[भी] ततः स राजा जनकॊ मन्त्रिभिः सह भारत पुरः पुरॊहितं कृत्वा सर्वाण्य अन्तःपुराणि च ॥ 1 ॥
आसनं च पुरस्कृत्य रत्नानि विविधानि च शिरसा चार्घ्यम आदाय पुरु पुत्रं समभ्यगात ॥ 2 ॥
स तदासनम आदाय बहुरत्नविभूषितम सपर्ध्यास्तरण संस्तीर्णं सर्वतॊभद्रम ऋच्छिमत ॥ 3 ॥
पुरॊधसा संगृहीतं हस्तेनालभ्य पार्थिवः परददौ गुरुपुत्राय शुकाय परमार्चितम ॥ 4 ॥
तत्रॊपविष्टं तं कार्ष्णिं शास्त्रतः परत्यपूजयत पाद्यं निवेद्य परथमम अर्घ्यं गां च नयवेदयत स च तां मन्त्रवत पूजां परत्यगृह्णाद यथाविधि ॥ 5 ॥
परतिगृह्य च तां पूजां जनकाद दविजसत्तमः गां चैव समनुज्ञाय राजानम अनुमान्य च ॥ 6 ॥
पर्यपृच्छन महातेजा राज्ञः कुशलम अव्ययम अनामयं च राजेन्द्र शुकः सानुचरस्य ह ॥ 7 ॥
अनुज्ञातः स तेनाथ निषसाद सहानुगः उदारसत्त्वाभिजनॊ भूमौ राजा कृताञ्जलिः ॥ 8 ॥
कुशलं चाव्ययं चैव पृष्ट्वा वैयासकिं नृपः किम आगमनम इत्य एव पर्यपृच्छत पार्थिवः ॥ 9 ॥
[षुक] पित्राहम उक्तॊ भद्रं ते मॊक्षधर्मार्थकॊविदः विदेहराजॊ याज्यॊ मे जनकॊ नाम विश्रुतः ॥ 10 ॥
तत्र गच्छस्व वै तूर्णं यदि ते हृदि संशयः परवृत्तौ वा निवृत्तौ वा स ते छेत्स्यति संशयम ॥ 11 ॥
सॊ ऽहं पितुर नियॊगात तवाम उपप्रस्तुम इहागतः तन मे धर्मभृतां शरेष्ठ यथावद वक्तुम अर्हसि ॥ 12 ॥
किं कार्यं बराह्मणेनेह मॊक्षार्थश च किम आत्मकः कथं च मॊक्षः कर्तव्यॊ जञानेन तपसापि वा ॥ 13 ॥
[जनक] यत कार्यं बराह्मणेनेह जन्मप्रभृति तच छृणु कृतॊपनयनस तात भवेद वेद परायनः ॥ 14 ॥
तपसा गुरुवृत्त्या च बरह्मचर्येण चाभिभॊ देवतानां पितॄणां चाप्य अनृणश चानसूयकः ॥ 15 ॥
वेदान अधीत्य नियतॊ दक्षिणाम अपवर्ज्य च अभ्यनुज्ञाम अथ पराप्य समावर्तेत वै दविजः ॥ 16 ॥
समावृत्तस तु गार्हस्थ्ये सदारॊ नियतॊ वसेत अनसूयुर यथान्यायम आहिताग्निस तथैव च ॥ 17 ॥
उत्पाद्य पुत्रपौत्रं तु वन्याश्रमपदे वसेत तान्य एवाग्नीन यथाशास्त्रम अर्चयन्न अतिथिप्रियः ॥ 18 ॥
स वने ऽगनीन यथान्यायम आत्मन्य आरॊप्य धर्मवित निर्द्वन्द्वॊ वीतरागात्मा बरह्माश्रमपदे वसेत ॥ 19 ॥
[षुक] उत्पन्ने जञानविज्ञाने परत्यक्षे हृदि शाश्वते किम अवश्यं निवस्तव्यम आश्रमेषु वनेषु च ॥ 20 ॥
एतद भवन्तं पृच्छामि तद भवान वक्तुम अर्हति यथा वेदार्थ तत्त्वेन बरूहि मे तवं जनाधिप ॥ 21 ॥
[जनक] न विना जञानविज्ञानं मॊक्षस्याधिगमॊ भवेत न विना गुरु संबन्धं जञानस्याधिगमः समृतः ॥ 22 ॥
आचार्यः पलाविता तस्य जञानं पलव इहॊच्यते विज्ञाय कृतकृत्यस तु तीर्णस तद उभयं तयजेत ॥ 23 ॥
अनुच्छेदाय लॊकानाम अनुच्छेदाय कर्मणाम पूर्वैर आचरितॊ धर्मश चातुराश्रम्य संकथः ॥ 24 ॥
अनेन करमयॊगेन बहु जातिषु कर्मणा कृत्वा शुभाशुभं कर्म मॊक्षॊ नामेह लभ्यते ॥ 25 ॥
भवितैः कारणैश चायं बहु संसारयॊनिषु आसादयति शुद्धात्मा मॊक्षं वै परथमाश्रमे ॥ 26 ॥
