धर्मDharmic Data

अध्याय 6

  1. दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आद॑दे॒ नार्य॑सी॒दम॒ह रक्ष॑सो ग्री॒वा अपि॑कृन्तामि । यवो॑ऽसि य॒वया॒स्मद् द्वेषो॑ य॒वयारा॑तीः । दि॒वे त्वा॒न्तरि॑क्षाय त्वा पृथि॒व्यै त्वा॑ । शुन्ध॑न्ताँल्लो॒काः पि॑तृ॒षद॑नाः पितृ॒षद॑नमसि ॥ १ ॥

  2. अ॒ग्रे॒णीर॑सि स्वावे॒श उ॑न्नेतॄ॒णामे॒तस्य॑ वित्ता॒दधि॑ त्वा स्थास्यति । दे॒वस्त्वा॑ सवि॒ता मध्वा॑नक्तु सुपिप्प॒लाभ्य॒स्त्वौष॑धीभ्यः । दिव॒मग्रे॑णास्पृक्ष॒ आन्तरि॑क्षं॒ मध्ये॑नाप्राः पृथि॒वीमुप॑रेणादृहीः ॥ २ ॥

  3. २ या ते॒ धामा॑न्यु॒श्मसि॒ गम॑ध्यै॒ यत्र॒ गावो॒ भूरि॑शृङ्गा अ॒यासः॑ । अत्राहै॒तदु॑रुगा॒यस्य॒ विष्णोः॑ पर॒मं प॒दमव॑भारि॒ भूरि॑ ॥ ३ ॥

  4. ३ (२९३) ब्र॒ह्म॒वनि॑ त्वा क्षत्र॒वनि॑ रायस्पोष॒वनि॒ पर्यू॑हामि । ब्रह्म॑ दृह क्ष॒त्रं दृ॒हायु॑र्दृह प्र॒जां दृ॑ह ॥ ४ ॥

  5. ४ विष्णोः॒ कर्मा॑णि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे । इन्द्र॑स्य॒ युज्यः॒ सखा॑ ॥ ५ ॥

  6. ५ तद्विष्णोः॑ पर॒मं प॒द सदा॑ पश्यन्ति सू॒रयः॑ । दि॒वी॑व॒ चक्षु॒रात॑तम् ॥ ६ ॥

  7. ६॥ प॒रि॒ वीर॑सि॒ परि॑ त्वा॒ दैवी॒र्विशो॑ व्ययन्ताम् । परी॒मं यज॑मान॒ रायो॑ मनु॒ष्या॑णाम् । दि॒वः सू॒नुर॑स्ये॒ष ते॑ पृथि॒व्याँल्लो॒क आ॑र॒ण्यस्ते॑ प॒शुः ॥ ७ ॥

  8. (१) ७ उ॒पा॒वीर॒स्युप॑ दे॒वान् दैवी॒र्विशः॒ प्रागु॑रु॒शिजो॒ वह्नि॑तमान् । देव॑ त्वष्ट॒र्वसु॑ रम ह॒व्या ते॑ स्वदन्ताम् ॥ १ ॥

  9. ८ रेव॑ती॒ रम॑ध्वं॒ बृह॑स्पते धा॒रया॒ वसू॑नि । ऋ॒तस्य॑ त्वा देवहविः॒ पाशे॑न॒ प्रति॑मुञ्चामि॒ धर्षा॒न् मानु॑षः ॥ २ ॥

  10. ९ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । अ॒ग्नीषोमा॑भ्यां॒ जुष्टं॒ नियु॑नज्मि । अ॒द्भ्यस्त्वौष॑धीभ्यः॒ प्रोक्षा॒म्यनु॑ त्वां मा॒ता म॑न्यता॒मनु॑ पि॒तानु॒ भ्राता॒ सग॒र्भ्योऽनु॒ सखा॒ सयू॑थ्यः । अ॒ग्नीषोमा॑भ्यां त्वा॒ जुष्टं॒ प्रोक्षा॑मि ॥ ३ ॥

