[रसयग] समन्तपञ्चकम इति यद उक्तं सूतनन्दन एतत सर्वं यथान्यायं शरॊतुम इच्छामहे वयम ॥ 1 ॥
[स] शुश्रूषा यदि वॊ विप्रा बरुवतश च कथाः शुभाः समन्तपञ्चकाख्यं च शरॊतुम अर्हथ सत्तमाः ॥ 2 ॥
तरेता दवापरयॊः संधौ रामः शस्त्रभृतां वरः असकृत पार्थिवं कषत्रं जघानामर्ष चॊदितः ॥ 3 ॥
स सर्वं कषत्रम उत्साद्य सववीर्येणानल दयुतिः समन्तपञ्चके पञ्च चकार रुधिरह्रदान ॥ 4 ॥
स तेषु रुधिराम्भःसु हरदेषु करॊधमूर्च्छितः पितॄन संतर्पयाम आस रुधिरेणेति नः शरुतम ॥ 5 ॥
अथर्चीकादयॊ ऽभयेत्य पितरॊ बराह्मणर्षभम तं कषमस्वेति सिषिधुस ततः स विरराम ह ॥ 6 ॥
तेषां समीपे यॊ देशॊ हरदानां रुधिराम्भसाम समन्तपञ्चकम इति पुण्यं तत्परिकीर्तितम ॥ 7 ॥
येन लिङ्गेन यॊ देशॊ युक्तः समुपलक्ष्यते तेनैव नाम्ना तं देशं वाच्यम आहुर मनीषिणः ॥ 8 ॥
अन्तरे चैव संप्राप्ते कलिद्वापरयॊर अभूत समन्तपञ्चके युद्धं कुरुपाण्डवसेनयॊः ॥ 9 ॥
तस्मिन परमधर्मिष्ठे देशे भूदॊषवर्जिते अष्टादश समाजग्मुर अक्षौहिण्यॊ युयुत्सया ॥ 10 ॥
एवं नामाभिनिर्वृत्तं तस्य देशस्य वै दविजाः पुण्यश च रमणीयश च स देशॊ वः परकीर्तितः ॥ 11 ॥
तद एतत कथितं सर्वं मया वॊ मुनिसत्तमाः यथा देशः स विख्यातस तरिषु लॊकेषु विश्रुतः ॥ 12 ॥
[रसयग] अक्षौहिण्य इति परॊक्तं यत तवया सूतनन्दन एतद इच्छामहे शरॊतुं सर्वम एव यथातथम ॥ 13 ॥
अक्षौहिण्याः परीमाणं रथाश्वनरदन्तिनाम यथावच चैव नॊ बरूहि सर्वं हि विदितं तव ॥ 14 ॥
[स] एकॊ रथॊ जगश चैकॊ नराः पञ्च पदातयः तरयश च तुरगास तज्ज्ञैः पत्तिर इत्य अभिधीयते ॥ 15 ॥
पत्तिं तु तरिगुणाम एताम आहुः सेनामुखं बुधाः तरीणि सेनामुखान्य एकॊ गुल्म इत्य अभिधीयते ॥ 16 ॥
तरयॊ गुल्मा गणॊ नाम वाहिनी तु गणास तरयः समृतास तिस्रस तु वाहिन्यः पृतनेति विचक्षणैः ॥ 17 ॥
चमूस तु पृतनास तिस्रस तिस्रश चम्वस तव अनीकिनी अनीकिनीं दशगुणां पराहुर अक्षौहिणीं बुधाः ॥ 18 ॥
अक्षौहिण्याः परसंख्यानं रथानां दविजसत्तमाः संख्या गणित तत्त्वज्ञैः सहस्राण्य एकविंशतिः ॥ 19 ॥
शतान्य उपरि चैवाष्टौ तथा भूयश च सप्ततिः गजानां तु परीमाणम एतद एवात्र निर्दिशेत ॥ 20 ॥
जञेयं शतसहस्रं तु सहस्राणि तथा नव नराणाम अपि पञ्चाशच छतानि तरीणि चानघाः ॥ 21 ॥
पञ्च षष्टिसहस्राणि तथाश्वानां शतानि च दशॊत्तराणि षट पराहुर यथावद इह संख्यया ॥ 22 ॥
एताम अक्षौहिणीं पराहुः संख्या तत्त्वविदॊ जनाः यां वः कथितवान अस्मि विस्तरेण दविजॊत्तमाः ॥ 23 ॥
एतया संख्यया हय आसन कुरुपाण्डवसेनयॊः अक्षौहिण्यॊ दविजश्रेष्ठाः पिण्डेनाष्टादशैव ताः ॥ 24 ॥
समेतास तत्र वै देशे तत्रैव निधनं गताः कौरवान कारणं कृत्वा कालेनाद्भुत कर्मणा ॥ 25 ॥
अहानि युयुधे भीष्मॊ दशैव परमास्त्रवित अहानि पञ्च दरॊणस तु ररक्ष कुरु वाहिनीम ॥ 26 ॥
अहनी युयुधे दवे तु कर्णः परबलार्दनः शल्यॊ ऽरधदिवसं तव आसीद गदायुद्धम अतः परम ॥ 27 ॥
तस्यैव तु दिनस्यान्ते हार्दिक्य दरौणिगौतमाः परसुप्तं निशि विश्वस्तं जघ्नुर यौधिष्ठिरं बलम ॥ 28 ॥
यत तु शौनक सत्रे तु भारताख्यान विस्तरम आख्यास्ये तत्र पौलॊमम आख्यानं चादितः परम ॥ 29 ॥
विचित्रार्थपदाख्यानम अनेकसमयान्वितम अभिपन्नं नरैः पराज्ञैर वैराग्यम इव मॊक्षिभिः ॥ 30 ॥
आत्मेव वेदितव्येषु परियेष्व इव च जीवितम इतिहासः परधानार्थः शरेष्ठः सर्वागमेष्व अयम ॥ 31 ॥
इतिहासॊत्तमे हय अस्मिन्न अर्पिता बुद्धिर उत्तमा खरव्यञ्जनयॊः कृत्स्ना लॊकवेदाश्रयेव वाक ॥ 32 ॥
अस्य परज्ञाभिपन्नस्य विचित्रपदपर्वणः भारतस्येतिहासस्य शरूयतां पर्व संग्रहः ॥ 33 ॥
