धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 30

  1. [ग] सख्यं मे ऽसतु तवया देव यथेच्छसि पुरंदर बलं तु मम जानीहि महच चासह्यम एव च ॥ 1 ॥

  2. कामं नैतत परशंसन्ति सन्तः सवबलसंस्तवम गुणसंकीर्तनं चापि सवयम एव शतक्रतॊ ॥ 2 ॥

  3. सखेति कृत्वा तु सखे पृष्टॊ वक्ष्याम्य अहं तवया न हय आत्मस्तव संयुक्तं वक्तव्यम अनिमित्ततः ॥ 3 ॥

  4. सपर्वतवनाम उर्वीं ससागरवनाम इमाम पक्षनाड्यैकया शक्र तवां चैवात्रावलम्बिनम ॥ 4 ॥

  5. सर्वान संपिण्डितान वापि लॊकान सस्थाणु जङ्गमान वहेयम अपरिश्रान्तॊ विद्धीदं मे महद बलम ॥ 5 ॥

  6. [सूत] इत्य उक्तवचनं वीरं किरीटी शरीमतां वरः आह शौनक देवेन्द्रः सर्वभूतहितः परभुः ॥ 6 ॥

  7. परतिगृह्यताम इदानीं मे सख्यम आनन्त्यम उत्तमम न कार्यं तव सॊमेन मम सॊमः परदीयताम अस्मांस ते हि परबाधेयुर येभ्यॊ दद्याद भवान इमम ॥ 7 ॥

  8. [ग] किं चित कारणम उद्दिश्य सॊमॊ ऽयं नीयते मया न दास्यामि समादातुं सॊमं कस्मै चिद अप्य अहम ॥ 8 ॥

  9. यत्रेमं तु सहस्राक्ष निक्षिपेयम अहं सवयम तवम आदाय ततस तूर्णं हरेथास तरिदशेश्वर ॥ 9 ॥

  10. [ष] वाक्येनानेन तुष्टॊ ऽहं यत तवयॊक्तम इहाण्डज यद इच्छसि वरं मत्तस तद्गृहाण खगॊत्तम ॥ 10 ॥

  11. [स] इत्य उक्तः परत्युवाचेदं कद्रू पुत्रान अनुस्मरन समृत्वा चैवॊपधि कृतं मातुर दास्य निमित्ततः ॥ 11 ॥

  12. ईशॊ ऽहम अपि सर्वस्य करिष्यामि तु ते ऽरथिताम भवेयुर भुजगाः शक्र मम भक्ष्या महाबलाः ॥ 12 ॥

  13. तथेत्य उक्त्वान्वगच्छत तं ततॊ दानव सूदनः हरिष्यामि विनिक्षिप्तं सॊमम इत्य अनुभाष्य तम ॥ 13 ॥

  14. आजगाम ततस तूर्णं सुपर्णॊ मातुर अन्तिकम अथ सर्पान उवाचेदं सर्वान परमहृष्टवत ॥ 14 ॥

  15. इदम आनीतम अमृतं निक्षेप्स्यामि कुशेषु वः सनाता मङ्गलसंयुक्तास ततः पराश्नीत पन्नगाः ॥ 15 ॥

  16. अदासी चैव मातेयम अद्य परभृति चास्तु मे यथॊक्तं भवताम एतद वचॊ मे परतिपादितम ॥ 16 ॥

  17. ततः सनातुं गताः सर्पाः परत्युक्त्वा तं तथेत्य उत शक्रॊ ऽपय अमृतम आक्षिप्य जगाम तरिदिवं पुनः ॥ 17 ॥

  18. अथागतास तम उद्देशं सर्पाः सॊमार्थिनस तदा सनाताश च कृतजप्याश च परहृष्टाः कृतमङ्गलाः ॥ 18 ॥

  19. तद विज्ञाय हृतं सर्पाः परतिमाया कृतं च तत सॊमस्थानम इदं चेति दर्भांस ते लिलिहुस तदा ॥ 19 ॥

  20. ततॊ दवैधी कृता जिह्वा सर्पाणां तेन कर्मणा अभवंश चामृतस्पर्शाद धर्भास ते ऽथ पवित्रिणः ॥ 20 ॥

  21. ततः सुपर्णः परमप्रहृष्टवान; विहृत्य मात्रा सह तत्र कानने भुजंगभक्षः परमार्चितः खगैर; अहीन कीर्तिर विनताम अनन्दयत ॥ 21 ॥

  22. इमां कथां यः शृणुयान नरः सदा; पठेत वा दविज जनमुख्यसंसदि असंशयं तरिदिवम इयात स पुण्यभान; महात्मनः पतगपतेः परकीर्तनात ॥ 22 ॥

Reach this point to mark the section finished.

Continue to अध्याय 31

Previous: अध्याय 29