धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 1

  1. नारायणं नमस्कृत्य नरं चैव नरॊत्तमम देवीं सरस्वतीं चैव ततॊ जयम उदीरयेत ॥ 0 ॥

  2. लॊमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिकॊ नैमिषारण्ये शौनकस्य कुलपतेर दवादशवार्षिके सत्रे ॥ 1 ॥

  3. समासीनान अभ्यगच्छद बरह्मर्षीन संशितव्रतान विनयावनतॊ भूत्वा कदा चित सूतनन्दनः ॥ 2 ॥

  4. तम आश्रमम अनुप्राप्तं नैमिषारण्यवासिनः चित्राः शरॊतुं कथास तत्र परिवव्रुस तपस्विनः ॥ 3 ॥

  5. अभिवाद्य मुनींस तांस तु सर्वान एव कृताञ्जलिः अपृच्छत स तपॊवृद्धिं सद्भिश चैवाभिनन्दितः ॥ 4 ॥

  6. अथ तेषूपविष्टेषु सर्वेष्व एव तपस्विषु निर्दिष्टम आसनं भेजे विनयाल लॊमहर्षणिः ॥ 5 ॥

  7. सुखासीनं ततस तं तु विश्रान्तम उपलक्ष्य च अथापृच्छद ऋषिस तत्र कश चित परस्तावयन कथाः ॥ 6 ॥

  8. कृत आगम्यते सौते कव चायं विहृतस तवया कालः कमलपत्राक्ष शंसैतत पृच्छतॊ मम ॥ 7 ॥

  9. [सूत] जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः समीपे पार्थिवेन्द्रस्य सम्यक पारिक्षितस्य च ॥ 8 ॥

  10. कृष्णद्वैपायन परॊक्ताः सुपुण्या विविधाः कथाः कथिताश चापि विधिवद या वैशम्पायनेन वै ॥ 9 ॥

  11. शरुत्वाहं ता विचित्रार्था महाभारत संश्रिताः बहूनि संपरिक्रम्य तीर्थान्य आयतनानि च ॥ 10 ॥

  12. समन्तपञ्चकं नाम पुण्यं दविजनिषेवितम गतवान अस्मि तं देशं युद्धं यत्राभवत पुरा पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम ॥ 11 ॥

  13. दिदृक्षुर आगतस तस्मात समीपं भवताम इह आयुष्मन्तः सर्व एव बरह्मभूता हि मे मताः ॥ 12 ॥

  14. अस्मिन यज्ञे महाभागाः सूर्यपावक वर्चसः कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः भवन्त आसते सवस्था बरवीमि किम अहं दविजाः ॥ 13 ॥

  15. पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः इतिवृत्तं नरेन्द्राणाम ऋषीणां च महात्मनाम ॥ 14 ॥

  16. [रसयह] दवैपायनेन यत परॊक्तं पुराणं परमर्षिणा सुरैर बरह्मर्षिभिश चैव शरुत्वा यद अभिपूजितम ॥ 15 ॥

  17. तस्याख्यान वरिष्ठस्य विचित्रपदपर्वणः सूक्ष्मार्थ नयाययुक्तस्य वेदार्थैर भूषितस्य च ॥ 16 ॥

  18. भारतस्येतिहासस्य पुण्यां गरन्थार्थ संयुताम संस्कारॊपगतां बराह्मीं नानाशास्त्रॊपबृंहिताम ॥ 17 ॥

  19. जनमेजयस्य यां राज्ञॊ वैशम्पायन उक्तवान यथावत स ऋषिस तुष्ट्या सत्रे दवैपायनाज्ञया ॥ 18 ॥

  20. वेदैश चतुर्भिः समितां वयासस्याद्भुत कर्मणः संहितां शरॊतुम इच्छामॊ धर्म्यां पापभयापहाम ॥ 19 ॥

  21. [सूत] आद्यं पुरुषम ईशानं पुरुहूतं पुरु षटुतम ऋतम एकाक्षरं बरह्म वयक्ताव्यक्तं सनातनम ॥ 20 ॥

  22. असच च सच चैव च यद विश्वं सद असतः परम परावराणां सरष्टारं पुराणं परम अव्ययम ॥ 21 ॥

  23. मङ्गल्यं मङ्गलं विष्णुं वरेण्यम अनघं शुचिम नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम ॥ 22 ॥

  24. महर्षेः पूजितस्येह सर्वलॊके महात्मनः परवक्ष्यामि मतं कृत्स्नं वयासस्यामित तेजसः ॥ 23 ॥

  25. आचख्युः कवयः के चित संप्रत्याचक्षते परे आख्यास्यन्ति तथैवान्ये इतिहासम इमं भुवि ॥ 24 ॥

  26. इदं तु तरिषु लॊकेषु महज जञानं परतिष्ठितम विस्तरैश च समासैश च धार्यते यद दविजातिभिः ॥ 25 ॥

  27. अलंकृतं शुभैः शब्दैः समयैर दिव्यमानुषैः छन्दॊ वृत्तैश च विविधैर अन्वितं विदुषां परियम ॥ 26 ॥

  28. निष्प्रभे ऽसमिन निरालॊके सर्वतस तमसावृते बृहद अण्डम अभूद एकं परजानां बीजम अक्षयम ॥ 27 ॥

  29. युगस्यादौ निमित्तं तन महद दिव्यं परचक्षते यस्मिंस तच छरूयते सत्यं जयॊतिर बरह्म सनातनम ॥ 28 ॥

  30. अद्भुतं चाप्य अचिन्त्यं च सर्वत्र समतां गतम अव्यक्तं कारणं सूक्ष्मं यत तत सदसद आत्मकम ॥ 29 ॥