पर्वानुक्रमणी पूर्वं दवितीयं पर्व संग्रहः पौष्यं पौलॊमम आस्तीकम आदिवंशावतारणम ॥ 34 ॥
ततः संभव पर्वॊक्तम अद्भुतं देवनिर्मितम दाहॊ जतु गृहस्यात्र हैडिम्बं पर्व चॊच्यते ॥ 35 ॥
ततॊ बकवधः पर्व पर्व चैत्ररथं ततः ततः सवयंवरं देव्याः पाञ्चाल्याः पर्व चॊच्यते ॥ 36 ॥
कषत्रधर्मेण निर्मित्य ततॊ वैवाहिकं समृतम विदुरागमनं पर्व राज्यलम्भस तथैव च ॥ 37 ॥
अर्जुनस्य वनेवासः सुभद्राहरणं ततः सुभद्राहरणाद ऊर्ध्वं जञेयं हरणहारिकम ॥ 38 ॥
ततः खाण्डव दाहाख्यं तत्रैव मय दर्शनम सभा पर्व ततः परॊक्तं मन्त्रपर्व ततः परम ॥ 39 ॥
जरासंध वधः पर्व पर्व दिग विजयस तथा पर्व दिग विजयाद ऊर्ध्वं राजसूयिकम उच्यते ॥ 40 ॥
ततश चार्घाभिहरणं शिशुपाल वधस ततः दयूतपर्व ततः परॊक्तम अनुद्यूतम अतः परम ॥ 41 ॥
तत आरण्यकं पर्व किर्मीरवध एव च ईश्वरार्जुनयॊर युद्धं पर्व कैरात संज्ञितम ॥ 42 ॥
इन्द्रलॊकाभिगमनं पर्व जञेयम अतः परम तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः ॥ 43 ॥
जटासुरवधः पर्व यक्षयुद्धम अतः परम तथैवाजगरं पर्व विज्ञेयं तदनन्तरम ॥ 44 ॥
मार्कण्डेय समस्या च पर्वॊक्तं तदनन्तरम संवादश च ततः पर्व दरौपदी सत्यभामयॊः ॥ 45 ॥
घॊषयात्रा ततः पर्व मृगस्वप्नभयं ततः वरीहि दरौणिकम आख्यानं ततॊ ऽनन्तरम उच्यते ॥ 46 ॥
दरौपदी हरणं पर्व सैन्धवेन वनात ततः कुण्डलाहरणं पर्व ततः परम इहॊच्यते ॥ 47 ॥
आरणेयं ततः पर्व वैराटं तदनन्तरम कीचकानां वधः पर्व पर्व गॊग्रहणं ततः ॥ 48 ॥
अभिमन्युना च वैराट्याः पर्व वैवाहिकं समृतम उद्यॊगपर्व विज्ञेयम अत ऊर्ध्वं महाद्भुतम ॥ 49 ॥
ततः संजय यानाख्यं पर्व जञेयम अतः परम परजागरं ततः पर्व धृतराष्ट्रस्य चिन्तया ॥ 50 ॥
पर्व सानत्सुजातं च गुह्यम अध्यात्मदर्शनम यानसंधिस ततः पर्व भगवद यानम एव च ॥ 51 ॥
जञेयं विवाद पर्वात्र कर्णस्यापि महात्मनः निर्याणं पर्व च ततः कुरुपाण्डवसेनयॊः ॥ 52 ॥
रथातिरथ संख्या च पर्वॊक्तं तदनन्तरम उलूक दूतागमनं पर्वामर्ष विवर्धनम ॥ 53 ॥
अम्बॊपाख्यानम अपि च पर्व जञेयम अतः परम भीष्माभिषेचनं पर्व जञेयम अद्भुतकारणम ॥ 54 ॥
जम्बू खण्ड विनिर्माणं पर्वॊक्तं तदनन्तरम भूमिपर्व ततॊ जञेयं दवीपविस्तर कीर्तनम ॥ 55 ॥
पर्वॊक्तं भगवद गीता पर्व भीस्म वधस ततः दरॊणाभिषेकः पर्वॊक्तं संशप्तक वधस ततः ॥ 56 ॥
अभिमन्युवधः पर्व परतिज्ञा पर्व चॊच्यते जयद्रथवधः पर्व घटॊत्कच वधस ततः ॥ 57 ॥
ततॊ दरॊण वधः पर्व विज्ञेयं लॊमहर्षणम मॊक्षॊ नारायणास्त्रस्य पर्वानन्तरम उच्यते ॥ 58 ॥
कर्ण पर्व ततॊ जञेयं शल्य पर्व ततः परम हरद परवेशनं पर्व गदायुद्धम अतः परम ॥ 59 ॥
सारस्वतं ततः पर्व तीर्थवंशगुणान्वितम अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकम उच्यते ॥ 60 ॥
ऐषीकं पर्व निर्दिष्टम अत ऊर्ध्वं सुदारुणम जलप्रदानिकं पर्व सत्री पर्व च ततः परम ॥ 61 ॥
शराद्धपर्व ततॊ जञेयं कुरूणाम और्ध्वदेहिकम आभिषेचनिकं पर्व धर्मराजस्य धीमतः ॥ 62 ॥
चार्वाक निग्रहः पर्व रक्षसॊ बरह्मरूपिणः परविभागॊ गृहाणां च पर्वॊक्तं तदनन्तरम ॥ 63 ॥
शान्ति पर्व ततॊ यत्र राजधर्मानुकीर्तनम आपद धर्मश च पर्वॊक्तं मॊक्षधर्मस ततः परम ॥ 64 ॥
ततः पर्व परिज्ञेयम आनुशासनिकं परम सवर्गारॊहणिकं पर्व ततॊ भीष्मस्य धीमतः ॥ 65 ॥
तत आश्वमेधिकं पर्व सर्वपापप्रणाशनम अनुगीता ततः पर्व जञेयम अध्यात्मवाचकम ॥ 66 ॥
पर्व चाश्रमवासाख्यं पुत्रदर्शनम एव च नारदागमनं पर्व ततः परम इहॊच्यते ॥ 67 ॥
