वि॒द्मा श॒रस्य॑ पि॒तरं॑ प॒र्जन्यं॒ भू॑रिधायसम्। वि॒द्मो ष्व॑स्य मा॒तरं॑ पृथि॒वीं भूरि॑वर्पसम् ॥ १ ॥
ज्याऽके॒ परि॑ णो न॒माश्मा॑नं त॒न्वं कृधि । वी॒डुर्वरी॒योऽरा॑ती॒रप॒ द्वेषां॒स्याऽकृ॑धि ॥ २ ॥
वृ॒क्षं यद्गावः॑ परिषस्वजा॒ना अ॑नुस्फु॒रं श॒रमर्च॑न्त्यृ॒भुम्। शरु॑म॒स्मद्या॑वय दि॒द्युमि॑न्द्र ॥ ३ ॥
यथा॒ द्यां च॑ पृथि॒वीं चा॒न्तस्तिष्ठ॑ति॒ तेज॑नम्। ए॒वा रोगं॑ चास्रा॒वं चा॒न्तस्ति॑ष्ठतु॒ मुञ्ज॒ इत् ॥ ४ ॥
काण्ड 1
सूक्त 2
Reach this point to mark the section finished.
Continue to सूक्त 3