषु शैलेषु विषमेषु च यॊगयुक्तं महात्मानं यथा बानं गुणच्युतम ॥ 27 ॥

  28. सॊ ऽभिगम्य पितुः पादाव अगृह्णाद अरणीसुतः यथॊपजॊषं तैश चापि समागच्छन महामुनिः ॥ 28 ॥

  29. ततॊ निवेदयाम आस पित्रे सर्वम अशेषतः शुकॊ जनकराजेन संवादं परीतमानसः ॥ 29 ॥

  30. एवम अध्यापयञ शिष्यान वयासः पुत्रं च वीर्यवान उवास हिमवत्पृष्ठे पाराशर्यॊ महामुनिः ॥ 30 ॥

  31. ततः कदा चिच छिष्यास तं परिवार्यावतस्थिरे वेदाध्ययनसंपन्नाः शान्तात्मानॊ जितेन्द्रियाः ॥ 31 ॥

  32. वेदेषु निष्ठां संप्राप्य साङ्गेष्व अतितपस्विनः अथॊचुस ते तदा वयासं शिष्याः पराञ्जलयॊ गुरुम ॥ 32 ॥

  33. महता शरेयसा युक्ता यशसा च सम वर्धिताः एकं तव इदानीम इच्छामॊ गुरुणानुग्रहं कृतम ॥ 33 ॥

  34. इति तेषां वचः शरुत्वा बरह्मर्षिस तान उवाच ह उच्यताम इति तद वत्सा यद वः कार्यं परियं मया ॥ 34 ॥

  35. एतद वाक्यं गुरॊः शरुत्वा शिष्यास ते हृष्टमानसाः पुनः पराञ्जलयॊ भूत्वा परनम्य शिरसा गुरुम ॥ 35 ॥

  36. ऊचुस ते सहिता राजन्न इदं वचनम उत्तमम यदि परीत उपाध्यायॊ धन्याः समॊ मुनिसत्तम ॥ 36 ॥

  37. काङ्क्षाम अस्तु वयं सर्वे वरं दत्तं महर्षिणा सस्थः शिष्यॊ न ते खयातिं गच्छेद अत्र परसीद नः ॥ 37 ॥

  38. चत्वारस ते वयं शिष्या गुरुपुत्रश च पञ्चमः इह वेदाः परतिष्ठेरन्न एष नः काङ्क्षितॊ वरः ॥ 38 ॥

  39. शिष्याणां वचनं शरुत्वा वयासॊ वेदार्थ तत्त्ववित पराशरात्मजॊ धीमान परलॊकार्थ चिन्तकः उवाच शिष्यान धर्मात्मा धर्म्यं नैःश्रेयसं वचः ॥ 39 ॥

  40. बराह्मणाय सदा देयं बरह्म शुश्रूसवे भवेत बरह्मलॊके निवासं यॊ धरुवं समभिकाङ्क्षति ॥ 40 ॥

  41. भवन्तॊ बहुलाः सन्तु वेदॊ विस्तार्यताम अयम नाशिष्ये संप्रदातव्यॊ नाव्रते नाकृतात्मनि ॥ 41 ॥

  42. एते शिष्यगुणाः सर्वे विज्ञातव्या यथार्थतः नापरीक्षित चारित्रे विद्या देया कथं चन ॥ 42 ॥

  43. यथा हि कनकं शुद्धं तापछेदनिघर्षणैः परीक्षेत तथा शिष्यान ईक्षेत कुलगुणादिभिः ॥ 43 ॥

  44. न नियॊज्याश च वः शिष्या अनियॊगे महाभये यथामतियथा पाथं तथा विद्या फलिष्यति ॥ 44 ॥

  45. सर्वस तरतु दुर्गानि सर्वॊ भद्राणि पश्यतु शरावयेच चतुरॊ वर्णान कृत्वा बराह्मणम अग्रतः ॥ 45 ॥

  46. वेदस्याध्ययनं हीदं तच च कार्यं महत समृतम सतुत्यर्थम इह देवानां वेदाः सृष्टाः सवयम्भुवा ॥ 46 ॥

  47. यॊ निर्वदेत संमॊहाद बराह्मणं वेदपारगम सॊ ऽपध्यानाद बराह्मणस्य पराभूयाद असंशयम ॥ 47 ॥

  48. यश चाधर्मेण विब्रूयाद यश चाधर्मेण पृच्छति तयॊर अन्यतरः परैति विद्वेषं वाधिगच्छति ॥ 48 ॥

  49. एतद वः सर्वम आख्यातं सवाध्यायस्य विधिं परति उपकुर्याच च शिष्याणाम एतच च हृदि वॊ भवेत ॥ 49 ॥

Reach this point to mark the section finished.

Continue to अध्याय 315

Previous: अध्याय 313