धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 227

  1. [वयास] तरयी विद्याम अवेक्षेत वेदेषूक्ताम अथाङ्गतः ऋक साम वर्णाक्षरतॊ यजुषॊ ऽथर्वणस तथा ॥ 1 ॥

  2. वेदवादेषु कुशला हय अध्यात्मकुशलाश च ये सत्त्ववन्तॊ महाभागाः पश्यन्ति परभवाप्ययौ ॥ 2 ॥

  3. एवं धर्मेण वर्तेत करियाः शिष्टवद आचरेत असंरॊधेन भूतानां वृत्तिं लिप्सेत वै दविजः ॥ 3 ॥

  4. सद्भ्य आगतविज्ञानः शिष्टः शास्त्रविचक्षणः सवधर्मेण करिया लॊके कुर्वाणः सत्यसंगरः ॥ 4 ॥

  5. तिष्ठत्य एतेषु गृहवान सः सुकर्मसु स दविजः पञ्चभिः सततं यज्ञैः शरद्दधानॊ यजेत च ॥ 5 ॥

  6. धृतिमान अप्रमत्तश च दान्तॊ धर्मविद आत्मवान वीतहर्षभयक्रॊधॊ बराह्मणॊ नावसीदति ॥ 6 ॥

  7. दानम अध्ययनं यज्ञस तपॊ हरीर आर्जवं दमः एतैर वर्धयते तेजः पाप्मानं चापकर्षति ॥ 7 ॥

  8. धूतपाप्मा तु मेधावी लघ्व आहारॊ जितेन्द्रियः कामक्रॊधौ वशे कृत्वा निनीसेद बरह्मणः पदम ॥ 8 ॥

  9. अग्नींश च बराह्मणांश चार्चेद देवताः परनमेत च वर्जयेद रुषतीं वाचं हिंसां चाधर्मसंहिताम ॥ 9 ॥

  10. एषा पूर्वतरा वृत्तिर बराह्मणस्य विधीयते जञानागमेन कर्माणि कुर्वन कर्मसु सिध्यति ॥ 10 ॥

  11. पञ्चेन्द्रिय जलां घॊरां लॊभकूलां सुदुस्तराम मन्युपङ्काम अनाधृष्यां नदीं तरति बुद्धिमान ॥ 11 ॥

  12. माक मन्यूद्धतं यत सयान नित्यम अत्यन्तमॊहितम महता विधिदृष्टेन बलेनाप्रतिघातिना सवभावस्रॊतसा वृत्तम उह्यते सततं जगत ॥ 12 ॥

  13. कालॊदकेन महता वर्षावर्तेन संततम मासॊर्मिणर्तु वेगेन पक्षॊलप तृणेन च ॥ 13 ॥

  14. निमेषॊन्मेष फेनेन अहॊरात्र जवेन च कामग्राहेण घॊरेण वेद यज्ञप्लवेन च ॥ 14 ॥

  15. धर्मद्वीपेन भूतानां चार्थकामरवेण च ऋतसॊपानतीरेण विहिंसा तरुवाहिना ॥ 15 ॥

  16. युगह्रदौघमध्येन बरह्म परायभवेन च धात्रा सृष्टानि भूतानि कृष्यन्ते यमसादनम ॥ 16 ॥

  17. एतत परज्ञामयैर धीरा निस्तरन्ति मनीषिणः पलवैर अप्लववन्तॊ हि किं करिष्यन्त्य अचेतसः ॥ 17 ॥

  18. उपपन्नं हि यत पराज्ञॊ निस्तरेन नेतरॊ जनः दूरतॊ गुणदॊषौ हि पराज्ञः सर्वत्र पश्यति ॥ 18 ॥

  19. संशयात्मा स कामात्मा चलचित्तॊ ऽलपचेतनः अप्राज्ञॊ न तरत्य एव यॊ हय आस्ते न स गच्छति ॥ 19 ॥

  20. अप्लवॊ हि महादॊषम उह्यमानॊ ऽधिगच्छति कामग्राहगृहीतस्य जञानम अप्य अस्य न पलवः ॥ 20 ॥

  21. तस्माद उन्मज्जनस्यार्थे परयतेत विचक्षणः एतद उन्मज्जनं तस्य यद अयं बराह्मणॊ भवेत ॥ 21 ॥

  22. तर्यवदाते कुले जातस तरिसंदेहस तरिकर्मकृत तस्माद उन्मज्जनस तिष्ठेन निस्तरेत परज्ञया यथा ॥ 22 ॥

  23. संस्कृतस्य हि दान्तस्य नियतस्य कृतात्मनः पराज्यस्यानन्तरा सिद्धिर इह लॊके परत्र च ॥ 23 ॥

  24. वर्तते तेषु गृहवान अक्रुध्यन्न अनसूयकः पञ्चभिः सततं यज्ञैर विघसाशी यजेत च ॥ 24 ॥

  25. सतां वृत्तेन वर्तेत करियाः शिष्टवद आचरेत असंरॊधेन धर्मस्य वृत्तिं लिप्सेद अगर्हिताम ॥ 25 ॥

  26. शरुतिविज्ञानतत्त्वज्ञः शिष्टाचारॊ विचक्षणः सवधर्मेण करियावांश च कर्मणा सॊ ऽपय असंकरः ॥ 26 ॥

  27. करियावाञ शरद्दधानश च दाता पराज्ञॊ ऽनसूयकः धर्माधर्मविशेषज्ञः सर्वं तरति दुस्तरम ॥ 27 ॥

  28. धृतिमान अप्रमत्तश च दान्तॊ धर्मविद आत्मवान वीतहर्षभयक्रॊधॊ बराह्मणॊ नावसीदति ॥ 28 ॥

  29. एषा पूर्वतरा वृत्तिर बराह्मणस्य विधीयते जञानवित्त्वेन कर्माणि कुर्वन सर्वत्र सिध्यति ॥ 29 ॥

  30. अधर्मं धर्मकामॊ हि करॊतीहाविचक्षणः धर्मं चाधर्मसंकाशं शॊचन्न इव करॊति सः ॥ 30 ॥

  31. धर्मं करॊमीति करॊत्य अधर्मम; अधर्मकामश च करॊति धर्मम उभे बालः कर्मणी न परजानन; स जायते मरियते चापि देही ॥ 31 ॥

Reach this point to mark the section finished.

Continue to अध्याय 228

Previous: अध्याय 226