[पराषर] पिता सुखायॊ गुरवः सत्रियश च; न निर्गुणा नाम भवन्ति लॊके अनन्यभक्ताः परियवादिनश च; हिताश च वश्याश च तथैव राजन ॥ 1 ॥
पिता परं दैवतं मानवानां; मातुर विशिष्टं पितरं वदन्ति जञानस्य लाभं परमं वदन्ति; जितेन्द्रियार्थाः परम आप्नुवन्ति ॥ 2 ॥
रणाजिरे यत्र शराग्निसंस्तरे; नृपात्मजॊ घातम अवाप्य दह्यते परयाति लॊकान अमरैः सुदुर्लभान; निषेवते सवर्गफलं यथासुखम ॥ 3 ॥
शरान्तं भीतं भरष्ट शस्त्रं रुदन्तं; पराङ्मुखं परिबर्हैश च हीनम अनुद्यतं रॊगिणं याचमानं; न वै हिंस्याद बालवृद्धौ च राजन ॥ 4 ॥
परिबर्हैः सुसंपन्नम उद्यतं तुल्यतां गतम अतिक्रमेत नृपतिः संग्रामे कषत्रियात्मजम ॥ 5 ॥
तुल्याद इह वधः शरेयान विशिष्टाच चेति निश्चयः निहीनात कातराच चैव नृपाणां गर्हितॊ वधः ॥ 6 ॥
पापात पापसमाचारान निहीनाच च नराधिप पाप एव वधः परॊक्तॊ नरकायेति निश्चयः ॥ 7 ॥
न कश चित तराति वै राजन दिष्टान्त वशम आगतम सावशेषायुषं चापि कश चिद एवापकर्षति ॥ 8 ॥
सनिग्धैश च करियमाणानि कर्माणीह निवर्तयेत हिंसात्मकानि कर्माणि नायुर इच्छेत परायुषा ॥ 9 ॥
गृहस्थानां तु सर्वेषां विनाशम अभिकाङ्क्षिताम निधनं शॊभनं तात पुलिनेषु करियावताम ॥ 10 ॥
आयुषि कषयम आपन्ने पञ्चत्वम उपगच्छति नाकारणात तद भवति कारणैर उपपादितम ॥ 11 ॥
तथा शरीरं भवति देहाद येनॊपपादितम अध्वानं गतकश चायं पराप्तश चायं गृहाद गृहम ॥ 12 ॥
दवितीयं कारणं तत्र नान्यत किं चन विद्यते तद देहं देहिनां युक्तं मॊक्षभूतेषु वर्तते ॥ 13 ॥
सिरा सनाय्व अस्थि संघातं बीभत्सा मेध्य संकुलम भूतानाम इन्द्रियाणां च गुणानां च समागतम ॥ 14 ॥
तवग अन्तं देहम इत्य आहुर विद्वांसॊ ऽधयात्मचिन्तकाः पुनैर अपि परिक्षीणं शरीरं मर्त्यतां गतम ॥ 15 ॥
शरीरिणा परित्यक्तं निश्चेष्टं गतचेतनम भूतैः परकृतम आपन्नैस ततॊ भूमौ निमज्जति ॥ 16 ॥
भावितं कर्मयॊगेन जायते तत्र तत्र ह इदं शरीरं वैदेह मरियते यत्र तत्र ह तत सवभावॊ ऽपरॊ दृष्टॊ विसर्गः कर्मणस तथा ॥ 17 ॥
न जायते तु नृपते कं चित कालमयं पुनः परिभ्रमति भूतात्मा दयाम इवाम्बुधरॊ महान ॥ 18 ॥
स पुनर जायते राजन पराप्येहायतनं नृप मनसः परमॊ हय आत्मा इन्द्रियेभ्यः परं मनः ॥ 19 ॥
दविविधानां च भूतानां जङ्गमाः परमा नृप जङ्गमानाम अपि तथा दविपदाः परमा मताः दविपदानाम अपि तथा दविजा वै परमाः समृताः ॥ 20 ॥
दविजानाम अपि राजेन्द्र परज्ञावन्तः परा मताः पराज्ञानाम आत्मसंबुद्धाः संबुद्धानाम अमानिनः ॥ 21 ॥