  31. यस्मात पितामहॊ जज्ञे परभुर एकः परजापतिः बरह्मा सुरगुरुः सथाणुर मनुः कः परमेष्ठ्य अथ ॥ 30 ॥

  32. पराचेतसस तथा दक्षॊ दष्क पुत्राश च सप्त ये ततः परजानां पतयः पराभवन्न एकविंशतिः ॥ 31 ॥

  33. पुरुषश चाप्रमेयात्मा यं सर्वम ऋषयॊ विदुः विश्वे देवास तथादित्या वसवॊ ऽथाश्विनाव अपि ॥ 32 ॥

  34. यक्षाः साध्याः पिशाचाश च गुह्यकाः पितरस तथा ततः परसूता विद्वांसः शिष्टा बरह्मर्षयॊ ऽमलाः ॥ 33 ॥

  35. राजर्षयश च बहवः सर्वैः समुदिता गुणैः आपॊ दयौः पृथिवी वायुर अन्तरिक्षं दिशस तथा ॥ 34 ॥

  36. संवत्सरर्तवॊ मासाः पक्षाहॊ रात्रयः करमात यच चान्यद अपि तत सर्वं संभूतं लॊकसाक्षिकम ॥ 35 ॥

  37. यद इदं दृश्यते किं चिद भूतं सथावरजङ्गमम पुनः संक्षिप्यते सर्वं जगत पराप्ते युगक्षये ॥ 36 ॥

  38. यथर्ताव ऋतुलिङ्गानि नानारूपाणि पर्यये दृश्यन्ते तानि तान्य एव तथा भावा युगादिषु ॥ 37 ॥

  39. एवम एतद अनाद्य अन्तं भूतसंहार कारकम अनादि निधनं लॊके चक्रं संपरिवर्तते ॥ 38 ॥

  40. तरयस तरिंशत सहस्राणि तरयस तरिंशच छतानि च तरयस तरिंशच च देवानां सृष्टिः संक्षेप लक्षणा ॥ 39 ॥

  41. दिवः पुत्रॊ बृहद भानुश चक्षुर आत्मा विभावसुः सविता च ऋचीकॊ ऽरकॊ भानुर आशा वहॊ रविः ॥ 40 ॥

  42. पुत्रा विवस्वतः सर्वे मह्यस तेषां तथावरः देव भराट तनयस तस्य तस्मात सुभ्राड इति समृतः ॥ 41 ॥

  43. सुभ्राजस तु तरयः पुत्राः परजावन्तॊ बहुश्रुताः दश जयॊतिः शतज्यॊतिः सहस्रज्यॊतिर आत्मवान ॥ 42 ॥

  44. दश पुत्रसहस्राणि दश जयॊतेर महात्मनः ततॊ दशगुणाश चान्ये शतज्यॊतेर इहात्मजाः ॥ 43 ॥

  45. भूयस ततॊ दशगुणाः सहस्रज्यॊतिषः सुताः तेभ्यॊ ऽयं कुरुवंशश च यदूनां भरतस्य च ॥ 44 ॥

  46. ययातीक्ष्वाकु वंशश च राजर्षीणां च सर्वशः संभूता बहवॊ वंशा भूतसर्गाः सविस्तराः ॥ 45 ॥

  47. भूतस्थानानि सर्वाणि रहस्यं विविधं च यत वेद यॊगं सविज्ञानं धर्मॊ ऽरथः काम एव च ॥ 46 ॥

  48. धर्मकामार्थ शास्त्राणि शास्त्राणि विविधानि च लॊकयात्रा विधानं च संभूतं दृष्टवान ऋषिः ॥ 47 ॥

  49. इतिहासाः सवैयाख्या विविधाः शरुतयॊ ऽपि च इह सर्वम अनुक्रान्तम उक्तं गरन्थस्य लक्षणम ॥ 48 ॥

  50. विस्तीर्यैतन महज जञानम ऋषिः संक्षेपम अब्रवीत इष्टं हि विदुषां लॊके समास वयास धारणम ॥ 49 ॥

  51. मन्वादि भारतं के चिद आस्तीकादि तथापरे तथॊपरिचराद्य अन्ये विप्राः सम्यग अधीयते ॥ 50 ॥

  52. विविधं संहिता जञानं दीपयन्ति मनीषिणः वयाख्यातुं कुशलाः के चिद गरन्थं धारयितुं परे ॥ 51 ॥

  53. तपसा बरह्मचर्येण वयस्य वेदं सनातनम इतिहासम इमं चक्रे पुण्यं सत्यवती सुतः ॥ 52 ॥

  54. पराशरात्मजॊ विद्वान बरह्मर्षिः संशितव्रतः मातुर नियॊगाद धर्मात्मा गाङ्गेयस्य च धीमतः ॥ 53 ॥

  55. कषेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा तरीन अग्नीन इव कौरव्याञ जनयाम आस वीर्यवान ॥ 54 ॥

  56. उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरम एव च जगाम तपसे धीमान पुनर एवाश्रमं परति ॥ 55 ॥

  57. तेषु जातेषु वृद्धेषु गतेषु परमां गतिम अब्रवीद भारतं लॊके मानुषे ऽसमिन महान ऋषिः ॥ 56 ॥

  58. जनमेजयेन पृष्टः सन बराह्मणैश च सहस्रशः शशास शिष्यम आसीनं वैशम्पायनम अन्तिके ॥ 57 ॥

  59. स सदस्यैः सहासीनः शरावयाम आस भारतम कर्मान्तरेषु यज्ञस्य चॊद्यमानः पुनः पुनः ॥ 58 ॥

  60. विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम कषत्तुः परज्ञां धृतिं कुन्त्याः सम्यग दवैपायनॊ ऽबरवीत ॥ 59 ॥

