धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 190

  1. [दरुपद] अश्रुत्वैवं वचनं ते महर्षे; मया पूर्वं यातितं कार्यम एतत न वै शक्यं विहितस्यापयातुं; तद एवेदम उपपन्नं विधानम ॥ 1 ॥

  2. दिष्टस्य गरन्थिर अनिवर्तनीयः; सवकर्मणा विहितं नेह किं चित कृतं निमित्तं हि वरैक हेतॊस; तद एवेदम उपपन्नं बहूनाम ॥ 2 ॥

  3. यथैव कृष्णॊक्तवती पुरस्तान; नैकान पतीन मे भगवान ददातु स चाप्य एवं वरम इत्य अब्रवीत तां; देवॊ हि वेद परमं यद अत्र ॥ 3 ॥

  4. यदि वायं विहितः शंकरेण; धर्मॊ ऽधर्मॊ वा नात्र ममापराधः गृह्णन्त्व इमे विधिवत पाणिम अस्या; यथॊपजॊषं विहितैषां हि कृष्णा ॥ 4 ॥

  5. [वै] ततॊ ऽबरवीद भगवान धर्मराजम; अद्य पुण्याहम उत पाण्डवेय अद्य पौष्यं यॊगम उपैति चन्द्रमाः; पाणिं कृष्णायास तवं गृहाणाद्य पूर्वम ॥ 5 ॥

  6. ततॊ राजॊ यज्ञसेनः सपुत्रॊ; जन्यार्थ युक्तं बहु तत तदग्र्यम समानयाम आस सुतां च कृष्णाम; आप्लाव्य रत्नैर बहुभिर विभूष्य ॥ 6 ॥

  7. ततः सर्वे सुहृदस तत्र तस्य; समाजग्मुः सचिवा मन्त्रिणश च दरष्टुं विवाहं परमप्रतीता; दविजाश च पौराश च यथा परधानाः ॥ 7 ॥

  8. तत तस्य वेश्मार्थि जनॊपशॊभितं; विकीर्णपद्मॊत्पलभूषिताजिरम महार्हरत्नौघविचित्रम आबभौ; दिवं यथा निर्मलतारकाचितम ॥ 8 ॥

  9. ततस तु ते कौरवराजपुत्रा; विभूषिताः कुण्डलिनॊ युवानः महार्हवस्त्रा वरचन्दनॊक्षिताः; कृताभिषेकाः कृतमङ्गल करियाः ॥ 9 ॥

  10. पुरॊहितेनाग्निसमानवर्चसा; सहैव धौम्येन यथाविधि परभॊ करमेण सर्वे विविशुश च तत सदॊ; महर्षभा गॊष्ठम इवाभिनन्दिनः ॥ 10 ॥

  11. ततः समाधाय स वेदपारगॊ; जुहाव मन्त्रैर जवलितं हुताशनम युधिष्ठिरं चाप्य उपनीय मन्त्रविन; नियॊजयाम आस सहैव कृष्णया ॥ 11 ॥

  12. परदक्षिणं तौ परगृहीतपाणी; समानयाम आस स वेदपारगः ततॊ ऽभयनुज्ञाय तम आजिशॊभिनं; पुरॊहितॊ राजगृहाद विनिर्ययौ ॥ 12 ॥

  13. करमेण चानेन नराधिपात्मजा; वरस्त्रियास ते जगृहुस तदा करम अहन्य अहन्य उत्तमरूपधारिणॊ; महारथाः कौरववंशवर्धनाः ॥ 13 ॥

  14. इदं च तत्राद्भुत रूपम उत्तमं; जगाद विप्रर्षिर अतीतमानुषम महानुभावा किल सा सुमध्यमा; बभूव कन्यैव गते गते ऽहनि ॥ 14 ॥

  15. कृते विवाहे दरुपदॊ धनं ददौ; महारथेभ्यॊ बहुरूपम उत्तमम शतं रथानां वरहेमभूषिणां; चतुर्युजां हेमखलीन मालिनाम ॥ 15 ॥

  16. शतं गजानाम अभिपद्मिनीं तथा; शतं गिरीणाम इव हेमशृङ्गिणाम तथैव दासी शतम अग्र्ययौवनं; महार्हवेषाभरणाम्बर सरजम ॥ 16 ॥

  17. पृथक पृथक चैव दशायुतान्वितं; धनं ददौ सौमकिर अग्निसाक्षिकम तथैव वस्त्राणि च भूषणानि; परभावयुक्तानि महाधनानि ॥ 17 ॥

  18. कृते विवाहे च ततः सम पाण्डवाः; परभूतरत्नाम उपलभ्य तां शरियम विजह्रुर इन्द्र परतिमा महाबलाः; पुरे तु पाञ्चाल नृपस्य तस्य ह ॥ 18 ॥

Reach this point to mark the section finished.

Continue to अध्याय 191

Previous: अध्याय 189