धर्मDharmic Data

सौप्तिकपर्व · Sauptika Parva

अध्याय 17

  1. [व] हतेषु सर्वसैन्येषु सौप्तिके तै रथैस तरिभिः शॊचन युधिष्ठिरॊ राजा दाशार्हम इदम अब्रवीत ॥ 1 ॥

  2. कथं नु कृष्ण पापेन कषुद्रेणाक्लिष्ट कर्मणा दरौणिना निहताः सर्वे मम पुत्रा महारथाः ॥ 2 ॥

  3. तथा कृतास्त्रा विक्रान्ताः सहस्रशतयॊधिनः दरुपदस्यात्मजाश चैव दरॊणपुत्रेण पातिताः ॥ 3 ॥

  4. यस्य दरॊणॊ महेष्वासॊ न परादाद आहवे मुखम तं जघ्ने रथिनां शरेष्ठं धृष्टद्युम्नं कथं नु सः ॥ 4 ॥

  5. किं नु तेन कृतं कर्म तथायुक्तं नरर्षभ यद एकः शिबिरं सर्वम अवधीन नॊ गुरॊः सुतः ॥ 5 ॥

  6. [वासुदेव] नूनं स देव देनानाम ईश्वरेश्वरम अव्ययम जगाम शरणं दरौणिर एकस तेनावधीद बहून ॥ 6 ॥

  7. परसन्नॊ हि महादेवॊ दद्याद अमरताम अपि वीर्यं च गिरिशॊ दद्याद येनेन्द्रम अपि शातयेत ॥ 7 ॥

  8. वेदाहं हि महादेवं तत्त्वेन भरतर्षभ यानि चास्य पुराणानि कर्माणि विविधान्य उत ॥ 8 ॥

  9. आदिर एष हि भूतानां मध्यम अन्तश च भारत विचेष्टते जगच चेदं सर्वम अस्यैव कर्मणा ॥ 9 ॥

  10. एवं सिसृक्षुर भूतानि ददर्श परथमं विभुः पिता महॊ ऽबरवीच चैनं भूतानि सृज माचिरम ॥ 10 ॥

  11. हरि केशस तथेत्य उक्त्वा भूतानां दॊषदर्शिवान दीर्घकालं तपस तेपे मग्नॊ ऽमभसि महातपाः ॥ 11 ॥

  12. सुमहान्तं ततः कालं परतीक्ष्यैनं पितामहः सरष्टारं सर्वभूतानां ससर्ज मनसापरम ॥ 12 ॥

  13. सॊ ऽबरवीत पितरं दृष्ट्वा गिरिशं भग्नम अम्भसि यदि मे नाग्रजस तव अन्यस ततः सरक्ष्याम्य अहं परजाः ॥ 13 ॥

  14. तम अब्रवीत पिता नास्ति तवदन्यः पुरुषॊ ऽगरजः सथाणुर एष जले मग्नॊ विस्रब्धः कुरु वै कृतिम ॥ 14 ॥

  15. स भूतान्य असृजत सप्त दक्षादींस तु परजापतीन यैर इमं वयकरॊत सर्वं भूतग्रामं चतुर्विधम ॥ 15 ॥

  16. ताः सृष्ट मात्राः कषुधिताः परजाः सर्वाः परजापतिम बिभक्षयिषवॊ राजन सहसा पराद्रवंस तदा ॥ 16 ॥

  17. स भक्ष्यमाणस तराणार्थी पितामहम उपाद्रवत आभ्यॊ मां भगवान पातु वृत्तिर आसां विधीयताम ॥ 17 ॥

  18. ततस ताभ्यॊ ददाव अन्नम ओषधीः सथावराणि च जङ्गमानि च भूतानि दुर्बलानि बलीयसाम ॥ 18 ॥

  19. विहितान्नाः परजास तास तु जग्मुस तुष्टा यथागतम ततॊ ववृधिरे राजन परीतिमत्यः सवयॊनिषु ॥ 19 ॥

  20. भूतग्रामे विवृद्धे तु तुष्टे लॊकगुराव अपि उदतिष्ठज जलाज जयेष्ठः परजाश चेमा ददर्श सः ॥ 20 ॥

  21. बहुरूपाः परजा दृष्ट्वा विवृद्धाः सवेन तेजसा चुक्रॊध भगवान रुद्रॊ लिङ्गं सवं चाप्य अविध्यत ॥ 21 ॥

  22. तत परविद्धं तदा भूमौ तथैव परत्यतिष्ठत तम उवाचाव्ययॊ बरह्मा वचॊभिः शमयन्न इव ॥ 22 ॥

  23. किं कृतं सलिले शर्व चिरकालं सथितेन ते किमर्थं चैतद उत्पाट्य भूमौ लिङ्गं परवेरितम ॥ 23 ॥

  24. सॊ ऽबरवीज जातसंरम्भस तदा लॊकगुरुर गुरुम परजाः सृष्टाः परेणेमाः किं करिष्याम्य अनेन वै ॥ 24 ॥

  25. तपसाधिगतं चान्नं परजार्थं मे पितामह ओषध्यः परिवर्तेरन यथैव सततं परजाः ॥ 25 ॥

  26. एवम उक्त्वा तु संक्रुद्धॊ जगाम विमना भवः गिरेर मुञ्जवतः पादं तपस तप्तुं महातपाः ॥ 26 ॥

Reach this point to mark the section finished.

Continue to अध्याय 18

Previous: अध्याय 16