मौसलं पर्व च ततॊ घॊरं समनुवर्ण्यते महाप्रस्थानिकं पर्व सवर्गारॊहणिकं ततः ॥ 68 ॥
हरि वंशस ततः पर्व पुराणं खिल संज्ञितम भविष्यत पर्व चाप्य उक्तं खिलेष्व एवाद्भुतं महत ॥ 69 ॥
एतत पर्व शतं पूर्णं वयासेनॊक्तं महात्मना यथावत सूतपुत्रेण लॊमहर्षणिना पुनः ॥ 70 ॥
कथितं नैमिषारण्ये पर्वाण्य अष्टादशैव तु समासॊ भारतस्यायं तत्रॊक्तः पर्व संग्रहः ॥ 71 ॥
पौष्ये पर्वणि माहात्म्यम उत्तङ्कस्यॊपवर्णितम पौलॊमे भृगुवंशस्य विस्तारः परिकीर्तितः ॥ 72 ॥
आस्तीके सर्वनागानां गरुडस्य च संभवः कषीरॊदमथनं चैव जन्मॊच्छैः शरवसस तथा ॥ 73 ॥
यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च कथेयम अभिनिर्वृत्ता भारतानां महात्मनाम ॥ 74 ॥
विविधाः संभवा राज्ञाम उक्ताः संभव पर्वणि अन्येषां चैव विप्राणाम ऋषेर दवैपायनस्य च ॥ 75 ॥
अंशावतरणं चात्र देवानां परिकीर्तितम दैत्यानां दानवानां च यक्षाणां च महौजसाम ॥ 76 ॥
नागानाम अथ सर्पाणां गन्धर्वाणां पतत्रिणाम अन्येषां चैव भूतानां विविधानां समुद्भवः ॥ 77 ॥
वसूनां पुनर उत्पत्तिर भागीरथ्यां महात्मनाम शंतनॊर वेश्मनि पुनस तेषां चारॊहणं दिवि ॥ 78 ॥
तेजॊ ऽंशानां च संघाताद भीष्मस्याप्य अत्र संभवः राज्यान निवर्तनं चैव बरह्मचर्य वरते सथितिः ॥ 79 ॥
परतिज्ञा पालनं चैव रक्षा चित्राङ्गदस्य च हते चित्राङ्गदे चैव रक्षा भरातुर यवीयसः ॥ 80 ॥
विचित्रवीर्यस्य तथा राज्ये संप्रतिपादनम धर्मस्य नृषु संभूतिर अणी माण्डव्य शापजा ॥ 81 ॥
कृष्णद्वैपायनाच चैव परसूतिर वरदानजा धृतराष्ट्रस्य पाण्डॊश च पाण्डवानां च संभवः ॥ 82 ॥
वारणावत यात्रा च मन्त्रॊ दुर्यॊधनस्य च विदुरस्य च वाक्येन सुरुङ्गॊपक्रम करिया ॥ 83 ॥
पाण्डवानां वने घॊरे हिडिम्बायाश च दर्शनम घटॊत्कचस्य चॊत्पत्तिर अत्रैव परिकीर्तिता ॥ 84 ॥
अज्ञातचर्या पाण्डूनां वासॊ बराह्मण वेश्मनि बकस्य निधनं चैव नागराणां च विस्मयः ॥ 85 ॥
अङ्गारपर्णं निर्जित्य गङ्गाकूले ऽरजुनस तदा भरातृभिः सहितः सर्वैः पाञ्चालान अभितॊ ययौ ॥ 86 ॥
तापत्यम अथ वासिष्ठम और्वं चाख्यानम उत्तमम पञ्चेन्द्राणाम उपाख्यानम अत्रैवाद्भुतम उच्यते ॥ 87 ॥
पञ्चानाम एकपत्नीत्वे विमर्शॊ दरुपदस्य च दरौपद्या देव विहितॊ विवाहश चाप्य अमानुषः ॥ 88 ॥
विदुरस्य च संप्राप्तिर दर्शनं केशवस्य च खाण्डव परस्थवासश च तथा राज्यार्ध शासनम ॥ 89 ॥
नारदस्याज्ञया चैव दरौपद्याः समयक्रिया सुन्दॊपसुन्दयॊस तत्र उपाख्यानं परकीर्तितम ॥ 90 ॥
पार्थस्य वनवासश च उलूप्या पथि संगमः पुण्यतीर्थानुसंयानं बभ्रु वाहन जन्म च ॥ 91 ॥
दवारकायां सुभद्रा च कामयानेन कामिनी वासुदेवस्यानुमते पराप्ता चैव किरीटिना ॥ 92 ॥
हरणं गृह्य संप्राप्ते कृष्णे देवकिनन्दने संप्राप्तिश चक्रधनुषॊः खाण्डवस्य च दाहनम ॥ 93 ॥
अभिमन्यॊः सुभद्रायां जन्म चॊत्तमतेजसः मयस्य मॊक्षॊ जवलनाद भुजंगस्य च मॊक्षणम महर्षेर मन्दपालस्य शार्ङ्ग्यं तनयसंभवः ॥ 94 ॥
इत्य एतद आधि पर्वॊक्तं परथमं बहुविस्तरम अध्यायानां शते दवे तु संखाते परमर्षिणा अष्टादशैव चाध्याया वयासेनॊत्तम तेजसा ॥ 95 ॥
सप्त शलॊकसहस्राणि तथा नव शतानि च शलॊकाश च चतुराशीतिर दृष्टॊ गरन्थॊ महात्मना ॥ 96 ॥
दवितीयं तु सभा पर्व बहु वृत्तान्तम उच्यते सभा करिया पाण्डवानां किंकराणां च दर्शनम ॥ 97 ॥
लॊकपाल सभाख्यानं नारदाद देव दर्शनात राजसूयस्य चारम्भॊ जरासंध वधस तथा ॥ 98 ॥
गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मॊक्षणम राजसूये ऽरघ संवादे शिशुपाल वधस तथा ॥ 99 ॥
यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च दुर्यॊधनस्यावहासॊ भीमेन च सभा तले ॥ 100 ॥
यत्रास्य मन्युर उद्भूतॊ येन दयूतम अकारयत यत्र धर्मसुतं दयूते शकुनिः कितवॊ ऽजयत ॥ 101 ॥
यत्र दयूतार्णवे मग्नान दरौपदी नौर इवार्णवात तारयाम आस तांस तीर्णाञ जञात्वा दुर्यॊधनॊ नृपः पुनर एव ततॊ दयूते समाह्वयत पाण्डवान ॥ 102 ॥
एतत सर्वं सभा पर्व समाख्यातं महात्मना अध्यायाः सप्ततिर जञेयास तथा दवौ चात्र संख्यया ॥ 103 ॥
शलॊकानां दवे सहस्रे तु पञ्च शलॊकशतानि च शलॊकाश चैकादश जञेयाः पर्वण्य अस्मिन परकीर्तिताः ॥ 104 ॥
अतः परं तृतीयं तु जञेयम आरण्यकं महत पौरानुगमनं चैव धर्मपुत्रस्य धीमतः ॥ 105 ॥
वृष्णीनाम आगमॊ यत्र पाञ्चालानां च सर्वशः यत्र सौभवधाख्यानं किर्मीरवध एव च अस्त्रहेतॊर विवासश च पार्थस्यामित तेजसः ॥ 106 ॥
महादेवेन युद्धं च किरात वपुषा सह दर्शनं लॊकपालानां सवर्गारॊहणम एव च ॥ 107 ॥
दर्शनं बृहदश्वस्य महर्षेर भावितात्मनः युधिष्ठिरस्य चार्तस्य वयसने परिदेवनम ॥ 108 ॥
नलॊपाख्यानम अत्रैव धर्मिष्ठं करुणॊदयम दमयन्त्याः सथितिर यत्र नलस्य वयसनागमे ॥ 109 ॥
वनवास गतानां च पाण्डवानां महात्मनाम सवर्गे परवृत्तिर आख्याता लॊमशेनार्जुनस्य वै ॥ 110 ॥
तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम जटासुरस्य तत्रैव वधः समुपवर्ण्यते ॥ 111 ॥
नियुक्तॊ भीमसेनश च दरौपद्या गन्धमादने यत्र मन्दारपुष्पार्थं नलिनीं ताम अधर्षयत ॥ 112 ॥
यत्रास्य सुमहद युद्धम अभवत सह राक्षसैः यक्षैश चापि महावीर्यैर मणिमत परमुखैस तथा ॥ 113 ॥
आगस्त्यम अपि चाख्यानं यत्र वातापि भक्षणम लॊपामुद्राभिगमनम अपत्यार्थम ऋषेर अपि ॥ 114 ॥
ततः शयेनकपॊतीयम उपाख्यानम अनन्तरम इन्द्रॊ ऽगनिर यत्र धर्मश च अजिज्ञासञ शिबिं नृपम ॥ 115 ॥
ऋश्य शृङ्गस्य चरितं कौमार बरह्मचारिणः जामदग्न्यस्य रामस्य चरितं भूरि तेजसः ॥ 116 ॥
कार्तवीर्य वधॊ यत्र हैहयानां च वर्ण्यते सौकन्यम अपि चाख्यानं चयवनॊ यत्र भार्गवः ॥ 117 ॥
शर्याति यज्ञे नासत्यौ कृतवान सॊमपीथिनौ ताभ्यां च यत्र स मुनिर यौवनं परतिपादितः ॥ 118 ॥
जन्तूपाख्यानम अत्रैव यत्र पुत्रेण सॊमकः पुत्रार्थम अयजद राजा लेभे पुत्रशतं च सः ॥ 119 ॥
अष्टावक्रीयम अत्रैव विवादे यत्र बन्दिनम विजित्य सागरं पराप्तं पितरं लब्धवान ऋषिः ॥ 120 ॥
अवाप्य दिव्यान्य अस्त्राणि गुर्वर्थे सव्यसाचिना निवातकवचैर युद्धं हिरण्यपुरवासिभिः ॥ 121 ॥
समागमश च पार्थस्य भरातृभिर गन्धमादने घॊषयात्रा च गन्धर्वैर यत्र युद्धं किरीटिनः ॥ 122 ॥
पुनरागमनं चैव तेषां दवैतवनं सरः जयद्रथेनापहारॊ दरौपद्याश चाश्रमान्तरात ॥ 123 ॥
यत्रैनम अन्वयाद भीमॊ वायुवेगसमॊ जवे मार्कण्डेय समस्यायाम उपाख्यानानि भागशः ॥ 124 ॥
संदर्शनं च कृष्णस्य संवादश चैव सत्यया वरीहि दरौणिकम आख्यानम ऐन्द्रद्युम्नं तथैव च ॥ 125 ॥
सावित्र्य औद्दालकीयं च वैन्यॊपाख्यानम एव च रामायणम उपाख्यानम अत्रैव बहुविस्तरम ॥ 126 ॥
कर्णस्य परिमॊषॊ ऽतर कुण्डलाभ्यां पुरंदरात आरणेयम उपाख्यानं यत्र धर्मॊ ऽनवशात सुतम जग्मुर लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम ॥ 127 ॥
एतद आरण्यकं पर्व तृतीयं परिकीर्तितम अत्राध्याय शते दवे तु संख्याते परमर्षिणा एकॊन सप्ततिश चैव तथाध्यायाः परकीर्तिताः ॥ 128 ॥
एकादश सहस्राणि शलॊकानां षट्शतानि च चतुःषष्टिस तथा शलॊकाः पर्वैतत परिकीर्तितम ॥ 129 ॥
अतः परं निबॊधेदं वैराटं पर्व विस्तरम विराटनगरं गत्वा शमशाने विपुलां शमीम दृष्ट्वा संनिदधुस तत्र पाण्डवा आयुधान्य उत ॥ 130 ॥