  61. वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम दुर्वृत्तं धार्तराष्ट्राणाम उक्तवान भगवान ऋषिः ॥ 60 ॥

  62. चतुर्विंशतिसाहस्रीं चक्रे भारत संहिताम उपाख्यानैर विना तावद भारतं परॊच्यते बुधैः ॥ 61 ॥

  63. ततॊ ऽधयर्धशतं भूयः संक्षेपं कृतवान ऋषिः अनुक्रमणिम अध्यायं वृत्तान्तानां सपर्वणाम ॥ 62 ॥

  64. इदं दवैपायनः पूर्वं पुत्रम अध्यापयच छुकम ततॊ ऽनयेभ्यॊ ऽनुरूपेभ्यः शिष्येभ्यः परददौ परभुः ॥ 63 ॥

  65. नारदॊ ऽशरावयद देवान असितॊ देवलः पितॄन गन्धर्वयक्षरक्षांसि शरावयाम आस वै शुकः ॥ 64 ॥

  66. दुर्यॊधनॊ मन्युमयॊ महाद्रुमः; सकन्धः कर्णः शकुनिस तस्य शाखाः दुःशासनः पुष्पफले समृद्धे; मूलं राजा धृतराष्ट्रॊ ऽमनीषी ॥ 65 ॥

  67. युधिष्ठिरॊ धर्ममयॊ महाद्रुमः; सकन्धॊ ऽरजुनॊ भीमसेनॊ ऽसय शाखाः माद्री सुतौ पुष्पफले समृद्धे; मूलं कृष्णॊ बरह्म च बराह्मणाश च ॥ 66 ॥

  68. पाण्डुर जित्वा बहून देशान युधा विक्रमणेन च अरण्ये मृगया शीलॊ नयवसत सजनस तदा ॥ 67 ॥

  69. मृगव्यवाय निधने कृच्छ्रां पराप स आपदम जन्मप्रभृति पार्थानां तत्राचार विधिक्रमः ॥ 68 ॥

  70. मात्रॊर अभ्युपपत्तिश च धर्मॊपनिषदं परति धर्मस्य वायॊः शक्रस्य देवयॊश च तथाश्विनॊः ॥ 69 ॥

  71. तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः मेध्यारण्येषु पुण्येषु महताम आश्रमेषु च ॥ 70 ॥

  72. ऋषिभिश च तदानीता धार्तराष्ट्रान परति सवयम शिशवश चाभिरूपाश च जटिला बरह्मचारिणः ॥ 71 ॥

  73. पुत्राश च भरातरश चेमे शिष्याश च सुहृदश च वः पाण्डवा एत इत्य उक्त्वा मुनयॊ ऽनतर्हितास ततः ॥ 72 ॥

  74. तांस तैर निवेदितान दृष्ट्वा पाण्डवान कौरवास तदा शिष्टाश च वर्णाः पौरा ये ते हर्षाच चुक्रुशुर भृशम ॥ 73 ॥

  75. आहुः के चिन न तस्यैते तस्यैत इति चापरे यदा चिरमृतः पाण्डुः कथं तस्येति चापरे ॥ 74 ॥

  76. सवागतं सर्वथा दिष्ट्या पाण्डॊः पश्याम संततिम उच्यतां सवागतम इति वाचॊ ऽशरूयन्त सर्वशः ॥ 75 ॥

  77. तस्मिन्न उपरते शब्दे दिशः सर्वा विनादयन अन्तर्हितानां भूतानां निस्वनस तुमुलॊ ऽभवत ॥ 76 ॥

  78. पुष्पवृष्टिं शुभा गन्धाः शङ्खदुन्दुभिनिस्वनाः आसन परवेशे पार्थानां तद अद्भुतम इवाभवत ॥ 77 ॥

  79. तत परीत्या चैव सर्वेषां पौराणां हर्षसंभवः शब्द आसीन महांस तत्र दिवस्पृक कीर्तिवर्धनः ॥ 78 ॥

  80. ते ऽपय अधीत्याखिलान वेदाञ शास्त्राणि विविधानि च नयवसन पाण्डवास तत्र पूजिता अकुतॊभयाः ॥ 79 ॥

  81. युधिष्ठिरस्य शौचेन परीताः परकृतयॊ ऽभवन धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च ॥ 80 ॥

  82. गुरुशुश्रूषया कुन्त्या यमयॊर विनयेन च तुतॊष लॊकः सकलस तेषां शौर्यगुणेन च ॥ 81 ॥

  83. समवाये ततॊ राज्ञां कन्यां भर्तृस्वयंवराम पराप्तवान अर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम ॥ 82 ॥

  84. ततः परभृति लॊके ऽसमिन पूज्यः सर्वधनुष्मताम आदित्य इव दुष्प्रेक्ष्यः समरेष्व अपि चाभवत ॥ 83 ॥

  85. स सर्वान पार्थिवाञ जित्वा सर्वांश च महतॊ गणान आजहारार्जुनॊ राज्ञे राजसूयं महाक्रतुम ॥ 84 ॥

  86. अन्नवान दक्षिणावांश च सर्वैः समुदितॊ गुणैः युधिष्ठिरेण संप्राप्तॊ राजसूयॊ महाक्रतुः ॥ 85 ॥

  87. सुनयाद वासुदेवस्य भीमार्जुनबलेन च घातयित्वा जरासंधं चैद्यं च बलगर्वितम ॥ 86 ॥

  88. दुर्यॊधनम उपागच्छन्न अर्हणानि ततस ततः मणिकाञ्चनरत्नानि गॊहस्त्यश्वधनानि च ॥ 87 ॥

