यां ते॑ रु॒द्र इषु॒मास्य॒दङ्गे॑भ्यो॒ हृद॑याय च । इ॒दं ताम॒द्य त्वद् व॒यं विषू॑चीं॒ वि वृ॑हामसि ॥ १ ॥
यास्ते॑ श॒तं ध॒मन॒योऽङ्गा॒न्यनु॒ विष्ठि॑ताः । तासां॑ ते॒ सर्वा॑सां व॒यं निर्वि॒षाणि॑ ह्वयामसि ॥ २ ॥
नम॑स्ते रु॒द्रास्य॑ते॒ नमः॒ प्रति॑हितायै । नमो॑ विसृ॒ज्यमा॑नायै॒ नमो॒ निप॑तितायै ॥ ३ ॥
काण्ड 6
सूक्त 90
Reach this point to mark the section finished.
Continue to सूक्त 91