ये॑ त्रिषप्ताः प॑रि॒य॑न्ति वि॑श्वा रू॒पाणि॒ बिभ्र॑तः । वा॒चस्प॒तिर्बला॒ तेषां॑ तन्वो॒ अ॒द्य द॑धातु मे ॥ १ ॥
पु॑नरे॑हि वचस्पते दे॒वेन॒ म॑नसा स॒ह। वसो॑ष्पते॒ नि र॑मय॒ मय्ये॒वास्तु॒ मयि॑ श्रु॒तम् ॥ २ ॥
इ॒हैवाभि॑ वि त॑नू॒भे आर्त्नी॑ इव॒ ज्य॑या । वा॒चस्पति॒र्नि य॑च्छतु॒ मय्ये॒वा॑स्तु॒ मयि॑ श्रु॒तम् ॥ ३ ॥
उ॑पहूतो वा॒चस्पति॒रुपा॒स्मान् वा॒चस्प॑तिर्ह्वयताम्। सं श्रु॒तेन॑ गमेमहि॒ मा श्रु॒तेन॒ वि रा॑धिषि ॥ ४ ॥
काण्ड 1
सूक्त 1
Reach this point to mark the section finished.
Continue to सूक्त 2