[वयास] पुरा वै नैमिषारण्ये देवाः सत्रम उपासते तत्र वैवस्वतॊ राजञ शामित्रम अकरॊत तदा ॥ 1 ॥
ततॊ यमॊ दीक्षितस तत्र राजन; नामारयत किं चिद अपि परजाभ्यः ततः परजास ता बहुला बभूवुः; कालातिपातान मरणात परहीणाः ॥ 2 ॥
ततस तु शक्रॊ वरुणः कुबेरः; साध्या रुद्रा वसवश चाश्विनौ च परणेतारं भुवनस्य परजापतिं; समाजग्मुस तत्र देवास तथान्ये ॥ 3 ॥
ततॊ ऽबरुवँल लॊकगुरुं समेता; भयं नस तीव्रं मानुषाणां विवृद्ध्या तस्माद भयाद उद्विजन्तः सुखेप्सवः; परयाम सर्वे शरणं भवन्तम ॥ 4 ॥
[बरह्मा] किं वॊ भयं मानुषेभ्यॊ यूयं सर्वे यदामराः मा वॊ मर्त्यसकाशाद वै भयं भवतु कर्हि चित ॥ 5 ॥
[देवाह] मर्त्या हय अमर्त्याः संवृत्ता न विशेषॊ ऽसति कश चन अविशेषाद उद्विजन्तॊ विशेषार्थम इहागताः ॥ 6 ॥
[बरह्मा] वैवस्वतॊ वयापृतः सत्र हेतॊस; तेन तव इमे न मरियन्ते मनुष्याः तस्मिन्न एकाग्रे कृतसर्वकार्ये; तत एषां भवितैवान्त कालः ॥ 7 ॥
वैवस्वतस्यापि तनुर विभूता; वीर्येण युष्माकम उत परयुक्ता सैषाम अन्तॊ भविता हय अन्तकाले; तनुर हि वीर्यं भविता नरेषु ॥ 8 ॥
[वयास] ततस तु ते पूर्वज देववाक्यं; शरुत्वा देवा यत्र देवा यजन्ते समासीनास ते समेता महाबला; भागी रथ्यां ददृशुः पुण्डरीकम ॥ 9 ॥
दृष्ट्वा च तद विस्मितास ते बभूवुस; तेषाम इन्द्रस तत्र शूरॊ जगाम सॊ ऽपश्यद यॊषाम अथ पावकप्रभां; यत्र गङ्गा सततं संप्रसूता ॥ 10 ॥
सा तत्र यॊषा रुदती जलार्थिनी; गङ्गां देवीं वयवगाह्यावतिष्ठत तस्याश्रु बिन्दुः पतितॊ जले वै; तत पद्मम आसीद अथ तत्र काञ्चनम ॥ 11 ॥
तद अद्भुतं परेक्ष्य वज्री तदानीम; अपृच्छत तां यॊषितम अन्तिकाद वै का तवं कथं रॊदिषि कस्य हेतॊर; वाक्यं तथ्यं कामयेह बरवीहि ॥ 12 ॥
[सत्री] तवं वेत्स्यसे माम इह यास्मि शक्र; यदर्थं चाहं रॊदिमि मन्दभाग्या आगच्छ राजन पुरतॊ ऽहं गमिष्ये; दरष्टासि तद रॊदिमि यत्कृते ऽहम ॥ 13 ॥
[वयास] तां गच्छन्तीम अन्वगच्छत तदानीं; सॊ ऽपश्यद आरात तरुणं दर्शनीयम सिंहासनस्थं युवती सहायं करीडन्तम; अक्षैर गिरिराजमूर्ध्नि ॥ 14 ॥
तम अब्रवीद देवराजॊ ममेदं; तवं विद्धि विश्वं भुवनं वशे सथितम ईशॊ ऽहम अस्मीति समन्युर अब्रवीद; दृष्ट्वा तम अक्षैः सुभृशं परमत्तम ॥ 15 ॥
करुद्धं तु शक्रं परसमीक्ष्य देवॊ; जहास शक्रं च शनैर उदैक्षत संस्तम्भितॊ ऽभूद अथ देवराजस; तेनॊक्षितः सथाणुर इवावतस्थे ॥ 16 ॥
यदा तु पर्याप्तम इहास्य करीडया; तदा देवीं रुदतीं ताम उवाच आनीयताम एष यतॊ ऽहम आरान; मैनं दर्पः पुनर अप्य आविशेत ॥ 17 ॥
