[षुक्र] यद इदं वेद वचनं कुरु कर्म तयजेति च कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणा ॥ 1 ॥
एतद वै शरॊतुम इच्छामि तद भवान परब्रवीतु मे एतत तव अन्यॊन्यवैरूप्ये वर्तते परतिकूलतः ॥ 2 ॥
[भी] इत्य उक्तः परत्युवाचेदं पराशर सुतः सुतम कर्म विद्यामयाव एतौ वयाख्यास्यामि कषराक्षरौ ॥ 3 ॥
यां दिशं विद्यया यान्ति यां च गच्छन्ति कर्मणा शृणुष्वैक मनाः पुत्र गह्वरं हय एतद अन्तरम ॥ 4 ॥
अस्ति धर्म इति परॊक्तं नास्तीत्य अत्रैव यॊ वदेत तस्य पक्षस्य सदृशम इदं मम भवेद अथ ॥ 5 ॥
दवाव इमाव अथ पन्थानौ यत्र वेदाः परतिष्ठिताः परवृत्ति लक्षणॊ धर्मॊ निवृत्तौ च सुभासितः ॥ 6 ॥
कर्मणा बध्यते तन्तुर विद्यया तु परमुच्यते तस्मात कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥ 7 ॥
कर्मणा जायते परेत्य मूर्तिमान सॊदशात्मकः विद्यया जायते नित्यम अव्ययॊ हय अव्ययात्मकः ॥ 8 ॥
कर्म तव एके परशंसन्ति सवल्प बुद्धितरा नराः तेन ते देहजालानि रमयन्त उपासते ॥ 9 ॥
ये तु बुद्धिं परां पराप्ता धर्मनैपुण्य दर्शिनः न ते कर्म परशंसन्ति कूपं नद्यां पिबन्न इव ॥ 10 ॥
कर्मणः फलम आप्नॊति सुखदुःखे भवाभवौ विद्यया तद अवाप्नॊति यत्र गत्वा न शॊचति ॥ 11 ॥
यत्र गत्वा न मरियते यत्र गत्वा न जायते न जीर्यते यत्र गत्वा यत्र गत्वा न वर्धते ॥ 12 ॥
यत्र तद बरह्म परमम अव्यक्तम अजरं धरुवम अव्याहतम अनायासम अमृतं चावियॊगि च ॥ 13 ॥
दवन्द्वैर यत्र न बाध्यन्ते मानसेन च कर्मणा समाः सर्वत्र मैत्राश च सर्वभूतहिते रताः ॥ 14 ॥
विद्यामयॊ ऽनयः पुरुषस तात कर्ममयॊ ऽपरः विद्धि चन्द्रमसं दर्शे सूक्ष्मया कलया सथितम ॥ 15 ॥
तद एतद ऋषिणा परॊक्तं विस्तरेणानुमीयते नवजं शशिनं दृष्ट्वा वक्रं तन्तुम इवाम्बरे ॥ 16 ॥
एकादश विकारात्मा कला संभारसंभृतः मूर्तिमान इति तं विद्धि तात कर्म गुणात्मकम ॥ 17 ॥
देवॊ यः संश्रितस तस्मिन्न अब्बिन्दुर इव पुष्करे कषेत्रज्ञं तं विजानीयान नित्यं तयागजितात्मकम ॥ 18 ॥
तमॊ रजश च सत्त्वं च विद्धि जीव गुणान इमान जीवम आत्मगुणं विद्याद आत्मानं परमात्मनः ॥ 19 ॥
सचेतनं जीव गुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम ततः परं कषेत्रविदॊ वदन्ति; परावर्तयद यॊ भुवनानि सप्त ॥ 20 ॥
शान्तिपर्व · Shanti Parva
अध्याय 233
Reach this point to mark the section finished.
Continue to अध्याय 234