  11. १० अ॒पां पे॒रुर॑स्यापो॑ दे॒वीः स॑दन्तु । स्वा॒त्तं चि॒त्सद्दे॑वह॒विः ॥ ४ ॥

  12. ११ सं ते॑ प्रा॒णो वाते॑न गच्छता॒ समङ्गा॑नि॒ यज॑त्रैः। सं यज॑मान आ॒शिषा॑ ॥ ५ ॥

  13. १२ घृ॒तेना॒क्तौ प॒शूँस्त्रा॑येथा॒ रेव॑ति॒ यज॑माने । प्रि॒यं धा आवि॑श ॥ ६ ॥

  14. १३ उ॒रोर॒न्तरि॑क्षात्स॒जूर्दे॒वेन॒ वाते॑न । अ॒स्य ह॒विष॒स्त्मना॑ यज॒ सम॑स्य त॒न्वा॑ भव ॥ ७ ॥

  15. १४ वर्षो॒ वर्षी॑यसि य॒ज्ञे य॒ज्ञप॑तिं धाः । स्वाहा॑ दे॒वेभ्यो॑ दे॒वेभ्यः॒ स्वाहा॑ । माहि॑र्भू॒र्मा पृदा॑कुः ॥ ८ ॥

  16. (२) १५ नम॑स्त आतानान॒र्वा प्रेहि॑ । घृ॒तस्य॑ कु॒ल्या उप॑ ऋ॒तस्य॒ पथ्या॒ उप॑ ॥ १ ॥

  17. १६ देवी॑रापः शु॒द्धा वो॑ढ्व॒ सुप॑रिविष्टा दे॒वेषु॑ । सुप॑रिविष्टा व॒यं प॑रिवे॒ष्टारो॑ भूयास्म ॥ २ ॥

  18. १७ वाचं॑ ते शुन्धामि प्रा॒णं ते॑ शुन्धामि॒ चक्षु॑स्ते शुन्धामि॒ श्रोत्रं॑ ते शुन्धामि । नाभिं॑ ते शुन्धामि॒ मेढ्रं॑ ते शुन्धामि पा॒युं ते॑ शुन्धामि च॒रित्रा॑स्ते शुन्धामि ॥ ३१ ॥

  19. ८॥ मन॑स्त॒ आप्या॑यतां॒ वाक्त॒ आप्या॑यतां प्रा॒णस्त॒ आप्या॑यतां॒ चक्षु॑स्त॒ आप्या॑यता॒ श्रोत्रं॑ त॒ आप्या॑यताम् । यत्ते॑ क्रू॒रं यदास्थि॑तं॒ तत्त॒ आप्या॑यतां॒ तत्ते॒ निष्ठ्या॑यतां॒ तत्ते॑ शुध्यतु॒ शमहो॑भ्यः ॥ ४ ॥

  20. १९(३०९) ओष॑धे॒ त्राय॑स्व॒ स्वधि॑ते॒ मैन॑ हिसीः । रक्ष॑सां भा॒गो॑ऽसि॒ निर॑स्त॒रक्षः॑ ॥ ५ ॥

  21. २० इ॒दम॒ह रक्षो॒ऽभिति॑ष्ठामी॒दम॒ह रक्षोऽव॑बाधे। इ॒दम॒ह रक्षो॑ऽध॒मं तमो॑ नयामि ॥ ६ ॥

  22. २१ घृ॒तेन॑ द्यावापृथिवी॒ प्रोर्ण्वा॑थां॒ वायो॒ वे स्तो॒काना॑म् । जु॒षा॒णो अ॒ग्निराज्य॑स्य वेतु॒ स्वाहा॑ । स्वाहा॑कृते ऊ॒र्ध्वन॑भसं मारु॒तं ग॑च्छतम् ॥ ७ ॥

