इ॒मं यव॑मष्टायो॒गैः ष॑ड्यो॒गेभि॑रचर्कृषुः । तेना॑ ते त॒न्वो॒३रपो॑ ऽपा॒चीन॒मप॑ व्यये ॥ १ ॥
न्य॑१ग्वातो॑ वाति॒ न्यऽक् तपति॑ सूर्यः॑ । नी॒चीन॑म॒घ्न्या दु॑हे॒ न्यऽग् भवतु ते॒ रपः॑ ॥ २ ॥
आप॒ इद् वा उ॑ भेष॒जीरापो॑ अमीव॒चात॑नीः । आपो॑ विश्व॑स्य भेष॒जीस्तास्ते॑ कृण्वन्तु भेष॒जम् ॥ ३ ॥
काण्ड 6
सूक्त 91
Reach this point to mark the section finished.
Continue to सूक्त 92