[वयास] शरीराद विप्रमुक्तं हि सूक्ष्मभूतं शरीरिणम कर्मभिः परिपश्यन्ति शास्त्रॊक्तैः शास्त्रचेतसः ॥ 1 ॥
यथा मरीच्यः सहिताश चरन्ति; गच्छन्ति तिष्ठन्ति च दृश्यमानाः देहैर विमुक्ता विचरन्ति लॊकांस; तथैव सत्त्वान्य अतिमानुषाणि ॥ 2 ॥
परतिरूपं यथैवाप्सु तापः सूर्यस्य लक्ष्यते सत्त्ववांस तु तथा सत्त्वं परतिरूपं परपश्यति ॥ 3 ॥
तानि सूक्ष्माणि सत्त्वस्था विमुक्तानि शरीरतः सवेन तत्त्वेन तत्त्वज्ञाः पश्यन्ति नियतेन्द्रियाः ॥ 4 ॥
सवपतां जाग्रतां चैव सर्वेषाम आत्मचिन्तितम परधानद्वैध युक्तानां जहतां कर्मजं रजः ॥ 5 ॥
यथाहनि तथा रात्रौ यथा रात्रौ तथाहनि वशे तिष्ठति सत्त्वात्मा सततं यॊगयॊगिनाम ॥ 6 ॥
तेषां नित्यं सदा नित्यॊ भूतात्मा सततं गुणैः सप्तभिस तव अन्वितः सूक्ष्मैश चरिष्णुर अजरामरः ॥ 7 ॥
मनॊ बुद्धिपराभूतः सवदेहपरदेहवित सवप्नेष्व अपि भवत्य एष विज्ञाता सुखदुःखयॊः ॥ 8 ॥
तत्रापि लभते दुःखं तत्रापि लभते सुखम करॊधलॊभौ तु तत्रापि कृत्वा वयसनम अर्छति ॥ 9 ॥
परीणितश चापि भवति महतॊ ऽरथान अवाप्य च करॊति पुण्यं तत्रापि जाग्रन्न इव च पश्यति ॥ 10 ॥
तम एवम अतितेजॊ ऽंशं भूतात्मानं हृदि सथितम तमॊ रजॊ भयाम आविष्टा नानुपश्यन्ति मूर्तिषु ॥ 11 ॥
शास्त्रयॊगपरा भूत्वा सवम आत्मानं परीप्सवः अनुच्छ्वासान्य अमूर्तीनि यानि वज्रॊपमान्य अपि ॥ 12 ॥
पृथग भूतेषु सृष्टेषु चतुर्ष्व आश्रमकर्मसु समाधौ यॊगम एवैतच छान्दिल्यः शमम अब्रवीत ॥ 13 ॥
विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम परधानविनियॊगस्थः परं बरह्माधिगच्छति ॥ 14 ॥
शान्तिपर्व · Shanti Parva
अध्याय 245
Reach this point to mark the section finished.
Continue to अध्याय 246