धर्मDharmic Data

काण्ड 2

सूक्त 30

  1. यथे॒दं भूम्या॒ अधि॒ तृणं॒ वातो॑ मथा॒य॑ति । ए॒वा म॑थ्नामि ते मनो॒ यथा॒ मां का॒मिन्यसो॒ यथा॒ मन्नाप॑गा॒ असः॑ ॥ १ ॥

  2. सं चेन्नया॑थो अश्विना का॒मिना॒ सं च॒ वक्ष॑थः । सं वां॒ भगा॑सो अग्मत॒ सं चि॒त्तानि॒ समु॑ व्र॒ता ॥ २ ॥

  3. यत् सु॑प॒र्णा वि॑व॒क्षवो॑ अनमी॒वा वि॑व॒क्षवः॑ । तत्र॑ मे गछता॒द्धवं॑ श॒ल्य इ॑व॒ कुल्म॑लं॒ यथा॑ ॥ ३ ॥

  4. यदन्त॑रं॒ तद् बाह्यं॒ यद् बाह्यं॒ तदन्त॑रम्। क॒न्याऽनां वि॒श्वरू॑पाणां॒ मनो॑ गृभायौषधे ॥ ४ ॥

  5. एयम॑ग॒न् पति॑कामा॒ जनि॑कामो॒ऽहमाग॑मम्। अश्वः॒ कनि॑क्रद॒द् यथा॒ भगे॑ना॒हं स॒हाग॑मम् ॥ ५ ॥

Reach this point to mark the section finished.

Continue to सूक्त 31

Previous: सूक्त 29