धर्मDharmic Data

काण्ड 2

सूक्त 29

  1. त्रिष्टुप्, १ अनुष्टुप्, ४ पराबृहती निचृत्प्रस्तारपङ्क्तिः। पार्थि॑वस्य॒ रसे॑ देवा॒ भग॑स्य त॒न्वो॒३ बले॑ । आ॒यु॒ष्यऽम॒स्मा अ॒ग्निः सूर्यो वर्च॒ आ धा॒द् बृह॒स्पतिः॑ ॥ १ ॥

  2. आयु॑र॒स्मै धे॑हि जातवेदः प्रजां त्व॑ष्टरधि॒निधे॑ह्य॒स्मै। रा॒यस्पोषं॑ सवित॒रा सु॑वा॒स्मै श॒तं जी॑वाति श॒रद॒स्तवा॒यम् ॥ २ ॥

  3. आ॒शीर्ण॒ ऊर्ज॑मु॒त सौ॑प्रजा॒स्त्वं दक्षं॑ धत्तं॒ द्रवि॑णं॒ सचे॑तसौ । जयं॒ क्षेत्रा॑णि॒ सह॑सा॒यमि॑न्द्र कृण्वा॒नो अ॒न्यानध॑रान्त्स॒पत्ना॑न् ॥ ३ ॥

  4. इन्द्रे॑ण द॒त्तो वरु॑णेन शि॒ष्टो म॒रुद्भि॑रु॒ग्रः प्रहि॑तो न॒ आग॑न्। ए॒ष वां॑ द्यावापृथिवी उ॒पस्थे॒ मा क्षु॑ध॒न्मा तृ॑षत् ॥ ४ ॥

  5. ऊर्ज॑मस्मा ऊर्जस्वती धत्तं॒ पयो॑ अस्मै पयस्वती धत्तम्। ऊर्ज॑म॒स्मै द्यावा॑पृथि॒वी अ॑धातां॒ विश्वे॑ दे॒वा म॒रुत॒ ऊर्ज॒मापः॑ ॥ ५ ॥

  6. शि॒वाभि॑ष्टे॒ हृद॑यं तर्पयाम्यनमी॒वो मो॑दिषीष्ठाः सु॒वर्चाः॑ । स॒वा॒सिनौ॑ पिबतां म॒न्थमे॒तम॒श्विनो॑ रू॒पं प॑रि॒धाय॑ मा॒याम् ॥ ६ ॥

  7. इन्द्र॑ ए॒तां स॑सृजे विद्धो अग्र॑ ऊ॒र्जां स्व॒धाम॒जरां॒ सा त॑ ए॒षा। तया॒ त्वं जी॑व श॒रदः॑ सु॒वर्चा॒ मा त॒ आ सु॑स्रोद् भि॒षज॑स्ते अक्रन् ॥ ७ ॥

Reach this point to mark the section finished.

Continue to सूक्त 30

Previous: सूक्त 28