जातम अन्वेति मरणं नृणाम इति विनिश्चयः अन्तवन्ति हि कर्माणि सेवन्ते गुणतः परजाः ॥ 22 ॥
आपन्ने तूत्तरां काष्ठां सूर्ये यॊ निधनं वरजेत नक्षत्रे च मुहूर्ते च पुण्ये राजन स पुण्यकृत ॥ 23 ॥
अयॊजयित्वा कलेशेन जनं पलाव्य च दुष्कृतम मृत्युनाप्राकृतेनेह कर्मकृत्वात्मशक्तितः ॥ 24 ॥
विषम उद्बन्धनं दाहॊ दस्यु हस्तात तथा वधः दंस्त्रिभ्यश च पशुभ्यश च पराकृतॊ वध उच्यते ॥ 25 ॥
न चैभिः पुण्यकर्माणॊ युज्यन्ते नाभिसंधिजैः एवंविधैश च बहुभिर अपरैः पराकृतैर अपि ॥ 26 ॥
ऊर्ध्वं हित्वा परतिष्ठन्ते परानाः पुण्यकृतां नृप मध्यतॊ मध्यपुण्यानाम अधॊ दुष्कृत कर्मणाम ॥ 27 ॥
एकः शत्रुर न दवितीयॊ ऽसति शत्रुर; अज्ञानतुल्यः पुरुषस्य राजन येनावृतः कुरुते संप्रयुक्तॊ; घॊराणि कर्माणि सुदारुणानि ॥ 28 ॥
परबॊधनार्थं शरुतिधर्मयुक्तं; वृद्द्धान उपास्यं च भवेत यस्य परयत्नसाध्यॊ हि स राजपुत्र; परज्ञाशरेणॊन्मथितः परैति ॥ 29 ॥
अधीत्य वेदांस तपसा बरह्मचारी; यज्ञाञ शक्त्या संनिसृज्येह पञ्च वनं गच्छेत पुरुषॊ धर्मकामः; शरेयश चित्वा सथापयित्वा सववंशम ॥ 30 ॥
उपभॊगैर अपि तयक्तं नात्मानम अवसादयेत चन्दालत्वे ऽपि मानुष्यं सर्वथा तात दुर्लभम ॥ 31 ॥
इयं हि यॊनिः परथमा यां पराप्य जगतीपते आत्मा वै शक्यते तरातुं कर्मभिः शुभलक्षणैः ॥ 32 ॥
कथं न विप्रनश्येम यॊनीतॊ ऽसया इति परभॊ कुर्वन्ति धर्मं मनुजाः शरुतिप्रामान्य दर्शनात ॥ 33 ॥
यॊ दुर्लभतरं पराप्य मानुष्यम इह वै नरः धर्मावमन्ता कामात्मा भवेत स खलु वञ्च्यते ॥ 34 ॥
यस तु परीतिपुरॊगेण चक्षुषा तात पश्यति दीपॊपमानि भूतानि यावद अर्चिर न नश्यति ॥ 35 ॥
सान्त्वेनानुप्रदानेन परियवादेन चाप्य उत समदुःखसुखॊ भूत्वा स परत्र महीयते ॥ 36 ॥
दानं तयागः शॊभना मूर्तिर अद्भ्यॊ; भूयः पलाव्यं तपसा वै शरीरम सरस्वती नैमिषपुष्करेषु; ये चाप्य अन्ये पुण्यदेशाः पृथिव्याम ॥ 37 ॥
गृहेषु येषाम असवः पतन्ति; तेषाम अथॊ निर्हरनं परशस्तम यानेन वै परापनं च शमशाने; शौचेन नूनं विधिना चैव दाहः ॥ 38 ॥
इष्टिः पुष्टिर यजनं याजनं च; दानं पुण्यानां कर्मणां च परयॊगः शक्त्या पित्र्यं यच च किं चित परशस्तं; सर्वाण्य आत्मार्थे मानवॊ यः करॊति ॥ 39 ॥
धर्मशास्त्राणि वेदाश च षडङ्गानि नराधिप शरेयसॊ ऽरथे विधीयन्ते नरस्याक्लिष्ट कर्मणः ॥ 40 ॥
[भी] एवद वै सर्वम आख्यातं मुनिना सुमहात्मना विदेहराजाय पुरा शरेयसॊ ऽरथे नराधिप ॥ 41 ॥
शान्तिपर्व · Shanti Parva
अध्याय 286
Reach this point to mark the section finished.
Continue to अध्याय 287