धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 232

  1. [वयास] पृच्छतस तव सत पुत्र यथावद इह तत्त्वतः सांख्यन्यायेन संयुक्तं यद एतत कीर्तितं मया ॥ 1 ॥

  2. यॊगकृत्यं तु ते कृत्स्नं वर्तयिष्यामि तच छृणु एकत्वं बुद्धिमनसॊर इन्द्रियाणां च सर्वशः आत्मनॊ धयायिनस तात जञानम एतद अनुत्तमम ॥ 2 ॥

  3. तद एतद उपशान्तेन दान्तेनाध्यात्म शीलिना आत्मारामेण बुद्धेन बॊद्धव्यं शुचि कर्मणा ॥ 3 ॥

  4. यॊगदॊषान समुच्छिद्य पञ्च यान कवयॊ विदुः कामं करॊधं च लॊभं च भयं सवप्नं च पञ्चमम ॥ 4 ॥

  5. करॊधं शमेन जयति कामं संकल्पवर्जनात सत्त्वसंसेवनाद धीरॊ निद्राम उच्छेत्तुम अर्हति ॥ 5 ॥

  6. धृत्या शिश्नॊदरं रक्षेत पाणि पादं च चक्षुषा चक्षुः शरॊत्रे च मनसा मनॊ वाचं च कर्मणा ॥ 6 ॥

  7. अप्रमादाद भयं जह्याल लॊभं पराज्ञॊपसेवनात एवम एतान यॊगदॊषाञ जयेन नित्यम अतन्द्रितः ॥ 7 ॥

  8. अग्नींश च बराह्मणांश चार्चेद देवताः परनमेत च वर्जयेद रुषितां वाचं हिंसा युक्तां मनॊऽनुगाम ॥ 8 ॥

  9. बरह्मतेजॊमयं शुक्रं यस्य सर्वम इदं रसः एकस्य भूतं भूतस्य दवयं सथावरजङ्गमम ॥ 9 ॥

  10. धयानम अध्ययनं दानं सत्यं हरीर आर्जवं कषमा शौचम आहारसंशुद्धिर इन्द्रियाणां च निग्रहः ॥ 10 ॥

  11. एतैर विवर्धते तेजः पाप्मानं चापकर्षति सिध्यन्ति चास्य सर्वार्था विज्ञानं च परवर्तते ॥ 11 ॥

  12. समः सर्वेषु भूतेषु लब्धालब्धेन वर्तयन धूतपाप्मा तु तेजस्वी लघ्व आहारॊ जितेन्द्रियः कामक्रॊधौ वशे कृत्वा निनीसेद बरह्मणः पदम ॥ 12 ॥

  13. मनसश चेन्द्रियाणां च कृत्वैकाग्र्यं समाहितः पराग रात्रापररात्रेषु धारयेन मन आत्मना ॥ 13 ॥

  14. जन्तॊः पञ्चेन्द्रियस्यास्य यद एकं छिद्रम इन्द्रियम ततॊ ऽसय सरवति परज्ञा दृतेः पादाद इवॊदकम ॥ 14 ॥

  15. मनस तु पूर्वम आदद्यात कुमीनान इव मत्स्यहा ततः शरॊत्रं ततश चक्षुर जिह्वां घराणं च यॊगवित ॥ 15 ॥

  16. तत एतानि संयम्य मनसि सथापयेद यतिः तथैवापॊह्य संकल्पान मनॊ हय आत्मनि धारयेत ॥ 16 ॥

  17. पञ्च जञानेन संधाय मनसि सथापयेद यतिः यदैतान्य अवतिष्ठन्ते मनः सस्थानि चात्मनि परसीदन्ति च संस्थाय तदा बरह्म परकाशते ॥ 17 ॥

  18. विधूम इव दीप्तार्चिर आदित्य इव दीप्तिमान वैद्युतॊ ऽगनिर इवाकाशे पश्यत्य आत्मानम आत्मना सर्वं च तत्र सर्वत्र वयापकत्वाच च दृश्यते ॥ 18 ॥

  19. तं पश्यन्ति महात्मानॊ बराह्मणा ये मनीषिणः धृतिमन्तॊ महाप्राज्ञाः सर्वभूतहिते रताः ॥ 19 ॥

  20. एवं परिमितं कालम आचरन संशितव्रतः आसीनॊ हि रहस्य एकॊ गच्छेद अक्षरसात्म्यताम ॥ 20 ॥

  21. परमॊहॊ भरम आवर्तॊ घराणश्रवण दर्शने अद्भुतानि रसस्पर्शे शीतॊष्णे मारुताकृतिः ॥ 21 ॥

  22. परतिभाम उपसर्गांश चाप्य उपसंगृह्य यॊगतः तांस तत्त्वविद अनादृत्य सवात्मनैव निवर्तयेत ॥ 22 ॥

  23. कुर्यात परिचयं यॊगे तैकाल्यं नियतॊ मुनिः गिरिशृङ्गे तथा चैत्ये वृक्षाग्रेषु च यॊजजेत ॥ 23 ॥

  24. संनियम्येन्द्रियग्राहं गॊष्ठे भान्द मना इव एकाग्रश चिन्तयेन नित्यं यॊगान नॊद्वेजयेन मनः ॥ 24 ॥

  25. येनॊपायेन शक्येत संनियन्तुं चलं मनः तं तं युक्तॊ निषेवेत न चैव विचलेत ततः ॥ 25 ॥

  26. शून्या गिरिगुहाश चैव देवतायतनानि च शून्यागाराणि चैकाग्रॊ निवासार्थम उपक्रमेत ॥ 26 ॥

  27. नाभिष्वजेत परं वाचा कर्मणा मनसापि वा उपेक्षकॊ यताहारॊ लब्धालब्धे समॊ भवेत ॥ 27 ॥

  28. यश चैनम अभिनन्देत यश चैनम अपवादयेत समस तयॊश चाप्य उभयॊर नाभिध्यायेच छुभाशुभम ॥ 28 ॥

  29. न परहृष्येत लाभेषु नालाभेषु च चिन्तयेत समः सर्वेषु भूतेषु सधर्मा मातरिश्वनः ॥ 29 ॥

  30. एवं सर्वात्मनः साधॊः सर्वत्र समदर्शिनः सॊ मासान नित्ययुक्तस्य शब्दव्रह्मातिवर्तते ॥ 30 ॥

  31. वेदनार्ताः परजा दृष्ट्वा समलॊक्षाश्म काञ्चनः एतस्मिन निरतॊ मार्गे विरमेन न विमॊहितः ॥ 31 ॥

  32. अपि वर्णाव अकृष्टस तु नारी वा धर्मकाङ्क्षिणी ताव अप्य एतेन मार्गेण गच्छेतां परमां गतिम ॥ 32 ॥

  33. अजं पुराणम अजरं सनातनं; यद इन्द्रियैर उपलभते नरॊ ऽचलः अनॊर अनीयॊ महतॊ महत्तरं; तदात्मना पश्यति युक्तात्मवान ॥ 33 ॥

  34. इदं महर्षेर वचनं महात्मनॊ; यथावद उक्तं मनसानुदृश्य च अवेक्ष्य चेयात परमेष्ठि सात्म्यतां; परयान्ति यां भूतगतिं मनीषिणः ॥ 34 ॥

Reach this point to mark the section finished.

Continue to अध्याय 233

Previous: अध्याय 231