[षौनक] पुराणम अखिलं तात पिता ते ऽधीतवान पुरा कच चित तवम अपि तत सर्वम अधीषे लॊमहर्षणे ॥ 1 ॥
पुराणे हि कथा दिव्या आदिवंशाश च धीमताम कथ्यन्ते ताः पुरास्माभिः शरुताः पूर्वं पितुस तव ॥ 2 ॥
तत्र वंशम अहं पूर्वं शरॊतुम इच्छामि भार्गवम कथयस्व कथाम एतां कल्याः सम शरवणे तव ॥ 3 ॥
[स] यद अधीतं पुरा सम्यग दविजश्रेष्ठ महात्मभिः वैशम्पायन विप्राद्यैस तैश चापि कथितं पुरा ॥ 4 ॥
यद अधीतं च पित्रा मे सम्यक चैव ततॊ मया तत तावच छृणु यॊ देवैः सेन्द्रैः साग्निमरुद गणैः पूजितः परवरॊ वंशॊ भृगूणां भृगुनन्दन ॥ 5 ॥
इमं वंशम अहं बरह्मन भार्गवं ते महामुने निगदामि कथा युक्तं पुराणाश्रय संयुतम ॥ 6 ॥
भृगॊः सुदयितः पुत्रश चयवनॊ नाम भार्गवः चयवनस्यापि दायादः परमतिर नाम धार्मिकः परमतेर अप्य अभूत पुत्रॊ घृताच्यां रुरुर इत्य उत ॥ 7 ॥
रुरॊर अपि सुतॊ जज्ञे शुनकॊ वेदपारगः परमद्वरायां धर्मात्मा तव पूर्वपितामहात ॥ 8 ॥
तपस्वी च यशस्वी च शरुतवान बरह्मवित्तमः धर्मिष्ठः सत्यवादी च नियतॊ नियतेन्द्रियः ॥ 9 ॥
[ष] सूतपुत्र यथा तस्य भार्गवस्य महात्मनः चयवनत्वं परिख्यातं तन ममाचक्ष्व पृच्छतः ॥ 10 ॥
[स] भृगॊः सुदयिता भार्या पुलॊमेत्य अभिविश्रुता तस्यां गर्भः समभवद भृगॊर वीर्यसमुद्भवः ॥ 11 ॥
तस्मिन गर्भे संभृते ऽथ पुलॊमायां भृगूद्वह समये समशीलिन्यां धर्मपत्न्यां यशस्विनः ॥ 12 ॥
अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे आश्रमं तस्य रक्षॊ ऽथ पुलॊमाभ्याजगाम ह ॥ 13 ॥
तं परविश्याश्रमं दृष्ट्वा भृगॊर भार्याम अनिन्दिताम हृच्छयेन समाविष्टॊ विचेताः समपद्यत ॥ 14 ॥
अभ्यागतं तु तद रक्षः पुलॊमा चारुदर्शना नयमन्त्रयत वन्येन फलमूलादिना तदा ॥ 15 ॥
तां तु रक्षस ततॊ बरह्मन हृच्छयेनाभिपीडितम दृष्ट्वा हृष्टम अभूत तत्र जिहीर्षुस ताम अनिन्दिताम ॥ 16 ॥
अथाग्निशरणे ऽपश्यज जवलितं जातवेदसम तम अपृच्छत ततॊ रक्षः पावकं जवलितं तदा ॥ 17 ॥
शंस मे कस्य भार्येयम अग्ने पृष्ट ऋतेन वै सत्यस तवम असि सत्यं मे वद पावकपृच्छते ॥ 18 ॥
मया हीयं पूर्ववृता भार्यार्थे वरवर्णिनी पश्चात तव इमां पिता परादाद भृगवे ऽनृतकारिणे ॥ 19 ॥
सेयं यदि वरारॊहा भृगॊर भार्या रहॊगता तथा सत्यं समाख्याहि जिहीर्षाम्य आश्रमाद इमाम ॥ 20 ॥
मन्युर हि हृदयं मे ऽदय परदहन्न इव तिष्ठति मत पुर्व भार्यां यद इमां भृगुः पराप सुमध्यमाम ॥ 21 ॥
तद रक्ष एवम आमन्त्र्य जवलितं जातवेदसम शङ्कमानॊ भृगॊर भार्यां पुनः पुनर अपृच्छत ॥ 22 ॥
तवम अग्ने सर्वभूतानाम अन्तश चरसि नित्यदा साक्षिवत पुण्यपापेषु सत्यं बरूहि कवे वचः ॥ 23 ॥
मत पूर्वभार्यापहृता भृगुणानृत कारिणा सेयं यदि तथा मे तवं सत्यम आख्यातुम अर्हसि ॥ 24 ॥
शरुत्वा तवत्तॊ भृगॊर भार्यां हरिष्याम्य अहम आश्रमात जातवेदः पश्यतस ते वद सत्यां गिरं मम ॥ 25 ॥
तस्य तद वचनं शरुत्वा सप्तार्चिर दुःखितॊ भृशम भीतॊ ऽनृताच च शापाच च भृगॊर इत्य अब्रवीच छनैः ॥ 26 ॥
आदिपर्व · Adi Parva
अध्याय 5
Reach this point to mark the section finished.
Continue to अध्याय 6