तम आसाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः तरिष्व आश्रमेषु कॊ नव अर्थॊ भवेत परमम ईप्सतः ॥ 27 ॥
राजसांस तामसांश चैव नित्यं दॊषान विवर्जयेत सात्त्विकं मार्गम आस्थाय पश्येद आत्मानम आत्मना ॥ 28 ॥
सर्वभूतेषु चात्मानं सर्वहूतानि चात्मनि संपश्यन नॊपलिप्येत जले वारि चरॊ यथा ॥ 29 ॥
पक्षीव पलवनाद ऊर्ध्वम अमुत्रानन्त्यम अश्नुते विहाय देहं निर्मुक्तॊ निर्द्वन्द्वः परशमं गतः ॥ 30 ॥
अत्र गाथाः पुरा गीताः शृणु राज्ञा ययातिना धार्यन्ते या दविजैस तात मॊक्षशास्त्रविशारदैः ॥ 31 ॥
जयॊतिर आत्मनि नान्यत्र रतं तत्रैव चैव तत सवयं च शक्यं तद दरष्टुं सुसमाहित चेतसा ॥ 32 ॥
न बिभेति परॊ यस्मान न बिभेति पराच च यः यश च नेच्छति न दवेष्टि बरह्म संपद्यते तदा ॥ 33 ॥
यदा भावं न कुरुते सर्वभूतेषु पापकम कर्मणा मनसा वाचा बरह्म संपद्यते तदा ॥ 34 ॥
संयॊज्य तपसात्मानम ईर्ष्याम उत्सृज्य मॊहिनीम तयक्त्वा कामं च लॊभं च ततॊ बरह्मत्वम अश्नुते ॥ 35 ॥
यदा शरव्ये च दृश्ये च सर्वभूतेषु चाप्ययम समॊ भवति निर्द्वन्द्वॊ बरह्म संपद्यते तदा ॥ 36 ॥
यदा सतुतिं च निन्दां च समत्वेनैव पश्यति काञ्चनं चायसं चैव सुखदुःखे तथैव च ॥ 37 ॥
शीतम उष्णं तथैवार्थम अनर्थं परियम अप्रियम जीवितं मरणं चैव बरह्म संपद्यते तदा ॥ 38 ॥
परसार्येह यथाङ्गानि कूर्मः संहरते पुनः तथेन्द्रियाणि मनसा संयन्तव्यानि भिक्षुणा ॥ 39 ॥
तमः परिगतं वेश्म यथा दीपेन दृश्यते तथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम ॥ 40 ॥
एतत सर्वं परपश्यामि तवयि बुद्धिमतां वर यच चान्यद अपि वेत्तव्यं तत्त्वतॊ वेद तद भवान ॥ 41 ॥
बरह्मर्षे विदितश चासि विषयान्तम उपागतः गुरॊस तव परसादेन तव चैवॊपशिक्षया ॥ 42 ॥
तस्यैव च परसादेन परादुर्भूतं महामुने जञानं दिव्यं ममापीदं तेनासि विदितॊ मम ॥ 43 ॥
अधिकं तव विज्ञानम अधिका च गतिस तव अधिकं च तवैश्वर्यं तच च तवं नावबुध्यसे ॥ 44 ॥
बाल्याद वा संशयाद वापि भयाद वाप्य अविमॊक्षजात उत्पन्ने चापि विज्ञाने नाधिगच्छन्ति तां गतिम ॥ 45 ॥
वयवसायेन शुद्धेन मद्विधैश छिन्नसंशयः विमुच्य हृदयग्रन्थीन आसादयति तां गतिम ॥ 46 ॥
भवांश चॊत्पन्न विज्ञानः सथिरबुद्धिर अलॊलुपः वयवसायाद ऋते बरह्मन्न आसादयति तत्परम ॥ 47 ॥
नास्ति ते सुखदुःखेषु विशेषॊ नास्ति लॊलुपा नौत्सुक्यं नृत्तगीतेषु न राग उपजायते ॥ 48 ॥
न बन्धुषु निबन्धस ते न भयेष्व अस्ति ते भयम पश्यामि तवां महाभाग तुल्यलॊष्टाश्म काञ्चनम ॥ 49 ॥
अहं च तवानुपश्यामि ये चाप्य अन्ये मनीषिणः आस्थितं परमं मार्गम अक्षयं तम अनामयम ॥ 50 ॥
यत फलं बराह्मणस्येह मॊक्षार्थश च यद आत्मकः तस्मिन वै वर्तसे विप्र किम अन्यत परिपृच्छसि ॥ 51 ॥
शान्तिपर्व · Shanti Parva
अध्याय 313
Reach this point to mark the section finished.
Continue to अध्याय 314