  89. समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा शरियम ईर्ष्या समुत्थः सुमहांस तस्य मन्युर अजायत ॥ 88 ॥

  90. विमानप्रतिमां चापि मयेन सुकृतां सभाम पाण्डवानाम उपहृतां स दृष्ट्वा पर्यतप्यत ॥ 89 ॥

  91. यत्रावहसितश चासीत परस्कन्दन्न इव संभ्रमात परत्यक्षं वासुदेवस्य भीमेनानभिजातवत ॥ 90 ॥

  92. स भॊगान विविधान भुञ्जन रत्नानि विविधानि च कथितॊ धृतराष्ट्रस्य विवर्णॊ हरिणः कृशः ॥ 91 ॥

  93. अन्वजानाद अतॊ दयूतं धृतराष्ट्रः सुतप्रियः तच छरुत्वा वासुदेवस्य कॊपः समभवन महान ॥ 92 ॥

  94. नातिप्रीति मनाश चासीद विवादांश चान्वमॊदत दयूतादीन अनयान घॊरान परवृद्धांश चाप्य उपैक्षत ॥ 93 ॥

  95. निरस्य विदुरं दरॊणं भीष्मं शारद्वतं कृपम विग्रहे तुमुले तस्मिन्न अहन कषत्रं परस्परम ॥ 94 ॥

  96. जयत्सु पाण्डुपुत्रेषु शरुत्वा सुमहद अप्रियम दुर्यॊधन मतं जञात्वा कर्णस्य शकुनेस तथा धृतराष्ट्रश चिरं धयात्वा संजयं वाक्यम अब्रवीत ॥ 95 ॥

  97. शृणु संजय मे सर्वं न मे ऽसूयितुम अर्हसि शरुतवान असि मेधावी बुद्धिमान पराज्ञसंमतः ॥ 96 ॥

  98. न विग्रहे मम मतिर न च परीये कुरु कषये न मे विशेषः पुत्रेषु सवेषु पाण्डुसुतेषु च ॥ 97 ॥

  99. वृद्धं माम अभ्यसूयन्ति पुत्रा मन्युपरायणाः अहं तव अचक्षुः कार्पण्यात पुत्र परीत्या सहामि तत मुह्यन्तं चानुमुह्यामि दुर्यॊधनम अचेतनम ॥ 98 ॥

  100. राजसूये शरियं दृष्ट्वा पाण्डवस्य महौजसः तच चावहसनं पराप्य सभारॊहण दर्शने ॥ 99 ॥

  101. अमर्षितः सवयं जेतुम अशक्तः पाण्डवान रणे निरुत्साहश च संप्राप्तुं शरियम अक्षत्रियॊ यथा गान्धारराजसहितश छद्म दयूतम अमन्त्रयत ॥ 100 ॥

  102. तत्र यद यद यथा जञातं मया संजय तच छृणु शरुत्वा हि मम वाक्यानि बुद्ध्या युक्तानि तत्त्वतः ततॊ जञास्यसि मां सौते परज्ञा चक्षुषम इत्य उत ॥ 101 ॥

  103. यदाश्रौषं धनुर आयम्य चित्रं; विद्धं लक्ष्यं पातितं वै पृथिव्याम कृष्णां हृतां पश्यतां सर्वराज्ञां; तदा नाशंसे विजयाय संजय ॥ 102 ॥

  104. यदाश्रौषं दवारकायां सुभद्रां; परसह्यॊढां माधवीम अर्जुनेन इन्द्रप्रस्थं वृष्णिवीरौ च यातौ; तदा नाशंसे विजयाय संजय ॥ 103 ॥

  105. यदाश्रौषं देवराजं परवृष्टं; शरैर दिव्यैर वारितं चार्जुनेन अग्निं तथा तर्पितं खाण्डवे च; तदा नाशंसे विजयाय संजय ॥ 104 ॥

  106. यदाश्रौषं हृतराज्यं युधिष्ठिरं; पराजितं सौबलेनाक्षवत्याम अन्वागतं भरातृभिर अप्रमेयैस; तदा नाशंसे विजयाय संजय ॥ 105 ॥

  107. यदाश्रौषं दरौपदीम अश्रुकण्ठीं; सभां नीतां दुःखिताम एकवस्त्राम रजस्वलां नाथवतीम अनाथवत; तदा नाशंसे विजयाय संजय ॥ 106 ॥

  108. यदाश्रौषं विविधास तात चेष्टा; धर्मात्मनां परस्थितानां वनाय जयेष्ठप्रीत्या कलिश्यतां पाण्डवानां; तदा नाशंसे विजयाय संजय ॥ 107 ॥

  109. यदाश्रौषं सनातकानां सहस्रैर; अन्वागतं धर्मराजं वनस्थम भिक्षाभुजां बराह्मणानां महात्मनां; तदा नाशंसे विजयाय संजय ॥ 108 ॥

  110. यदाश्रौषम अर्जुनॊ देवदेवं; किरात रूपं तर्यम्बकं तॊष्य युद्धे अवाप तत पाशुपतं महास्त्रं; तदा नाशंसे विजयाय संजय ॥ 109 ॥

  111. यदाश्रौषं तरिदिवस्थं धनंजयं; शक्रात साक्षाद दिव्यम अस्त्रं यथावत अधीयानं शंसितं सत्यसंधं; तदा नाशंसे विजयाय संजय ॥ 110 ॥

  112. यदाश्रौषं वैश्रवणेन सार्धं; समागतं भीमम अन्यांश च पार्थान तस्मिन देशे मानुषाणाम अगम्ये; तदा नाशंसे विजयाय संजय ॥ 111 ॥

