धर्मDharmic Data

काण्ड 6

सूक्त 103

  1. सं॒दानं॑ वो॒ बृह॒स्पतिः॑ सं॒दानं॑ सवि॒ता क॑रत्। सं॒दानं॑ मि॒त्रो अ॑र्य॒मा सं॒दानं॒ भगो॑ अ॒श्विना॑ ॥ १ ॥

  2. सं प॑र॒मान्त्सम॑व॒मानथो॒ सं द्या॑मि मध्य॒मान्। इन्द्र॒स्तान् पर्य॑हा॒र्दाम्ना॒ तान॑ग्ने॒ सं द्या॒ त्वम् ॥ २ ॥

  3. अ॒मी ये युध॑मा॒यन्ति॑ के॒तून् कृ॒त्वानी॑क॒शः । इन्द्र॒स्तान् पर्य॑हा॒र्दाम्न॒ तान॑ग्ने॒ सं द्या॒ त्वम् ॥ ३ ॥

Reach this point to mark the section finished.

Continue to सूक्त 104

Previous: सूक्त 102