[दु] सखा बभूव मे पूर्वं खगमॊ नाम वै दविजः भृशं संशितवाक तात तपॊबलसमन्वितः ॥ 1 ॥
स मया करीडता बाल्ये कृत्वा तार्णम अथॊरगम अग्निहॊत्रे परसक्तः सन भीषितः परमुमॊह वै ॥ 2 ॥
लब्ध्वा च स पुनः संज्ञां माम उवाच तपॊधनः निर्दहन्न इव कॊपेन सत्यवाक संशितव्रतः ॥ 3 ॥
यथा वीर्यस तवया सर्पः कृतॊ ऽयं मद विभीषया तथा वीर्यॊ भुजंगस तवं मम कॊपाद भविष्यसि ॥ 4 ॥
तस्याहं तपसॊ वीर्यं जानमानस तपॊधन भृशम उद्विग्नहृदयस तम अवॊचं वनौकसम ॥ 5 ॥
परयतः संभ्रमाच चैव पराञ्जलिः परणतः सथितः सखेति हसतेदं ते नर्मार्थं वै कृतं मया ॥ 6 ॥
कषन्तुम अर्हसि मे बरह्मञ शापॊ ऽयं विनिवर्त्यताम सॊ ऽथ माम अब्रवीद दृष्ट्वा भृशम उद्विग्नचेतसम ॥ 7 ॥
मुहुर उष्णं विनिःश्वस्य सुसंभ्रान्तस तपॊधनः नानृतं वै मया परॊक्तं भवितेदं कथं चन ॥ 8 ॥
यत तु वक्ष्यामि ते वाक्यं शृणु तन मे धृतव्रत शरुत्वा च हृदि ते वाक्यम इदम अस्तु तपॊधन ॥ 9 ॥
उत्पत्स्यति रुरुर नाम परमतेर आत्मजः शुचिः तं दृष्ट्वा शापमॊक्षस ते भविता नचिराद इव ॥ 10 ॥
स तवं रुरुर इति खयातः परमतेर आत्मजः शुचिः सवरूपं परतिलभ्याहम अद्य वक्ष्यामि ते हितम ॥ 11 ॥
अहिंसा परमॊ धर्मः सर्वप्राणभृतां समृतः तस्मात पराणभृतः सर्वान न हिंस्याद बराह्मणः कव चित ॥ 12 ॥
बराह्मणः सौम्य एवेह जायतेति परा शरुतिः वेदवेदाङ्गवित तात सर्वभूताभय परदः ॥ 13 ॥
अहिंसा सत्यवचनं कषमा चेति विनिश्चितम बराह्मणस्य परॊ धर्मॊ वेदानां धरणाद अपि ॥ 14 ॥
कषत्रियस्य तु यॊ धर्मः स नेहेष्यति वै तव दण्डधारणम उग्रत्वं परजानां परिपालनम ॥ 15 ॥
तद इदं कषत्रियस्यासीत कर्म वै शृणु मे रुरॊ जनमेजयस्य धर्मात्मन सर्पाणां हिंसनं पुरा ॥ 16 ॥
परित्राणं च भीतानां सर्पाणां बराह्मणाद अपि तपॊ वीर्यबलॊपेताद वेदवेदाङ्गपारगात आस्तीकाद दविजमुख्याद वै सर्पसत्त्रे दविजॊत्तम ॥ 17 ॥
आदिपर्व · Adi Parva
अध्याय 11
Reach this point to mark the section finished.
Continue to अध्याय 12