धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 20

  1. [वैषम्पायन] तस्मिन वाक्यान्तरे वक्ता देवस्थानॊ महातपाः अभिनीततरं वाक्यम इत्य उवाच युधिष्ठिरम ॥ 1 ॥

  2. यद वचॊ फल्गुनेनॊक्तं न जयायॊ ऽसति धनाद इति अत्र ते वर्तयिष्यामि तद एकाग्रमनाः शृणु ॥ 2 ॥

  3. अजातशत्रॊ धर्मेण कृत्स्ना ते वसुधा जिता तां जित्वा न वृथा राजंस तवं परित्यक्तुम अर्हसि ॥ 3 ॥

  4. चतुष्पदी हि निःश्रेणी कर्मण्य एषा परतिष्ठिता तां करमेण महाबाहॊ यथावज जय पार्थिव ॥ 4 ॥

  5. तस्मात पार्थ महायज्ञैर यजस्व बहु दक्षिणैः सवाध्याययज्ञा ऋषयॊ जञानयज्ञास तथापरे ॥ 5 ॥

  6. कर्म निष्ठांस तु बुध्येथास तपॊ निष्ठांश च भारत वैखानसानां राजेन्द्र वचनं शरूयते यथा ॥ 6 ॥

  7. ईहते धनहेतॊर यस तस्यानीहा गरीयसी भूयान दॊषः परवर्धेत यस तं धनम अपाश्रयेत ॥ 7 ॥

  8. कृच्छ्राच च दरव्यसंहारं कुर्वन्ति धनकारणात धनेन तृषितॊ ऽबुद्ध्या भरूण हत्यां न बुध्यते ॥ 8 ॥

  9. अनर्हते यद ददाति न ददाति यद अर्हते अनर्हार्हापरिज्ञानाद दानधर्मॊ ऽपि दुष्करः ॥ 9 ॥

  10. यज्ञाय सृष्टानि धनानि धात्रा; यष्टादिष्टः पुरुषॊ रक्षिता च तस्मात सर्वं यज्ञ एवॊपयॊज्यं; धनं ततॊ ऽनन्तर एव कामः ॥ 10 ॥

  11. यज्ञैर इन्द्रॊ विविधैर अन्नवद्भिर; देवान सर्वान अभ्ययान महौजाः तेनेन्द्रत्वं पराप्य विभ्राजते ऽसौ; तस्माद यज्ञे सर्वम एवॊपयॊज्यम ॥ 11 ॥

  12. महादेवः सर्वमेधे महात्मा; हुत्वात्मानं देवदेवॊ विभूतः विश्वाँल लॊकान वयाप्य विष्टभ्य कीर्त्या; विरॊचते दयुतिमान कृत्ति वासाः ॥ 12 ॥

  13. आविक्षितः पार्थिवॊ वै मरुत्तः; सवृद्ध्या मर्त्यॊ यॊ ऽयजद देवराजम यज्ञे यस्य शरीः सवयं संनिविष्टा; यस्मिन भाण्डं काञ्चनं सर्वम आसीत ॥ 13 ॥

  14. हरिश्चन्द्रः पार्थिवेन्द्रः शरुतस ते; यज्ञैर इष्ट्वा पुण्यकृद वीतशॊकः ऋद्ध्या शक्रं यॊ ऽजयन मानुषः संस; तस्माद यज्ञे सर्वम एवॊपयॊज्यम ॥ 14 ॥

Reach this point to mark the section finished.

Continue to अध्याय 21

Previous: अध्याय 19