  113. यदाश्रौषं घॊषयात्रा गतानां; बन्धं गन्धर्वैर मॊक्षणं चार्जुनेन सवेषां सुतानां कर्ण बुद्धौ रतानां; तदा नाशंसे विजयाय संजय ॥ 112 ॥

  114. यदाश्रौषं यक्षरूपेण धर्मं; समागतं धर्मराजेन सूत परश्नान उक्तान विब्रुवन्तं च सम्यक; तदा नाशंसे विजयाय संजय ॥ 113 ॥

  115. यदाश्रौषं मामकानां वरिष्ठान; धनंजयेनैक रथेन भग्नान विराट राष्ट्रे वसता महात्मना; तदा नाशंसे विजयाय संजय ॥ 114 ॥

  116. यदाश्रौषं सत्कृतां मत्स्यराज्ञा; सुतां दत्ताम उत्तराम अर्जुनाय तां चार्जुनः परत्यगृह्णात सुतार्थे; तदा नाशंसे विजयाय संजय ॥ 115 ॥

  117. यदाश्रौषं निर्जितस्याधनस्य; परव्राजितस्य सवजनात परच्युतस्य अक्षौहिणीः सप्त युधिष्ठिरस्य; तदा नाशंसे विजयाय संजय ॥ 116 ॥

  118. यदाश्रौषं नरनारायणौ तौ; कृष्णार्जुनौ वदतॊ नारदस्य अहं दरष्टा बरह्मलॊके सदेति; तदा नाशंसे विजयाय संजय ॥ 117 ॥

  119. यदाश्रौषं माधवं वासुदेवं; सर्वात्मना पाण्डवार्थे निविष्टम यस्येमां गां विक्रमम एकम आहुस; तदा नाशंसे विजयाय संजय ॥ 118 ॥

  120. यदाश्रौषं कर्णदुर्यॊधनाभ्यां; बुद्धिं कृतां निग्रहे केशवस्य तं चात्मानं बहुधा दर्शयानं; तदा नाशंसे विजयाय संजय ॥ 119 ॥

  121. यदाश्रौषं वासुदेवे परयाते; रथस्यैकाम अग्रतस तिष्ठमानाम आर्तां पृथां सान्त्वितां केशवेन; तदा नाशंसे विजयाय संजय ॥ 120 ॥

  122. यदाश्रौषं मन्त्रिणं वासुदेवं; तथा भीष्मं शांतनवं च तेषाम भारद्वाजं चाशिषॊ ऽनुब्रुवाणं; तदा नाशंसे विजयाय संजय ॥ 121 ॥

  123. यदाश्रौषं कर्ण उवाच भीष्मं; नाहं यॊत्स्ये युध्यमाने तवयीति हित्वा सेनाम अपचक्राम चैव; तदा नाशंसे विजयाय संजय ॥ 122 ॥

  124. यदाश्रौषं वासुदेवार्जुनौ तौ; तथा धनुर गाण्डिवम अप्रमेयम तरीण्य उग्रवीर्याणि समागतानि; तदा नाशंसे विजयाय संजय ॥ 123 ॥

  125. यदाश्रौषं कश्मलेनाभिपन्ने; रथॊपस्थे सीदमाने ऽरजुने वै कृष्णं लॊकान दर्शयानं शरीरे; तदा नाशंसे विजयाय संजय ॥ 124 ॥

  126. यदाश्रौषं भीष्मम अमित्रकर्शनं; निघ्नन्तम आजाव अयुतं रथानाम नैषां कश चिद वध्यते दृश्यरूपस; तदा नाशंसे विजयाय संजय ॥ 125 ॥

  127. यदाश्रौषं भीष्मम अत्यन्तशूरं; हतं पार्थेनाहवेष्व अप्रधृष्यम शिखण्डिनं पुरतः सथापयित्वा; तदा नाशंसे विजयाय संजय ॥ 126 ॥

  128. यदाश्रौषं शरतल्पे शयानं; वृद्धं वीरं सादितं चित्रपुङ्खैः भीष्मं कृत्वा सॊमकान अल्पशेषांस; तदा नाशंसे विजयाय संजय ॥ 127 ॥

  129. यदाश्रौषं शांतनवे शयाने; पानीयार्थे चॊदितेनार्जुनेन भूमिं भित्त्वा तर्पितं तत्र भीष्मं; तदा नाशंसे विजयाय संजय ॥ 128 ॥

  130. यदाश्रौषं शुक्रसूर्यौ च युक्तौ; कौन्तेयानाम अनुलॊमौ जयाय नित्यं चास्माञ शवापदा वयाभषन्तस; तदा नाशंसे विजयाय संजय ॥ 129 ॥

  131. यदा दरॊणॊ विविधान अस्त्रमार्गान; विदर्शयन समरे चित्रयॊधी न पाण्डवाञ शरेष्ठतमान निहन्ति; तदा नाशंसे विजयाय संजय ॥ 130 ॥

  132. यदाश्रौषं चास्मदीयान महारथान; वयवस्थितान अर्जुनस्यान्तकाय संसप्तकान निहतान अर्जुनेन; तदा नाशंसे विजयाय संजय ॥ 131 ॥

  133. यदाश्रौषं वयूहम अभेद्यम अन्यैर; भारद्वाजेनात्त शस्त्रेण गुप्तम भित्त्वा सौभद्रं वीरम एकं परविष्टं; तदा नाशंसे विजयाय संजय ॥ 132 ॥

  134. यदाभिमन्युं परिवार्य बालं; सर्वे हत्वा हृष्टरूपा बभूवुः महारथाः पार्थम अशक्नुवन्तस; तदा नाशंसे विजयाय संजय ॥ 133 ॥