यत्र परविश्य नगरं छद्मभिर नयवसन्त ते दुरात्मनॊ वधॊ यत्र कीचकस्य वृकॊदरात ॥ 131 ॥
गॊग्रहे यत्र पार्थेन निर्जिताः कुरवॊ युधि गॊधनं च विराटस्य मॊक्षितं यत्र पाण्डवैः ॥ 132 ॥
विराटेनॊत्तरा दत्ता सनुषा यत्र किरीटिनः अभिमन्युं समुद्दिश्य सौभद्रम अरिघातिनम ॥ 133 ॥
चतुर्थम एतद विपुलं वैराटं पर्व वर्णितम अत्रापि परिसंख्यातम अध्यायानां महात्मना ॥ 134 ॥
सप्तषष्टिरथॊ पूर्णा शलॊकाग्रम अपि मे शृणु शलॊकानां दवे सहस्रे तु शलॊकाः पञ्चाशद एव तु पर्वण्य अस्मिन समाख्याताः संख्यया परमर्षिणा ॥ 135 ॥
उद्यॊगपर्व विज्ञेयं पञ्चमं शृण्वतः परम उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया दुर्यॊधनॊ ऽरजुनश चैव वासुदेवम उपस्थितौ ॥ 136 ॥
साहाय्यम अस्मिन समरे भवान नौ कर्तुम अर्हति इत्य उक्ते वचने कृष्णॊ यत्रॊवाच महामतिः ॥ 137 ॥
अयुध्यमानम आत्मानं मन्त्रिणं पुरुषर्षभौ अक्षौहिणीं वा सैन्यस्य कस्य वा किं ददाम्य अहम ॥ 138 ॥
वव्रे दुर्यॊधनः सैन्यं मन्दात्मा यत्र दुर्मतिः अयुध्यमानं सचिवं वव्रे कृष्णं धनंजयः ॥ 139 ॥
संजयं परेषयाम आस शमार्थं पाण्डवान परति यत्र दूतं महाराजॊ धृतराष्ट्रः परतापवान ॥ 140 ॥
शरुत्वा च पाण्डवान यत्र वासुदेव पुरॊगमान परजागरः संप्रजज्ञे धृतराष्ट्रस्य चिन्तया ॥ 141 ॥
विदुरॊ यत्र वाक्यानि विचित्राणि हितानि च शरावयाम आस राजानं धृतराष्ट्रं मनीषिणम ॥ 142 ॥
तथा सनत्सुजातेन यत्राध्यात्मम अनुत्तमम मनस्तापान्वितॊ राजा शरावितः शॊकलालसः ॥ 143 ॥
परभाते राजसमितौ संजयॊ यत्र चाभिभॊः ऐकात्म्यं वासुदेवस्य परॊक्तवान अर्जुनस्य च ॥ 144 ॥
यत्र कृष्णॊ दयापन्नः संधिम इच्छन महायशाः सवयम आगाच छमं कर्तुं नगरं नागसाह्वयम ॥ 145 ॥
परत्याख्यानं च कृष्णस्य राज्ञा दुर्यॊधनेन वै शमार्थं याचमानस्य पक्षयॊर उभयॊर हितम ॥ 146 ॥
कर्णदुर्यॊधनादीनां दुष्टं विज्ञाय मन्त्रितम यॊगेश्वरत्वं कृष्णेन यत्र राजसु दर्शितम ॥ 147 ॥
रथम आरॊप्य कृष्णेन यत्र कर्णॊ ऽनुमन्त्रितः उपायपूर्वं शौण्डीर्यात परत्याख्यातश च तेन सः ॥ 148 ॥
ततश चाप्य अभिनिर्यात्रा रथाश्वनरदन्तिनाम नगराद धास्तिन पुराद बलसंख्यानम एव च ॥ 149 ॥
यत्र राज्ञा उलूकस्य परेषणं पाण्डवान परति शवॊ भाविनि महायुद्धे दूत्येन करूर वादिना रथातिरथ संख्यानम अम्बॊपाख्यानम एव च ॥ 150 ॥
एतत सुबहु वृत्तान्तं पञ्चमं पर्व भारते उद्यॊगपर्व निर्दिष्टं संधिविग्रहसंश्रितम ॥ 151 ॥
अध्यायाः संख्यया तव अत्र षड अशीति शतं समृतम शलॊकानां षट सहस्राणि तावन्त्य एव शतानि च ॥ 152 ॥
शलॊकाश च नवतिः परॊक्तास तथैवाष्टौ महात्मना वयासेनॊदार मतिना पर्वण्य अस्मिंस तपॊधनाः ॥ 153 ॥
अत ऊर्ध्वं विचित्रार्थं भीष्म पर्व परचक्षते जम्बू खण्ड विनिर्माणं यत्रॊक्तं संजयेन ह ॥ 154 ॥
यत्र युद्धम अभूद घॊरं दशाहान्य अतिदारुणम यत्र यौधिष्ठिरं सैन्यं विषादम अगमत परम ॥ 155 ॥
कश्मलं यत्र पार्थस्य वासुदेवॊ महामतिः मॊहजं नाशयाम आस हेतुभिर मॊक्षदर्शनैः ॥ 156 ॥
शिखण्डिनं पुरस्कृत्य यत्र पार्थॊ महाधनुः विनिघ्नन निशितैर बाणै रथाद भीष्मम अपातयत ॥ 157 ॥
षष्ठम एतन महापर्व भारते परिकीर्तितम अध्यायानां शतं परॊक्तं सप्त दश तथापरे ॥ 158 ॥
पञ्च शलॊकसहस्राणि संख्ययाष्टौ शतानि च शलॊकाश च चतुराशीतिः पर्वण्य अस्मिन परकीर्तिताः वयासेन वेदविदुषा संख्याता भीष्म पर्वणि ॥ 159 ॥
दरॊण पर्व ततश चित्रं बहु वृत्तान्तम उच्यते यत्र संशप्तकाः पार्थम अपनिन्यू रणाजिरात ॥ 160 ॥