ततः शक्रः सपृष्टमात्रस तया तु; सरस्तैर अङ्गैः पतितॊ ऽभूद धरण्याम तम अब्रवीद भगवान उग्रतेजा; मैवं पुनः शक्र कृथाः कथं चित ॥ 18 ॥
विवर्तयैनं च महाद्रिराजं; बलं च वीर्यं च तवाप्रमेयम विवृत्य चैवाविश मध्यम अस्य; यत्रासते तवद्विधाः सूर्यभासः ॥ 19 ॥
स तद विवृत्य शिखरं महागिरेस; तुल्यद्युतींश चतुरॊ ऽनयान ददर्श स तान अभिप्रेक्ष्य बभूव दुःखितः; कच चिन नाहं भविता वै यथेमे ॥ 20 ॥
ततॊ देवॊ गिरिशॊ वज्रपाणिं; विवृत्य नेत्रे कुपितॊ ऽभयुवाच दरीम एतां परविश तवं शतक्रतॊ; यन मां बाल्याद अवमंस्थाः पुरस्तात ॥ 21 ॥
उक्तस तव एवं विभुना देवराजः; परवेपमानॊ भृशम एवाभिषङ्गात सरस्तैर अङ्गैर अनिलेनेव नुन्नम; अश्वत्थ पात्रं गिरिराजमूर्ध्नि ॥ 22 ॥
स पराञ्जलिर विनतेनाननेन; परवेपमानः सहसैवम उक्तः उवाच चेदं बहुरूपम उग्रं; दरष्टा शेषस्य भगवंस तवं भवाद्य ॥ 23 ॥
तम अब्रवीद उग्रधन्वा परहस्य; नैवं शीलाः शेषम इहाप्नुवन्ति एते ऽपय एवं भवितारः पुरस्तात; तस्माद एतां दरिम आविश्य शेध्वम ॥ 24 ॥
शेषॊ ऽपय एवं भविता नॊ न संशयॊ; यॊनिं सर्वे मानुषीम आविशध्वम तत्र यूयं कर्मकृत्वाविषह्यं; बहून अन्यान निधनं परापयित्वा ॥ 25 ॥
आगन्तारः पुनर एवेन्द्र लॊकं; सवकर्मणा पूर्वजितं महार्हम सर्वं मया भाषितम एतद एवं; कर्तव्यम अन्यद विविधार्थवच च ॥ 26 ॥
[पूर्वैन्द्राह] गमिष्यामॊ मानुषं देवलॊकाद; दुराधरॊ विहितॊ यत्र मॊक्षः देवास तव अस्मान आदधीरञ जनन्यां; धर्मॊ वायुर मघवान अश्विनौ च ॥ 27 ॥
[वयास] एतच छरुत्वा वज्रपाणिर वचस तु; देव शरेष्ठं पुनर एवेदम आह वीर्येणाहं पुरुषं कार्यहेतॊर; दद्याम एषां पञ्चमं मत्प्रसूतम ॥ 28 ॥
तेषां कामं भगवान उग्रधन्वा; परादाद इष्टं सन्निसर्गाद यथॊक्तम तां चाप्य एषां यॊषितं लॊककान्तां; शरियं भार्यां वयदधान मानुषेषु ॥ 29 ॥
तैर एव सार्धं तु ततः स देवॊ; जगाम नारायणम अप्रमेयम स चापि तद वयदधात सर्वम एव; ततः सर्वे संबभूवुर धरण्याम ॥ 30 ॥
स चापि केशौ हरिर उद्बबर्ह; शुक्लम एकम अपरं चापि कृष्णम तौ चापि केशौ विशतां यदूनां; कुले सथिरौ रॊहिणीं देवकीं च तयॊर एकॊ बलदेवॊ बभूव; कृष्णॊ दवितीयः केशवः संबभूव ॥ 31 ॥
ये ते पूर्वं शक्र रूपा निरुद्धास; तस्यां दर्यां पर्वतस्यॊत्तरस्य इहैव ते पाण्डवा वीर्यवन्तः; शक्रस्यांशः पाण्डवः सव्यसाची ॥ 32 ॥
एवम एते पाण्डवाः संबभूवुर; ये ते राजन पूर्वम इन्द्रा बभूवुः लक्ष्मीश चैषां पूर्वम एवॊपदिष्टा; भार्यां यैषा दरौपदी दिव्यरूपा ॥ 33 ॥