  135. यदाश्रौषम अभिमन्युं निहत्य; हर्षान मूढान करॊशतॊ धार्तराष्ट्रान करॊधं मुक्तं सैन्धवे चार्जुनेन; तदा नाशंसे विजयाय संजय ॥ 134 ॥

  136. यदाश्रौषं सैन्धवार्थे परतिज्ञां; परतिज्ञातां तद वधायार्जुनेन सत्यां निस्तीर्णां शत्रुमध्ये च; तेन तदा नाशंसे विजयाय संजय ॥ 135 ॥

  137. यदाश्रौषं शरान्तहये धनंजये; मुक्त्वा हयान पाययित्वॊपवृत्तान पुनर युक्त्वा वासुदेवं परयातं; तदा नाशंसे विजयाय संजय ॥ 136 ॥

  138. यदाश्रौषं वाहनेष्व आश्वसत्सु; रथॊपस्थे तिष्ठता गाण्डिवेन सर्वान यॊधान वारितान अर्जुनेन; तदा नाशंसे विजयाय संजय ॥ 137 ॥

  139. यदाश्रौषं नागबलैर दुरुत्सहं; दरॊणानीकं युयुधानं परमथ्य यातं वार्ष्णेयं यत्र तौ कृष्ण पार्थौ; तदा नाशंसे विजयाय संजय ॥ 138 ॥

  140. यदाश्रौषं कर्णम आसाद्य मुक्तं; वधाद भीमं कुत्सयित्वा वचॊभिः धनुष्कॊट्या तुद्य कर्णेन वीरं; तदा नाशंसे विजयाय संजय ॥ 139 ॥

  141. यदा दरॊणः कृतवर्मा कृपश च; कर्णॊ दरौणिर मद्रराजश च शूरः अमर्षयन सैन्धवं वध्यमानं; तदा नाशंसे विजयाय संजय ॥ 140 ॥

  142. यदाश्रौषं देवराजेन दत्तां; दिव्यां शक्तिं वयंसितां माधवेन घटॊत्कचे राक्षसे घॊररूपे; तदा नाशंसे विजयाय संजय ॥ 141 ॥

  143. यदाश्रौषं कर्ण घटॊत्कचाभ्यां; युद्धे मुक्तां सूतपुत्रेण शक्तिम यया वध्यः समरे सव्यसाची; तदा नाशंसे विजयाय संजय ॥ 142 ॥

  144. यदाश्रौषं दरॊणम आचार्यम एकं; धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम रथॊपस्थे परायगतं विशस्तं; तदा नाशंसे विजयाय संजय ॥ 143 ॥

  145. यदाश्रौषं दरौणिना दवैरथस्थं; माद्रीपुत्रं नकुलं लॊकमध्ये समं युद्धे पाण्डवं युध्यमानं; तदा नाशंसे विजयाय संजय ॥ 144 ॥

  146. यदा दरॊणे निहते दरॊणपुत्रॊ; नारायणं दिव्यम अस्त्रं विकुर्वन नैषाम अन्तं गतवान पाण्डवानां; तदा नाशंसे विजयाय संजय ॥ 145 ॥

  147. यदाश्रौषं कर्णम अत्यन्तशूरं; हतं पार्थेनाहवेष्व अप्रधृष्यम तस्मिन भरातॄणां विग्रहे देव गुह्ये; तदा नाशंसे विजयाय संजय ॥ 146 ॥

  148. यदाश्रौषं दरॊणपुत्रं कृपं च; दुःशासनं कृतवर्माणम उग्रम युधिष्ठिरं शून्यम अधर्षयन्तं; तदा नाशंसे विजयाय संजय ॥ 147 ॥

  149. यदाश्रौषं निहतं मद्रराजं; रणे शूरं धर्मराजेन सूत सदा संग्रामे सपर्धते यः स कृष्णं; तदा नाशंसे विजयाय संजय ॥ 148 ॥

  150. यदाश्रौषं कलहद्यूतमूलं; मायाबलं सौबलं पाण्डवेन हतं संग्रामे सहदेवेन पापं; तदा नाशंसे विजयाय संजय ॥ 149 ॥

  151. यदाश्रौषं शरान्तम एकं शयानं; हरदं गत्वा सतम्भयित्वा तद अम्भः दुर्यॊधनं विरथं भग्नदर्पं; तदा नाशंसे विजयाय संजय ॥ 150 ॥

  152. यदाश्रौषं पाण्डवांस तिष्ठमानान; गङ्गा हरदे वासुदेवेन सार्धम अमर्षणं धर्षयतः सुतं मे; तदा नाशंसे विजयाय संजय ॥ 151 ॥

  153. यदाश्रौषं विविधांस तात मार्गान; गदायुद्धे मण्डलं संचरन्तम मिथ्या हतं वासुदेवस्य बुद्ध्या; तदा नाशंसे विजयाय संजय ॥ 152 ॥

  154. यदाश्रौषं दरॊणपुत्रादिभिस तैर; हतान पाञ्चालान दरौपदेयांश च सुप्तान कृतं बीभत्समय शस्यं च कर्म; तदा नाशंसे विजयाय संजय ॥ 153 ॥

  155. यदाश्रौषं भीमसेनानुयातेन; अश्वत्थाम्ना परमास्त्रं परयुक्तम करुद्धेनैषीकम अवधीद येन गर्भं; तदा नाशंसे विजयाय संजय ॥ 154 ॥

  156. यदाश्रौषं बरह्मशिरॊ ऽरजुनेन मुक्तं; सवस्तीत्य अस्त्रम अस्त्रेण शान्तम अश्वत्थाम्ना मणिरत्नं च दत्तं; तदा नाशंसे विजयाय संजय ॥ 155 ॥

