धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 202

  1. [य] पितामह महाप्राज्ञ युधि सत्यपराक्रम शरॊतुम इच्छामि कार्त्स्न्येन कृष्णम अव्ययम ईश्वरम ॥ 1 ॥

  2. यच चास्य तेजः सुमहद यच च कर्म पुरातनम तन मे सर्वं यथातत्त्वं परब्रूहि भरतर्षभ ॥ 2 ॥

  3. तिर्यग्यॊनिगतं रूपं कथं धारितवान हरिः केन कार्यविसर्गेण तन मे बरूहि पितामह ॥ 3 ॥

  4. [भी] पुराहं मृगयां यातॊ मार्कन्देयाश्रमे सथितः तत्रापश्यं मुनिगणान समासीनान सहस्रशः ॥ 4 ॥

  5. ततस ते मधुपर्केण पूजां चक्रुर अथॊ मयि परतिगृह्य च तां पूजां परत्यनन्दम ऋषीन अहम ॥ 5 ॥

  6. कथैषा कथिता तत्र कश्यपेन महर्षिणा मनः परह्लादिनीं दिव्यां ताम इहैकमनाः शृणु ॥ 6 ॥

  7. पुरा दानवमुख्याहि करॊधलॊभ समन्विताः बलेन मत्ताः शतशॊ नरकाद्या महासुराः ॥ 7 ॥

  8. तथैव चान्ये बहवॊ दानवा युद्धदुर्मदाः न सहन्ते सम देवानां समृद्धिं ताम अनुत्तमाम ॥ 8 ॥

  9. दानवैर अर्द्यमानास तु देवा देवर्षयस तथा न शर्म लेभिरे राजन विशमानास ततस ततः ॥ 9 ॥

  10. पृथिवीं चार्तरूपां ते समपश्यन दिवौकसः दानवैर अभिसंकीर्णां घॊररूपैर महाबलैः भारार्ताम अपकृष्टां च दुःखितां संनिमज्जतीम ॥ 10 ॥

  11. अथादितेयाः संस्त्रस्ता बरह्माणम इदम अब्रुवन कथं शक्यामहे बरह्मन दानवैर उपमर्दनम ॥ 11 ॥

  12. सवयम्भूस तान उवाचेदं निसृष्टॊ ऽतर विधिर मया ते वरेणाभिसंमत्ता बलेन च मदेन च ॥ 12 ॥

  13. नावभॊत्स्यन्ति संमूढा विष्णुम अव्यक्तदर्शनम वराहरूपिणं देवम अधृष्यम अमरैर अपि ॥ 13 ॥

  14. एष वेगेन गत्वा हि यत्र ते दानवाधमाः अन्तर भूमिगता घॊरा निवसन्ति सहस्रशः शमयिष्यति शरुत्वा ते जहृषुः सुरसत्तमाः ॥ 14 ॥

  15. ततॊ विष्णुर महातेजा वाराहं रूपम आश्रितः अन्तर भूमिं संप्रविश्य जगाम अदितिजान परति ॥ 15 ॥

  16. दृष्ट्वा च सहिताः सर्वे दैत्याः सत्त्वम अमानुषम परसह्य सहसा सर्वे संतस्थुः कालमॊहिताः ॥ 16 ॥

  17. सर्वे च समभिद्रुत्य वराहं जगृहुः समम संक्रुद्धाश च वराहं तं वयकर्षन्त समन्ततः ॥ 17 ॥

  18. दानवेन्द्रा महाकाया महावीर्या बलॊच्छ्रिताः नाशक्नुवंश च किं चित ते तस्य कर्तुं तदा विभॊ ॥ 18 ॥

  19. ततॊ ऽगमन विस्मयं ते दानवेन्द्रा भयात तदा संशयं गतम आत्मानं मेनिरे च सहस्रशः ॥ 19 ॥

  20. ततॊ देवादि देवः स यॊगात्मा यॊगसारथिः यॊगम आस्थाय भगवांस तदा भरतसत्तम ॥ 20 ॥

  21. विननाद महानादं कषॊभयन दैत्यदानवान संनादिता येन लॊकाः सर्वाश चैव दिशॊ दश ॥ 21 ॥

  22. तेन संनादशब्देन लॊकाः संक्षॊभम आगमन संभ्रन्ताश च दिशः सर्वा देवाः शक्रपुरॊगमाः ॥ 22 ॥

  23. निर्विचेष्टं जगच चापि बभूवातिभृशं तदा सथावरं जङ्गमं चैव तेन नादेन मॊहितम ॥ 23 ॥

  24. ततस ते दानवाः सर्वे तेन शब्देन भीसिताः पेतुर गतासवश चैव विष्णुतेजॊ विमॊहिताः ॥ 24 ॥

  25. रसातल गतांश चैव वराहस तरिदशद्विषः खुरैः संदारयाम आस मांसमेदॊ ऽसथि संचयम ॥ 25 ॥

  26. नादेन तेन महता सनातन इति समृतः पद्मनाभॊ महायॊगी भूताचार्यः स भूतराज ॥ 26 ॥

  27. ततॊ देवगणाः सर्वे पितामहम उपाब्रुवन नादॊ ऽयं कीदृशॊ देव नैनं विद्म वयं विभॊ कॊ ऽसौ हि कस्य वा नादॊ येन विह्वलितं जगत ॥ 27 ॥

  28. एतस्मिन्न अन्तरे विष्णुर वाराहं रूपम आस्थितः उदतिष्ठन महादेवः सतूयमानॊ महर्षिभिः ॥ 28 ॥

  29. [पितामह] निहत्य दानव पतीन माहा वर्ष्मा महाबलः एष देवॊ महायॊगी भूतात्मा भूतभावनः ॥ 29 ॥

  30. सर्वभूतेश्वरॊ यॊगी यॊनिर आत्मा तथात्मनः सथिरी भवत कृष्णॊ ऽयं सर्वपापप्रनाशनः ॥ 30 ॥

  31. कृत्वा कर्मातिसाध्व एतद अशक्यम अमितप्रभुः समायातः सवम आत्मानं महाभागॊ महाद्युतिः पद्मनाभॊ महायॊगी भूतात्मा भूतभावनः ॥ 31 ॥

  32. न संतापॊ न भीः कार्या शॊकॊ वा सुरसत्तमाः विधिर एष परभावश च कालः संक्षय कारकः लॊकान धारयतानेन नादॊ मुक्तॊ महात्मना ॥ 32 ॥

  33. स एव हि महाभागः सर्वलॊकनमस्कृतः अच्युतः पुन्दरीकाक्षः सर्वभूतसमुद्भवः ॥ 33 ॥

Reach this point to mark the section finished.

Continue to अध्याय 203

Previous: अध्याय 201