धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 246

  1. [वयास] हृदि कामद्रुमश चित्रॊ मॊहसंचय संभवः करॊधमानमहास्कन्धॊ विवित्सा परिमॊचनः ॥ 1 ॥

  2. तस्य चाज्ञानम आधारः परमादः परिषेचनम सॊ ऽभयसूया पलाशॊ हि पुरादुष्कृत सारवान ॥ 2 ॥

  3. संमॊह चिन्ता वितपः शॊकशाखॊ भयंकरः मॊहनीभिः पिपासाभिर लताभिः परिवेष्टितः ॥ 3 ॥

  4. उपासते महावृक्षं सुलुब्धास तं फलेप्सवः आयासैः संयतः पाशैः फलानि परिवेष्टयन ॥ 4 ॥

  5. यस तान पाशान वशे कृत्वा तं वृक्षम अपकर्षति गतः स दुःखयॊर अन्तं यतमानस तयॊर दवयॊः ॥ 5 ॥

  6. संरॊहत्य अकृतप्रज्ञः संतापेन हि पादपम स तम एव ततॊ हन्ति विषं गरसम इवातुरम ॥ 6 ॥

  7. तस्यानुशय मूलस्य मूलम उद्ध्रियते बलात तयागाप्रमादाकृतिना साम्येन परमासिना ॥ 7 ॥

  8. एवं यॊ वेद कामस्य केवलं परिकर्षणम वधं वै कामशास्त्रस्य स दुःखान्य अतिवर्तते ॥ 8 ॥

  9. शरीरं पुरम इत्य आहुः सवामिनी बुद्धिर इष्यते तत्र बुद्धेः शरीरस्थं मनॊ नामार्थ चिन्तकम ॥ 9 ॥

  10. इन्द्रियाणि जनाः पौरास तदर्थं तु परा कृतिः तत्र दवौ दारुणौ दॊषौ तमॊ नाम रजस तथा ॥ 10 ॥

  11. यदर्थम उपजीवन्ति पौराः सह पुरेश्वराः अद्वारेण तम एवार्थं दवौ दॊषाव उपजीवतः ॥ 11 ॥

  12. तत्र बुद्धिर हि दुर्धर्षा मनः साधर्म्यम उच्यते पौराश चापि मनस तरस्तास तेषाम अपि चला सथितिः ॥ 12 ॥

  13. यदर्थं बुद्धिर अध्यास्ते न सॊ ऽरथः परिषीदति यदर्थं पृथग अध्यास्ते मनस तत्परिषीदति ॥ 13 ॥

  14. पृथग भूतं यदा बुद्ध्या मनॊ भवति केवलम तत्रैवं विवृतं शून्यं रजः पर्यवतिष्ठते ॥ 14 ॥

  15. तन्मनः कुरुते सख्यं रजसा सह संगतम तं चादाय जनं पौरं रजसे संप्रयच्छति ॥ 15 ॥

Reach this point to mark the section finished.

Continue to अध्याय 247

Previous: अध्याय 245