  157. यदाश्रौषं दरॊणपुत्रेण गर्भे; वैराट्या वै पात्यमाने महास्त्रे दवैपायनः केशवॊ दरॊणपुत्रं; परस्परेणाभिशापैः शशाप ॥ 156 ॥

  158. शॊच्या गान्धारी पुत्रपौत्रैर विहीना; तथा वध्वः पितृभिर भरातृभिश च कृतं कार्यं दुष्करं पाण्डवेयैः; पराप्तं राज्यम असपत्नं पुनस तैः ॥ 157 ॥

  159. कष्टं युद्धे दश शेषाः शरुता मे; तरयॊ ऽसमाकं पाण्डवानां च सप्त दव्यूना विंशतिर आहताक्षौहिणीनां; तस्मिन संग्रामे विग्रहे कषत्रियाणाम ॥ 158 ॥

  160. तमसा तव अभ्यवस्तीर्णॊ मॊह आविशतीव माम संज्ञां नॊपलभे सूत मनॊ विह्वलतीव मे ॥ 159 ॥

  161. इत्य उक्त्वा धृतराष्ट्रॊ ऽथ विलप्य बहुदुःखितः मूर्च्छितः पुनर आश्वस्तः संजयं वाक्यम अब्रवीत ॥ 160 ॥

  162. संजयैवं गते पराणांस तयक्तुम इच्छामि माचिरम सतॊकं हय अपि न पश्यामि फलं जीवितधारणे ॥ 161 ॥

  163. तं तथा वादिनं दीनं विलपन्तं महीपतिम गावल्गणिर इदं धीमान महार्थं वाक्यम अब्रवीत ॥ 162 ॥

  164. शरुतवान असि वै राज्ञॊ महॊत्साहान महाबलान दवैपायनस्य वदतॊ नारदस्य च धीमतः ॥ 163 ॥

  165. महत्सु राजवंशेषु गुणैः समुदितेषु च जातान दिव्यास्त्रविदुषः शक्र परतिमतेजसः ॥ 164 ॥

  166. धर्मेण पृथिवीं जित्वा यज्ञैर इष्ट्वाप्त दक्षिणैः अस्मिँल लॊके यशः पराप्य ततः कालवशं गताः ॥ 165 ॥

  167. वैन्यं महारथं वीरं सृञ्जयं जयतां वरम सुहॊत्रं रन्ति देवं च कक्षीवन्तं तथौशिजम ॥ 166 ॥

  168. बाह्लीकं दमनं शैब्यं शर्यातिम अजितं जितम विश्वामित्रम अमित्रघ्नम अम्बरीषं महाबलम ॥ 167 ॥

  169. मरुत्तं मनुम इक्ष्वाकुं गयं भरतम एव च रामं दाशरथिं चैव शशबिन्दुं भगीरथम ॥ 168 ॥

  170. ययातिं शुभकर्माणं देवैर यॊ याजितः सवयम चैत्ययूपाङ्किता भूमिर यस्येयं सवनाकरा ॥ 169 ॥

  171. इति राज्ञां चतुर्विंशन नारदेन सुरर्षिणा पुत्रशॊकाभितप्ताय पुरा शैब्याय कीर्तिताः ॥ 170 ॥

  172. तेभ्यश चान्ये गताः पूर्वं राजानॊ बलवत्तराः महारथा महात्मानः सर्वैः समुदिता गुणैः ॥ 171 ॥

  173. पूरुः कुरुर यदुः शूरॊ विष्वग अश्वॊ महाधृतिः अनेना युवनाश्वश च ककुत्स्थॊ विक्रमी रघुः ॥ 172 ॥

  174. विजिती वीति हॊत्रश च भवः शवेतॊ बृहद गुरुः उशीनरः शतरथः कङ्कॊ दुलिदुहॊ दरुमः ॥ 173 ॥

  175. दम्भॊद्भवः परॊ वेनः सगरः संकृतिर निमिः अजेयः परशुः पुण्ड्रः शम्भुर देवावृधॊ ऽनघः ॥ 174 ॥

  176. देवाह्वयः सुप्रतिमः सुप्रतीकॊ बृहद्रथः महॊत्साहॊ विनीतात्मा सुक्रतुर नैषधॊ नलः ॥ 175 ॥

  177. सत्यव्रतः शान्तभयः सुमित्रः सुबलः परभुः जानु जङ्घॊ ऽनरण्यॊ ऽरकः परिय भृत्यः शुभव्रतः ॥ 176 ॥

  178. बलबन्धुर निरामर्दः केतुशृङ्गॊ बृहद्बलः धृष्टकेतुर बृहत केतुर दीप्तकेतुर निरामयः ॥ 177 ॥

  179. अविक्षित परबलॊ धूर्तः कृतबन्धुर दृढेषुधिः महापुराणः संभाव्यः परत्यङ्गः परहा शरुतिः ॥ 178 ॥

  180. एते चान्ये च बहवः शतशॊ ऽथ सहस्रशः शरूयन्ते ऽयुतशश चान्ये संख्याताश चापि पद्मशः ॥ 179 ॥

  181. हित्वा सुविपुलान भॊगान बुद्धिमन्तॊ महाबलाः राजानॊ निधनं पराप्तास तव पुत्रैर महत्तमाः ॥ 180 ॥

  182. येषां दिव्यानि कर्माणि विक्रमस तयाग एव च माहात्म्यम अपि चास्तिक्यं सत्यता शौचम आर्जवम ॥ 181 ॥

  183. विद्वद्भिः कथ्यते लॊके पुराणैः कवि सत्तमैः सर्वर्द्धि गुणसंपन्नास ते चापि निधनं गताः ॥ 182 ॥

