धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 4

  1. लॊमहर्षण पुत्र उग्रश्रवाः सूतः पौराणिकॊ नैमिषारण्ये शौनकस्य कुलपतेर दवादश वार्षिके सत्रे ऋषीन अभ्यागतान उपतस्थे ॥ 1 ॥

  2. पौराणिकः पुराणे कृतश्रमः स तान कृताञ्जलिर उवाच किं भवन्तः शरॊतुम इच्छन्ति किम अहं बरुवाणीति ॥ 2 ॥

  3. तम ऋषय ऊचुः परमं लॊमहर्षणे परक्ष्यामस तवां वक्ष्यसि च नः शुश्रूषतां कथा यॊगम तद भगवांस तु तावच छौनकॊ ऽगनिशरणम अध्यास्ते ॥ 3 ॥

  4. यॊ ऽसौ दिव्याः कथा वेद देवतासुरसंकथाः मनुष्यॊरगगन्धर्वकथा वेद स सर्वशः ॥ 4 ॥

  5. स चाप्य अस्मिन मखे सौते विद्वान कुलपतिर दविजः दक्षॊ धृतव्रतॊ धीमाञ शास्त्रे चारण्यके गुरुः ॥ 5 ॥

  6. सत्यवादी शम परस तपस्वी नियतव्रतः सर्वेषाम एव नॊ मान्यः स तावत परतिपाल्यताम ॥ 6 ॥

  7. तस्मिन्न अध्यासति गुराव आसनं परमार्चितम ततॊ वक्ष्यसि यत तवां स परक्ष्यति दविजसत्तमः ॥ 7 ॥

  8. [सूत] एवम अस्तु गुरौ तस्मिन्न उपविष्टे महात्मनि तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः ॥ 8 ॥

  9. सॊ ऽथ विप्रर्षभः कार्यं कृत्वा सर्वं यथाक्रमम देवान वाग्भिः पितॄन अद्भिस तर्पयित्वाजगाम ह ॥ 9 ॥

  10. यत्र बरह्मर्षयः सिद्धास त आसीना यतव्रताः यज्ञायतनम आश्रित्य सूतपुत्र पुरःसराः ॥ 10 ॥

  11. ऋत्विक्ष्व अथ सदस्येषु स वै गृहपतिस ततः उपविष्टेषूपविष्टः शौनकॊ ऽथाब्रवीद इदम ॥ 11 ॥

Reach this point to mark the section finished.

Continue to अध्याय 5

Previous: अध्याय 3