कथं हि सत्री कर्मणॊ ऽनते महीतलात; समुत्थिष्ठेद अन्यतॊ दैवयॊगात यस्या रूपं सॊमसूर्यप्रकाशं; गन्धश चाग्र्यः करॊशमात्रात परवाति ॥ 34 ॥
इदं चान्यत परीतिपूर्वं नरेन्द्र; ददामि ते वरम अत्यद्भुतं च दिव्यं चक्षुः पश्य कुन्तीसुतांस तवं; पुण्यैर दिव्यैः पूर्वदेहैर उपेतान ॥ 35 ॥
[वै] ततॊ वयासः परमॊदारकर्मा; शुचिर विप्रस तपसा तस्य राज्ञः चक्रुर दिव्यं परददौ तान स सर्वान; राजापश्यत पूर्वदेहैर यथावत ॥ 36 ॥
ततॊ दिव्यान हेमकिरीट मालिनः; शक्र परख्यान पावकादित्यवर्णान बद्धापीढांश चारुरूपांश च यूनॊ; वयूढॊरस्कांस तालमात्रान ददर्श ॥ 37 ॥
दिव्यैर वस्त्रैर अरजॊभिः सुवर्णैर; माल्यैश चाग्र्यैः शॊभमानान अतीव साक्षात तर्यक्षान वसवॊ वाथ दिव्यान; आदित्यान वा सर्वगुणॊपपन्नान तान पूर्वेन्द्रान एवम ईक्ष्याभिरूपान; परीतॊ राजा दरुपदॊ विस्मितश च ॥ 38 ॥
दिव्यां मायां ताम अवाप्याप्रमेयां; तां चैवाग्र्यां शरियम इव रूपिणीं च यॊग्यां तेषां रूपतेजॊ यशॊभिः; पत्नीम ऋद्धां दृष्टवान पार्थिवेन्द्रः ॥ 39 ॥
स तद दृष्ट्वा महद आश्चर्यरूपं; जग्राह पादौ सत्यवत्याः सुतस्य नैतच चित्रं परमर्षे तवयीति; परसन्नचेताः स उवाच चैनम ॥ 40 ॥
[वयास] आसीत तपॊवने का चिद ऋषेः कन्या महात्मनः नाध्यगच्छत पतिं सा तु कन्या रूपवती सती ॥ 41 ॥
तॊषयाम आस तपसा सा किलॊग्रेण शंकरम ताम उवाचेश्वरः परीतॊ वृणु कामम इति सवयम ॥ 42 ॥
सैवम उक्ताब्रवीत कन्या देवं वरदम ईश्वरम पतिं सर्वगुणॊपेतम इच्छामीति पुनः पुनः ॥ 43 ॥
ददौ तस्मै स देवेशस तं वरं परीतिमांस तदा पञ्च ते पतयः शरेष्ठा भविष्यन्तीति शंकरः ॥ 44 ॥
सा परसादयती देवम इदं भूयॊ ऽभयभाषत एकं पतिं गुणॊपेतं तवत्तॊ ऽरहामीति वै तदा तां देवदेवः परीतात्मा पुनः पराह शुभं वचः ॥ 45 ॥
पञ्च कृत्वस तवया उक्तः पतिं देहीत्य अहं पुनः तत तथा भविता भद्रे तव तद भद्रम अस्तु ते देहम अन्यं गतायास ते यथॊक्तं तद भविष्यति ॥ 46 ॥
दरुपदैषा हि सा जज्ञे सुता ते देवरूपिणी पञ्चानां विहिता पत्नी कृष्णा पार्षत्य अनिन्दिता ॥ 47 ॥
सवर्गश्रीः पाण्डवार्थाय समुत्पन्ना महामखे सेह तप्त्वा तपॊ घॊरं दुहितृत्वं तवागता ॥ 48 ॥
सैषा देवी रुचिरा देव जुष्टा; पञ्चानाम एका सवकृतेन कर्मणा सृष्टा सवयं देवपत्नी सवयम्भुवा; शरुत्वा राजन दरुपदेष्टं कुरुष्व ॥ 49 ॥
आदिपर्व · Adi Parva
अध्याय 189
Reach this point to mark the section finished.
Continue to अध्याय 190