भगदत्तॊ महाराजॊ यत्र शक्रसमॊ युधि सुप्रतीकेन नागेन सह शस्तः किरीटिना ॥ 161 ॥
यत्राभिमन्युं बहवॊ जघ्नुर लॊकमहारथाः जयद्रथमुखा बालं शूरम अप्राप्तयौवनम ॥ 162 ॥
हते ऽभिमन्यौ करुद्धेन यत्र पार्थेन संयुगे अक्षौहिणीः सप्त हत्वा हतॊ राजा जयद्रथः संशप्तकावशेषं च कृतं निःशेषम आहवे ॥ 163 ॥
अलम्बुसः शरुतायुश च जलसंधश च वीर्यवान सौमदत्तिर विराटश च दरुपदश च महारथः घटॊत्कचादयश चान्ये निहता दरॊण पर्वणि ॥ 164 ॥
अश्वत्थामापि चात्रैव दरॊणे युधि निपातिते अस्त्रं परादुश्चकारॊग्रं नारायणम अमर्षितः ॥ 165 ॥
सप्तमं भारते पर्व महद एतद उदाहृतम अत्र ते पृथिवीपालाः परायशॊ निधनं गताः दरॊण पर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः ॥ 166 ॥
अध्यायानां शतं परॊक्तम अध्यायाः सप्ततिस तथा अष्टौ शलॊकसहस्राणि तथा नव शतानि च ॥ 167 ॥
शलॊका नव तथैवात्र संख्यातास तत्त्वदर्शिना पाराशर्येण मुनिना संचिन्त्य दरॊण पर्वणि ॥ 168 ॥
अतः परं कर्ण पर्व परॊच्यते परमाद्भुतम सारथ्ये विनियॊगश च मद्रराजस्य धीमतः आख्यातं यत्र पौराणं तरिपुरस्य निपातनम ॥ 169 ॥
परयाणे परुषश चात्र संवादः कर्ण शल्ययॊः हंसकाकीयम आख्यानम अत्रैवाक्षेप संहितम ॥ 170 ॥
अन्यॊन्यं परति च करॊधॊ युधिष्ठिर किरीटिनॊः दवैरथे यत्र पार्थेन हतः कर्णॊ महारथः ॥ 171 ॥
अष्टमं पर्व निर्दिष्टम एतद भारत चिन्तकैः एकॊन सप्ततिः परॊक्ता अध्यायाः कर्ण पर्वणि चत्वार्य एव सहस्राणि नव शलॊकशतानि च ॥ 172 ॥
अतः परं विचित्रार्थं शक्य पर्व परकीर्तितम हतप्रवीरे सैन्ये तु नेता मद्रेश्वरॊ ऽभवत ॥ 173 ॥
वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः विनाशः कुरुमुख्यानां शल्य पर्वणि कीर्त्यते ॥ 174 ॥
शल्यस्य निधनं चात्र धर्मराजान महारथात गदायुद्धं तु तुमुलम अत्रैव परिकीर्तितम सरस्वत्याश च तीर्थानां पुण्यता परिकीर्तिता ॥ 175 ॥
नवमं पर्व निर्दिष्टम एतद अद्भुतम अर्थवत एकॊन षष्टिर अध्यायास तत्र संख्या विशारदैः ॥ 176 ॥
संख्याता बहु वृत्तान्ताः शलॊकाग्रं चात्र शस्यते तरीणि शलॊकसहस्राणि दवे शते विंशतिस तथा मुनिना संप्रणीतानि कौरवाणां यशॊ भृताम ॥ 177 ॥
अतः परं परवक्ष्यामि सौप्तिकं पर्व दारुणम भग्नॊरुं यत्र राजानं दुर्यॊधनम अमर्षणम ॥ 178 ॥
वयपयातेषु पार्थेषु तरयस ते ऽभयाययू रथाः कृतवर्मा कृपॊ दरौणिः सायाह्ने रुधिरॊक्षिताः ॥ 179 ॥
परतिजज्ञे दृढक्रॊधॊ दरौणिर यत्र महारथः अहत्वा सर्वपाञ्चालान धृष्टद्युम्नपुरॊगमान पाण्डवांश च सहामात्यान न विमॊक्ष्यामि दंशनम ॥ 180 ॥
परसुप्तान निशि विश्वस्तान यत्र ते पुरुषर्षभाः पाञ्चालान सपरीवाराञ जघ्नुर दरौणिपुरॊगमाः ॥ 181 ॥
यत्रामुच्यन्त पार्थास ते पञ्च कृष्ण बलाश्रयात सात्यकिश च महेष्वासः शेषाश च निधनं गताः ॥ 182 ॥
दरौपदी पुत्रशॊकार्ता पितृभ्रातृवधार्दिता कृतानशन संकल्पा यत्र भर्तॄन उपाविशत ॥ 183 ॥
दरौपदी वचनाद यत्र भीमॊ भीमपराक्रमः अन्वधावत संक्रुद्धॊ भरद्वाजं गुरॊः सुतम ॥ 184 ॥
भीमसेन भयाद यत्र दैवेनाभिप्रचॊदितः अपाण्डवायेति रुषा दरौणिर अस्त्रम अवासृजत ॥ 185 ॥
मैवम इत्य अब्रवीत कृष्णः शमयंस तस्य तद वचः यत्रास्त्रम अस्त्रेण च तच छमयाम आस फाल्गुनः ॥ 186 ॥
दरौणिद्वैपायनादीनां शापाश चान्यॊन्य कारिताः तॊयकर्मणि सर्वेषां राज्ञाम उदकदानिके ॥ 187 ॥
गूढॊत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः सुतस्यैतद इह परॊक्तं दशमं पर्व सौप्तिकम ॥ 188 ॥
अष्टादशास्मिन्न अध्यायाः पर्वण्य उक्ता महात्मना शलॊकाग्रम अत्र कथितं शतान्य अष्टौ तथैव च ॥ 189 ॥
