[वयास] दवितीयम आयुषॊ भागं गृहमेधी गृहे वसेत धर्मलब्धैर युतॊ दारैर अग्नीन उत्पाद्य सुव्रतः ॥ 1 ॥
गृहस्थ वृत्तयश चैव चतस्रः कविभिः समृताः कुसूल धान्यः परथमः कुम्भी धान्यस तव अनन्तरम ॥ 2 ॥
अश्वस्तनॊ ऽथ कापॊतीम आश्रितॊ वृत्तिम आहरेत तेषां परः परॊ जयायान धर्मतॊ लॊकजित्तमः ॥ 3 ॥
सः कमा वर्तयत्य एकस तरिभिर अन्यः परवर्तते दवाभ्याम एकश चतुर्थस तु बरह्म सत्त्रे वयवस्थितः गृहमेधि वरतान्य अत्र महान्तीह परचक्षते ॥ 4 ॥
नात्मार्थं पाचयेद अन्नं न वृथा घातयेत पशून परानी वा यदि वाप्रानी संस्कारं यजुषार्हति ॥ 5 ॥
न दिवा परस्वपेज जातु न पूर्वापररात्रयॊः न भुञ्जीतान्तराकाले नानृताव आह्वयेत सत्रियम ॥ 6 ॥
नास्यानश्नन वसेद विप्रॊ गृहे कश चिद अपूजितः तथास्यातिथयः पूज्या हव्यकव्य वहाः सदा ॥ 7 ॥
वेद विद्याव्रतस्नाताः शरॊत्रिया वेदपारगाः सवधर्मजीविनॊ दान्ताः करियावन्तस तपस्विनः तेषां हव्यं च कव्यं चाप्य अर्हणार्थं विधीयते ॥ 8 ॥
न खरैः संप्रयातस्य सवधर्माज्ञानकस्य च अपविद्धाग्निहॊत्रस्य गुरॊर वालीक कारिणः ॥ 9 ॥
संविहागॊ ऽतर भूतानां सर्वेषाम एव शिष्यते तथैवापचमानेभ्यः परदेयं गृहमेधिना ॥ 10 ॥
विघसाशी भवेन नित्यं नित्यं चामृतभॊजनः अमृतं यज्ञशेषं सयाद भॊजनं हविषा समम भृत्यशेषं तु यॊ ऽशनाति तम आहुर विघसाशिनम ॥ 11 ॥
सवदारनिरतॊ दान्तॊ हय अनसूयुर जितेन्द्रियः ऋत्विक पुरॊहिताचार्यैर मातुलातिथि संश्रितैः ॥ 12 ॥
वृद्धबालातुरैर वैद्यैर जञातिसंबन्धिबान्धवैः माता पितृभ्यां जामीभिर भरात्रा पुत्रेण भार्यया ॥ 13 ॥
दुहित्रा दासवर्गेण विवादं न समाचरेत एतान विमुच्य संवादान सर्वपापैः परमुच्यते ॥ 14 ॥
एतैर जितैस तु जयति सर्वाँल लॊकान न संशयः आचार्यॊ बरह्मलॊकेशः पराजापत्ये पिता परभुः ॥ 15 ॥
अतिथिस तव इन्द्रलॊकेशॊ देवलॊकस्य चर्त्विजः जामयॊ ऽपसरसां लॊके वैश्वदेवे तु जञातयः ॥ 16 ॥
संबन्धिबान्धवा दिक्षु पृथिव्यां मातृमातुलौ वृद्धबालातुर कृशास तवाकाशे परभविष्णयः ॥ 17 ॥
भराता जयेष्ठः समः पित्रा भार्या पुत्रः सवका तनुः छाया सवा दाशवर्गस तु दुहिता कृपणं परम ॥ 18 ॥
तस्माद एतैर अधिक्षिप्तः सहेन नित्यम असंज्वरः गृहधर्मरतॊ विद्वान धर्मनित्यॊ जितक्लमः ॥ 19 ॥
न चार्थबद्धः कर्माणि धर्मं वा कं चिद आचरेत गृहस्थ वृत्तयस तिस्रस तासां निःश्रेयसं परम ॥ 20 ॥
परस्परं तथैवाहुश चातुराश्रम्यम एव तत ये चॊक्ता नियमास तेषां सर्वं कार्यं बुभूसता ॥ 21 ॥
कुम्भी धान्यैर उञ्छशिलैः कापॊतीं चास्थितैस तथा यस्मिंश चैते वसन्त्य अर्हास तद रास्त्रम अभिवर्धते ॥ 22 ॥
दश पूर्वान दश परान पुनाति च पितामहान गृहस्थ वृत्तयस तव एता वर्तयेद यॊ गतव्यथः ॥ 23 ॥
सचक्रचर लॊकानां सदृशीं पराप्नुयाद गतिम यतेन्द्रियाणाम अथ वा गतिर एषा विधीयते ॥ 24 ॥
सवर्गलॊकॊ गृहस्थानाम उदारमनसां हितः सवर्गॊ विमानसंयुक्तॊ वेद दृष्टः सुपुष्पितः ॥ 25 ॥
सवर्गलॊके गृहस्थानां परतिष्ठा नियतात्मनाम बरह्मणा विहिता शरेणिर एषा यस्मात परमुच्यते दवितीयं करमशः पराप्य सवर्गलॊके महीयते ॥ 26 ॥
अतः परं परमम उदारम आश्रमं; तृतीयम आहुस तयजतां कलेवरम वनौकसां गृहपतिनाम अनुत्तमं; शृणुष्वैतत कलिष्टशरीरकारिणाम ॥ 27 ॥
शान्तिपर्व · Shanti Parva
अध्याय 235
Reach this point to mark the section finished.
Continue to अध्याय 236