[व] तत एनम उपातिष्ठञ शौचार्थं परिचारकाः कृतशौचं पुनश चैनं परॊवाच मधुसूदनः ॥ 1 ॥
राजन्न अधीता वेदास ते शास्त्राणि विविधानि च शरुतानि च पुराणानि राजधर्माश च केवलाः ॥ 2 ॥
एवं विद्वान महाप्राज्ञ नाकार्षीर वचनं तदा पाण्डवान अधिकाञ जानबले शौर्ये च कौरव ॥ 3 ॥
राजा हि यः सथिरप्रज्ञः सवयं दॊषान अवेक्षते देशकालविभागं च परं शरेयः स विन्दति ॥ 4 ॥
उच्यमानं च यः शरेयॊ गृह्णीते नॊ हिताहिते आपदं समनुप्राप्य स शॊचत्य अनये सथितः ॥ 5 ॥
ततॊ ऽनयवृत्तम आत्मानं समवेक्षस्व भारत राजंस तवं हय अविधेयात्मा दुर्यॊधन वशे सथितः ॥ 6 ॥
आत्मापराधाद आयस्तस तत किं भीमं जिघांससि तस्मात संयच्छ कॊपं तवं सवम अनुस्मृत्य दुष्कृतम ॥ 7 ॥
यस तु तां सपर्धया कषुद्रः पाञ्चालीम आनयत सभाम स हतॊ भीमसेनेन वैरं परतिचिकीर्षता ॥ 8 ॥
आत्मनॊ ऽतिक्रमं पश्य पुत्रस्य च दुरात्मनः यद अनागसि पाण्डूनां परित्यागः परंतप ॥ 9 ॥
एवम उक्तः स कृष्णेन सर्वं सत्यं जनाधिप उवाच देवकीपुत्रं धृतराष्ट्रॊ महीपतिः ॥ 10 ॥
एवम एतन महाबाहॊ यथा वदसि माधव पुत्रस्नेहस तु धर्मात्मन धैर्यान मां समचालयत ॥ 11 ॥
दिष्ट्या तु पुरुषव्याघ्रॊ बलवान सत्यविक्रमः तवद गुप्तॊ नागमत कृष्ण भीमॊ बाह्वन्तरं मम ॥ 12 ॥
इदानीं तव अहम एकाग्रॊ गतमन्युर गतज्वरः मध्यमं पाण्डवं वीरं सप्रष्टुम इच्छामि केशव ॥ 13 ॥
हतेषु पार्थिवेन्द्रेषु पुत्रेषु निहतेषु च पाण्डुपुत्रेषु मे शर्म परीतिश चाप्य अवतिष्ठते ॥ 14 ॥
ततः स भीमं च धनंजयं च; माद्र्याश च पुत्रौ पुरुषप्रवीरौ पस्पर्श गात्रैः पररुदन सुगात्रान; आश्वास्य कल्याणम उवाच चैनान ॥ 15 ॥
स्त्रीपर्व · Stri Parva
अध्याय 12
Reach this point to mark the section finished.
Continue to अध्याय 13