  184. तव पुत्रा दुरात्मानः परतप्ताश चैव मन्युना लुब्धा दुर्वृत्त भूयिष्ठा न ताञ शॊचितुम अर्हसि ॥ 183 ॥

  185. शरुतवान असि मेधावी बुद्धिमान पराज्ञसंमतः येषां शास्त्रानुगा बुद्धिर न ते मुह्यन्ति भारत ॥ 184 ॥

  186. निग्रहानुग्रहौ चापि विदितौ ते नराधिप नात्यन्तम एवानुवृत्तिः शरूयते पुत्र रक्षणे ॥ 185 ॥

  187. भवितव्यं तथा तच च नातः शॊचितुम अर्हसि दैवं परज्ञा विशेषेण कॊ निवर्तितुम अर्हति ॥ 186 ॥

  188. विधातृविहितं मार्गं न कश चिद अतिवर्तते कालमूलम इदं सर्वं भावाभावौ सुखासुखे ॥ 187 ॥

  189. कालः पचति भूतानि कालः संहरति परजाः निर्दहन्तं परजाः कालं कालः शमयते पुनः ॥ 188 ॥

  190. कालॊ विकुरुते भावान सर्वाँल लॊके शुभाशुभान कालः संक्षिपते सर्वाः परजा विसृजते पुनः कालः सर्वेषु भूतेषु चरत्य अविधृतः समः ॥ 189 ॥

  191. अतीतानागता भावा ये च वर्तन्ति सांप्रतम तान कालनिर्मितान बुद्ध्वा न संज्ञां हातुम अर्हसि ॥ 190 ॥

  192. [स] अत्रॊपनिषदं पुण्यां कृष्णद्वैपायनॊ ऽबरवीत भारताध्ययनात पुण्याद अपि पादम अधीयतः शरद्दधानस्य पूयन्ते सर्वपापान्य अशेषतः ॥ 191 ॥

  193. देवर्षयॊ हय अत्र पुण्या बरह्म राजर्षयस तथा कीर्त्यन्ते शुभकर्माणस तथा यक्षमहॊरगाः ॥ 192 ॥

  194. भगवान वासुदेवश च कीर्त्यते ऽतर सनातनः स हि सत्यम ऋतं चैव पवित्रं पुण्यम एव च ॥ 193 ॥

  195. शाश्वतं बरह्म परमं धरुवं जयॊतिः सनातनम यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः ॥ 194 ॥

  196. असत सत सद असच चैव यस्माद देवात परवर्तते संततिश च परवृत्तिश च जन्ममृत्युः पुनर्भवः ॥ 195 ॥

  197. अध्यात्मं शरूयते यच च पञ्च भूतगुणात्मकम अव्यक्तादि परं यच च स एव परिगीयते ॥ 196 ॥

  198. यत तद यति वरा युक्ता धयानयॊगबलान्विताः परतिबिम्बम इवादर्शे पश्यन्त्य आत्मन्य अवस्थितम ॥ 197 ॥

  199. शरद्दधानः सदॊद्युक्तः सत्यधर्मपरायणः आसेवन्न इमम अध्यायं नरः पापात परमुच्यते ॥ 198 ॥

  200. अनुक्रमणिम अध्यायं भारतस्येमम आदितः आस्तिकः सततं शृण्वन न कृच्छ्रेष्व अवसीदति ॥ 199 ॥

  201. उभे संध्ये जपन किं चित सद्यॊ मुच्येत किल्बिषात अनुक्रमण्या यावत सयाद अह्ना रात्र्या च संचितम ॥ 200 ॥

  202. भारतस्य वपुर हय एतत सत्यं चामृतम एव च नव नीतं यथा दध्नॊ दविपदां बराह्मणॊ यथा ॥ 201 ॥

  203. हरदानाम उदधिः शरेष्ठॊ गौर वरिष्ठा चतुष्पदाम यथैतानि वरिष्ठानि तथा भरतम उच्यते ॥ 202 ॥

  204. यश चैनं शरावयेच छराद्धे बराह्मणान पादम अन्ततः अक्षय्यम अन्नपानं तत पितॄंस तस्यॊपतिष्ठति ॥ 203 ॥

  205. इतिहास पुराणाभ्यां वेदं समुपबृंहयेत बिभेत्य अल्पश्रुताद वेदॊ माम अयं परतरिष्यति ॥ 204 ॥

  206. कार्ष्णं वेदम इमं विद्वाञ शरावयित्वार्थम अश्नुते भरूण हत्या कृतं चापि पापं जह्यान न संशयः ॥ 205 ॥

  207. य इमं शुचिर अध्यायं पठेत पर्वणि पर्वणि अधीतं भारतं तेन कृत्स्नं सयाद इति मे मतिः ॥ 206 ॥

  208. यश चेमं शृणुयान नित्यम आर्षं शरद्धासमन्वितः स दीर्घम आयुः कीर्तिं च सवर्गतिं चाप्नुयान नरः ॥ 207 ॥

  209. चत्वार एकतॊ वेदा भारतं चैकम एकतः समागतैः सुरर्षिभिस तुलाम आरॊपितं पुरा महत्त्वे च गुरुत्वे च धरियमाणं ततॊ ऽधिकम ॥ 208 ॥

  210. महत्त्वाद भारवत्त्वाच च महाभारतम उच्यते निरुक्तम अस्य यॊ वेद सर्वपापैः परमुच्यते ॥ 209 ॥

  211. तपॊ न कल्कॊ ऽधययनं न कल्कः; सवाभाविकॊ वेद विधिर न कल्कः परसह्य वित्ताहरणं न कल्कस; तान्य एव भावॊपहतानि कल्कः ॥ 210 ॥

Reach this point to mark the section finished.

Continue to अध्याय 2