शलॊकाश च सप्ततिः परॊक्ता यथावद अभिसंख्यया सौप्तिकैषीक संबन्धे पर्वण्य अमितबुद्धिना ॥ 190 ॥
अत ऊर्ध्वम इदं पराहुः सत्री पर्व करुणॊदयम विलापॊ वीर पत्नीनां यत्रातिकरुणः समृतः करॊधावेशः परसादश च गान्धारी धृतराष्ट्रयॊः ॥ 191 ॥
यत्र तान कषत्रियाञ शूरान दिष्टान्तान अनिवर्तिनः पुत्रान भरातॄन पितॄंश चैव ददृशुर निहतान रणे ॥ 192 ॥
यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः राज्ञां तानि शरीराणि दाहयाम आस शास्त्रतः ॥ 193 ॥
एतद एकादशं परॊक्तं पर्वातिकरुणं महत सप्त विंशतिर अध्यायाः पर्वण्य अस्मिन्न उदाहृताः ॥ 194 ॥
शलॊकाः सप्तशतं चात्र पञ्च सप्ततिर उच्यते संखया भारताख्यानं कर्त्रा हय अत्र महात्मना परणीतं सज्जन मनॊ वैक्लव्याश्रु परवर्तकम ॥ 195 ॥
अतः परं शान्ति पर्व दवादशं बुद्धिवर्धनम यत्र निर्वेदम आपन्नॊ धर्मराजॊ युधिष्ठिरः घातयित्वा पितॄन भरातॄन पुत्रान संबन्धिबान्धवान ॥ 196 ॥
शान्ति पर्वणि धर्माश च वयाख्याताः शरतल्पिकाः राजभिर वेदितव्या ये सम्यङ नयबुभुत्सुभिः ॥ 197 ॥
आपद धर्माश च तत्रैव कालहेतु परदर्शकाः यान बुद्ध्वा पुरुषः सम्यक सर्वज्ञत्वम अवाप्नुयात मॊक्षधर्माश च कथिता विचित्रा बहुविस्तराः ॥ 198 ॥
दवादशं पर्व निर्दिष्टम एतत पराज्ञजनप्रियम पर्वण्य अत्र परिज्ञेयम अध्यायानां शतत्रयम तरिंशच चैव तथाध्याया नव चैव तपॊधनाः ॥ 199 ॥
शलॊकानां तु सहस्राणि कीर्तितानि चतुर्दश पञ्च चैव शतान्य आहुः पञ्चविंशतिसंख्यया ॥ 200 ॥
अत ऊर्ध्वं तु विज्ञेयम आनुशासनम उत्तमम यत्र परकृतिम आपन्नः शरुत्वा धर्मविनिश्चयम भीष्माद भागीरथी पुत्रात कुरुराजॊ युधिष्ठिरः ॥ 201 ॥
वयवहारॊ ऽतर कार्त्स्न्येन धर्मार्थीयॊ निदर्शितः विविधानां च दानानां फलयॊगाः पृथग्विधाः ॥ 202 ॥
तथा पात्रविशेषाश च दानानां च परॊ विधिः आचार विधियॊगश च सत्यस्य च परा गतिः ॥ 203 ॥
एतत सुबहु वृत्तान्तम उत्तमं चानुशासनम भीष्मस्यात्रैव संप्राप्तिः सवर्गस्य परिकीर्तिता ॥ 204 ॥
एतत तरयॊदशं पर्व धर्मनिश्चय कारकम अध्यायानां शतं चात्र षट चत्वारिंशद एव च शलॊकानां तु सहस्राणि षट सप्तैव शतानि च ॥ 205 ॥
तत आश्वमेधिकं नाम पर्व परॊक्तं चतुर्दशम तत संवर्तमरुत्तीयं यत्राख्यानम अनुत्तमम ॥ 206 ॥
सुवर्णकॊशसंप्राप्तिर जन्म चॊक्तं परिक्षितः दग्धस्यास्त्राग्निना पूर्वं कृष्णात संजीवनं पुनः ॥ 207 ॥
चर्यायां हयम उत्सृष्टं पाण्डवस्यानुगच्छतः तत्र तत्र च युद्धानि राजपुत्रैर अमर्षणैः ॥ 208 ॥
चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनंजयः संग्रामे बभ्रु वाहेन संशयं चात्र दर्शितः अश्वमेधे महायज्ञे नकुलाख्यानम एव च ॥ 209 ॥
इत्य आश्वमेधिकं पर्व परॊक्तम एतन महाद्भुतम अत्राध्याय शतं तरिंशत तरयॊ ऽधयायाश च शब्दिताः ॥ 210 ॥
तरीणि शलॊकसहस्राणि तावन्त्य एव शतानि च विंशतिश च तथा शलॊकाः संख्यातास तत्त्वदर्शिना ॥ 211 ॥
तत आश्रमवासाक्यं पर्व पञ्चदशं समृतम यत्र राज्यं परित्यज्य गान्धारी सहितॊ नृपः धृतराष्ट्राश्रमपदं विदुरश च जगाम ह ॥ 212 ॥
यं दृष्ट्वा परस्थितं साध्वी पृथाप्य अनुययौ तदा पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता ॥ 213 ॥
यत्र राजा हतान पुत्रान पौत्रान अन्यांश च पार्थिवान लॊकान्तर गतान वीरान अपश्यत पुनरागतान ॥ 214 ॥
ऋषेः परसादात कृष्णस्य दृष्ट्वाश्चर्यम अनुत्तमम तयक्त्वा शॊकं सदारश च सिद्धिं परमिकां गतः ॥ 215 ॥
यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः संजयश च महामात्रॊ विद्वान गावल्गणिर वशी ॥ 216 ॥
ददर्श नारदं यत्र धर्मराजॊ युधिष्ठिरः नारदाच चैव शुश्राव वृष्णीनां कदनं महत ॥ 217 ॥
एतद आश्रमवासाख्यं पूर्वॊक्तं सुमहाद्भुतम दविचत्वारिंशद अध्यायाः पर्वैतद अभिसंख्यया ॥ 218 ॥
सहस्रम एकं शलॊकानां पञ्च शलॊकशतानि च षड एव च तथा शलॊकाः संख्यातास तत्त्वदर्शिना ॥ 219 ॥
अतः परं निबॊधेदं मौसलं पर्व दारुणम यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्श सहा युधि बरह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः ॥ 220 ॥
आपाने पानगलिता दैवेनाभिप्रचॊदिताः एरका रूपिभिर वज्रैर निजघ्नुर इतरेतरम ॥ 221 ॥
यत्र सर्वक्षयं कृत्वा ताव उभौ राम केशवौ नातिचक्रमतुः कालं पराप्तं सर्वहरं समम ॥ 222 ॥
यत्रार्जुनॊ दवारवतीम एत्य वृष्णिविनाकृताम दृष्ट्वा विषादम अगमत परां चार्तिं नरर्षभः ॥ 223 ॥
स सत्कृत्य यदुश्रेष्ठं मातुलं शौरिम आत्मनः ददर्श यदुवीराणाम आपने वैशसं महत ॥ 224 ॥
शरीरं वासुदेवस्य रामस्य च महात्मनः संस्कारं लम्भयाम आस वृष्णीनां च परधानतः ॥ 225 ॥
स वृद्धबालम आदाय दवारवत्यास ततॊ जनम ददर्शापदि कष्टायां गाण्डीवस्य पराभवम ॥ 226 ॥
सर्वेषां चैव दिव्यानाम अस्त्राणाम अप्रसन्नताम नाशं वृष्णिकलत्राणां परभावानाम अनित्यताम ॥ 227 ॥
दृष्ट्वा निवेदम आपन्नॊ वयास वाक्यप्रचॊदितः धर्मराजं समासाद्य संन्यासं समरॊचयत ॥ 228 ॥
इत्य एतन मौसलं पर्व षॊडशं परिकीर्तितम अध्यायाष्टौ समाख्याताः शलॊकानां च शतत्रयम ॥ 229 ॥
महाप्रस्थानिकं तस्माद ऊर्ध्वं सप्त दशं समृतम यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः दरौपद्या सहिता देव्या सिद्धिं परमिकां गताः ॥ 230 ॥
अत्राध्यायास तरयः परॊक्ताः शलॊकानां च शतं तथा विंशतिश च तथा शलॊकाः संख्यातास तत्त्वदर्शिना ॥ 231 ॥
सवर्गपर्व ततॊ जञेयं दिव्यं यत तद अमानुषम अध्यायाः पञ्च संख्याता पर्वैतद अभिसंख्यया शलॊकानां दवे शते चैव परसंख्याते तपॊधनाः ॥ 232 ॥
अष्टादशैवम एतानि पर्वाण्य उक्तान्य अशेषतः खिलेषु हरिवंशश च भविष्यच च परकीर्तितम ॥ 233 ॥
एतद अखिलम आख्यातं भारतं पर्व संग्रहात अष्टादश समाजग्मुर अक्षौहिण्यॊ युयुत्सया तन महद दारुणं युद्धम अहान्य अष्टादशाभवत ॥ 234 ॥
यॊ विद्याच चतुरॊ वेदान साङ्गॊपनिषदान दविजः न चाख्यानम इदं विद्यान नैव स सयाद विचक्षणः ॥ 235 ॥
शरुत्वा तव इदम उपाख्यानं शराव्यम अन्यन न रॊचते पुंः कॊकिलरुतं शरुत्वा रूक्षा धवाङ्क्षस्य वाग इव ॥ 236 ॥
इतिहासॊत्तमाद अस्माज जायन्ते कवि बुद्धयः पञ्चभ्य इव भूतेभ्यॊ लॊकसंविधयस तरयः ॥ 237 ॥
अस्याख्यानस्य विषये पुराणं वर्तते दविजाः अन्तरिक्षस्य विषये परजा इव चतुर्विधाः ॥ 238 ॥
करिया गुणानां सर्वेषाम इदम आख्यानम आश्रयः इन्द्रियाणां समस्तानां चित्रा इव मनः करियाः ॥ 239 ॥
अनाश्रित्यैतद आख्यानं कथा भुवि न विद्यते आहारम अनपाश्रित्य शरीरस्येव धारणम ॥ 240 ॥
इदं सर्वैः कवि वरैर आख्यानम उपजीव्यते उदयप्रेप्सुभिर भृत्यैर अभिजात इवेश्वरः ॥ 241 ॥
दवैपायनौष्ठ पुटनिःसृतम अप्रमेयं; पुण्यं पवित्रम अथ पापहरं शिवं च यॊ भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्कर जलैर अभिषेचनेन ॥ 242 ॥
आख्यानं तद इदम अनुत्तमं महार्थं; विन्यस्तं महद इह पर्व संग्रहेण शरुत्वादौ भवति नृणां सुखावगाहं; विस्तीर्णं लवणजलं यथा पलवेन ॥ 243 ॥
आदिपर्व · Adi Parva
अध्याय 2
Reach this point to mark the section finished.
Continue to अध्याय 3