धर्मDharmic Data

काण्ड 6

सूक्त 102

  1. यथा॒यं वा॒हो अ॑श्विना स॒मैति॒ सं च॒ वर्त॑ते । ए॒वा माम॒भि ते॒ मनः॑ स॒मैतु॒ सं च॑ वर्तताम् ॥ १ ॥

  2. आहं खि॑दामि ते॒ मनो॑ राजा॒श्वः पृ॒ष्ट्यामि॑व । रे॒ष्मच्छि॑न्नं॒ यथा॒ तृणं॒ मयि॑ ते वेष्टतां॒ मनः॑ ॥ २ ॥

  3. आञ्ज॑नस्य म॒दुघ॑स्य॒ कुष्ठ॑स्य॒ नल॑दस्य च । तु॒रो भग॑स्य॒ हस्ता॑भ्यामनु॒रोध॑न॒मुद् भ॑रे ॥ ३ ॥

Reach this point to mark the section finished.

Continue to सूक्त 103

Previous: सूक्त 101