धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 184

  1. [वै] धृष्टद्युम्नस तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ अन्वगच्छत तदा यान्तौ भार्गवस्य निवेशनम ॥ 1 ॥

  2. सॊ ऽजञायमानः पुरुषान अवधाय समन्ततः सवयम आरान निविष्टॊ ऽभूद भार्गवस्य निवेशने ॥ 2 ॥

  3. साये ऽथ भीमस तु रिपुप्रमाथी; जिष्णुर यमौ चापि महानुभावौ भैक्षं चरित्वा तु युधिष्ठिराय; निवेदयां चक्रुर अदीनसत्त्वाः ॥ 3 ॥

  4. ततस तु कुन्ती दरुपदात्मजां; ताम उवाच काले वचनं वदान्या अतॊ ऽगरम आदाय कुरुष्व भद्रे; बलिं च विप्राय च देहि भिक्षाम ॥ 4 ॥

  5. ये चान्नम इच्छन्ति ददस्व तेभ्यः; परिश्रिता ये परितॊ मनुष्याः ततश च शेषं परविभज्य शीघ्रम; अर्धं चतुर्णां मम चात्मनश च ॥ 5 ॥

  6. अर्धं च भीमाय ददाहि भद्रे; य एष मत्तर्षभ तुल्यरूपः शयामॊ युवा संहननॊपपन्न; एषॊ हि वीरॊ बहुभुक सदैव ॥ 6 ॥

  7. सा हृष्टरूपैव तु राजपुत्री; तस्या वचः साध्व अविशङ्कमाना यथावद उक्तं परचकार साध्वी; ते चापि सर्वे ऽभयवजह्रुर अन्नम ॥ 7 ॥

  8. कुशैस तु भूमौ शयनं चकार; माद्री सुतः सहदेवस तरस्वी यथात्मीयान्य अजिनानि सर्वे; संस्तीर्य वीराः सुषुपुर धरण्याम ॥ 8 ॥

  9. अगस्त्यशास्ताम अभितॊ दिशं तु; शिरांसि तेषां कुरुसत्तमानाम कुन्ती पुरस्तात तु बभूव तेषां; कृष्णा तिरश चैव बभूव पत्तः ॥ 9 ॥

  10. अशेत भूमौ सह पाण्डुपुत्रैः; पादॊपधानेव कृता कुशेषु न तत्र दुःखं च बभूव तस्या; न चावमेने कुरुपुंगवांस तान ॥ 10 ॥

  11. ते तत्र शूराः कथयां बभूवुः; कथा विचित्राः पृतनाधिकाराः अस्त्राणि दिव्यानि रथांश च नागान; खड्गान गदाश चापि परश्वधांश च ॥ 11 ॥

  12. तेषां कथास ताः परिकीर्त्यमानाः; पाञ्चालराजस्य सुतस तदानीम शुश्राव कृष्णां च तथा निषण्णां; ते चापि सर्वे ददृशुर मनुष्याः ॥ 12 ॥

  13. धृष्टद्युम्नॊ राजपुत्रस तु सर्वं; वृत्तं तेषां कथितं चैव रात्रौ सर्वं राज्ञे दरुपदायाखिलेन; निवेदयिष्यंस तवरितॊ जगाम ॥ 13 ॥

  14. पाञ्चालराजस तु विषण्णरूपस; तान पाण्डवान अप्रतिविन्दमानः धृष्टद्युम्नं पर्यपृच्छन महात्मा; कव सा गता केन नीता च कृष्णा ॥ 14 ॥

  15. कच चिन न शूद्रेण न हीनजेन; वैश्येन वा करदेनॊपपन्ना कच चित पदं मूर्ध्नि न मे निदिग्धं; कच चिन माला पतिता न शमशाने ॥ 15 ॥

  16. कच चित सवर्ण परवरॊ मनुष्य; उद्रिक्त वर्कॊ ऽपय उत वेह कच चित कच चिन न वामॊ मम मूर्ध्नि पादः; कृष्णाभिमर्शेन कृतॊ ऽदय पुत्र ॥ 16 ॥

  17. कच चिच च यक्ष्ये परमप्रप्रीतः; संयुज्य पार्थेन नरर्षभेण बरवीहि तत्त्वेन महानुभावः; कॊ ऽसौ विजेता दुहितुर ममाद्य ॥ 17 ॥

  18. विचित्रवीर्यस्य तु कच चिद अद्य; कुरुप्रवीरस्य धरन्ति पुत्राः कच चित तु पार्थेन यवीयसाद्य; धनुर गृहीतं निहतं च लक्ष्यम ॥ 18 ॥

Reach this point to mark the section finished.

Continue to अध्याय 185

Previous: अध्याय 183