[स] जाम्बूनदमयॊ भूत्वा मरीचिविकचॊज्ज्वलः परविवेश बलात पक्षी वारिवेग इवार्णवम ॥ 1 ॥
सचक्रं कषुर पर्यन्तम अपश्यद अमृतान्तिके परिभ्रमन्तम अनिशं तीक्ष्णधारम अयस्मयम ॥ 2 ॥
जवलनार्कप्रभं घॊरं छेदनं सॊमहारिणाम घॊररूपं तद अत्यर्थं यन्त्रं देवैः सुनिर्मितम ॥ 3 ॥
तस्यान्तरं स दृष्ट्वैव पर्यवर्तत खेचरः अरान्तरेणाभ्यपतत संक्षिप्याङ्गं कषणेन ह ॥ 4 ॥
अधश चक्रस्य चैवात्र दीप्तानलसमद्युती विद्युज्जिह्वौ महाघॊरौ दीप्तास्यौ दीप्तलॊचनौ ॥ 5 ॥
चक्षुर विषौ महावीर्यौ नित्यक्रुद्धौ तरस्विनौ रक्षार्थम एवामृतस्य ददर्श भुजगॊत्तमौ ॥ 6 ॥
सदा संरब्ध नयनौ सदा चानिमिषेक्षणौ तयॊर एकॊ ऽपि यं पश्येत स तूर्णं भस्मसाद भवेत ॥ 7 ॥
तयॊश चक्षूंषि रजसा सुपर्णस तूर्णम आवृणॊत अदृष्टरूपस तौ चापि सर्वतः पर्यकालयत ॥ 8 ॥
तयॊर अङ्गे समाक्रम्य वैनतेयॊ ऽनतरिक्षगः आछिनत तरसा मध्ये सॊमम अभ्यद्रवत ततः ॥ 9 ॥
समुत्पाट्यामृतं तत तु वैनतेयस ततॊ बली उत्पपात जवेनैव यन्त्रम उन्मथ्य वीर्यवान ॥ 10 ॥
अपीत्वैवामृतं पक्षी परिगृह्याशु वीर्यवान अगच्छद अपरिश्रान्त आवार्यार्क परभां खगः ॥ 11 ॥
विष्णुना तु तदाकाशे वैनतेयः समेयिवान तस्य नारायणस तुष्टस तेनालौल्येन कर्मणा ॥ 12 ॥
तम उवाचाव्ययॊ देवॊ वरदॊ ऽसमीति खेचरम स वव्रे तव तिष्ठेयम उपरीत्य अन्तरिक्षगः ॥ 13 ॥
उवाच चैनं भूयॊ ऽपि नारायणम इदं वचः अजरश चामरश च सयाम अमृतेन विनाप्य अहम ॥ 14 ॥
परतिगृह्य वरौ तौ च गरुडॊ विष्णुम अब्रवीत भवते ऽपि वरं दद्मि वृणीतां भगवान अपि ॥ 15 ॥
तं वव्रे वाहनं कृष्णॊ गरुत्मन्तं महाबलम धवजं च चक्रे भगवान उपरि सथास्यसीति तम ॥ 16 ॥
अनुपत्य खगं तव इन्द्रॊ वज्रेणाङ्गे ऽभयताडयत विहंगमं सुरामित्रं हरन्तम अमृतं बलात ॥ 17 ॥
तम उवाचेन्द्रम आक्रन्दे गरुडः पततां वरः परहसञ शलक्ष्णया वाचा तथा वज्रसमाहतः ॥ 18 ॥
ऋषेर मानं करिष्यामि वज्रं यस्यास्थि संभवम वज्रस्य च करिष्यामि तव चैव शतक्रतॊ ॥ 19 ॥
एष पत्रं तयजाम्य एकं यस्यान्तं नॊपलप्स्यसे न हि वज्रनिपातेन रुजा मे ऽसति कदा चन ॥ 20 ॥
तत्र तं सर्वभूतानि विस्मितान्य अब्रुवंस तदा सुरूपं पत्रम आलक्ष्य सुपर्णॊ ऽयं भवत्व इति ॥ 21 ॥
दृष्ट्वा तद अद्भुतं चापि सहस्राक्षः पुरंदरः खगॊ महद इदं भूतम इति मत्वाभ्यभाषत ॥ 22 ॥
बलं विज्ञातुम इच्छामि यत ते परम अनुत्तमम सख्यं चानन्तम इच्छामि तवया सह खगॊत्तम ॥ 23 ॥
आदिपर्व · Adi Parva
अध्याय 29
Reach this point to mark the section finished.
Continue to अध्याय 30