  23. (३) २२ सं ते॒ मनो॒ मन॑सा॒ सं प्रा॒णः प्रा॒णेन॑ गच्छताम् । रेळ॑स्य॒ग्निष्ट्वा॑ श्रीणा॒त्वाप॑स्त्वा॒ सम॑रिणन् ॥ १ ॥

  24. २३ वात॑स्य त्वा॒ ध्राज्यै॑ पू॒ष्णो रह्या॑ ऊ॒ष्मणो॑ व्यथिषत् । प्रयु॑तं॒ द्वेषः॑ ॥ २ ॥

  25. २४ घृ॒तं घृ॑तपावानः पिबत॒ वसां॑ वसापावानः पिबत । अन्तरि॑क्षस्य ह॒विर॑सि॒ स्वाहा॑ ॥ ३ ॥

  26. २५ दिशः॑ प्र॒दिश॑ आ॒दिशो॑ वि॒दिश॑ उ॒द्दिशो॑ दि॒ग्भ्यः स्वाहा॑ । ऐ॒न्द्रः प्रा॒णो अङ्गे॑अङ्गे॒ निधी॑त ऐ॒न्द्र उ॑दा॒नो अङ्गे॑अङ्गे॒ निदी॑धे ॥ ४ ॥

  27. २६ देव॑ त्वष्ट॒र्भूरि॑ ते॒ सस॑मेतु॒ स ल॑क्ष्मा॒ यद्विषु॑रूपं॒ भवा॑ति । दे॒व॒त्रा यन्त॒मव॑से॒ सखा॒योऽनु॑ त्वा मा॒ता पि॒तरो॑ मदन्तु ॥ ५ ॥

  28. (४) २७ स॒मु॒द्रं ग॑च्छ॒ स्वाहा॑ दे॒व स॑वि॒तारं॑ गच्छ॒ स्वाहा॑ । अ॒न्तरि॑क्षं गच्छ॒ स्वाहा॑ मि॒त्रावरु॑णौ गच्छ॒ स्वाहा॑ । अ॒हो॒रा॒त्रे ग॑च्छ॒ स्वाहा॒ छन्दा॑सि गच्छ॒ स्वाहा॑ । द्यावा॑पृथि॒वी ग॑च्छ॒ स्वाहा॒ सोमं॑ गच्छ॒ स्वाहा॑ । य॒ज्ञं ग॑च्छ॒ स्वाहा॒ नभो॑ दि॒व्यं ग॑च्छ॒ स्वाहा॑ । अ॒ग्निं वै॑श्वान॒रं ग॑च्छ॒ स्वाहा॒ मनो॑ मे॒ हार्द्य॑च्छ ॥ १ ॥

  29. २८ दिवं॑ ते धू॒मो ग॑च्छ॒त्व॒न्तरि॑क्षं॒ ज्योतिः॑ । पृथि॒वीं भस्म॒नापृ॑ण॒ स्वाहा॑ ॥ २ ॥

  30. २९ मापो मौष॑धीर्हिसी॒र्धाम्नो॑धाम्नो राज॒स्ततो॑ वरुण नो मुञ्च । यदा॒हुर॒घ्न्या इति॒ वरु॒णेति॒ शपा॑महे॒ ततो॑ वरुण नो मुञ्च ॥ ३ ॥

  31. ३० सु॒मि॒त्रि॒या न॒ आप॒ ओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु। यो॒ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ॥ ४ ॥

  32. ३१॥ इ॒दमा॑पः॒ प्रव॑हत॒ यत्किं च॑ दुरि॒तं मयि॑। यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा॑ शे॒प उ॒तानृ॑तम् ॥ ५ ॥

  33. (५) ३२ ह॒विष्म॑तीरि॒मा आपो॑ ह॒विष्माँ॒३ आवि॑वासति । ह॒विष्मा॑न् दे॒वो अ॑ध्व॒रो ह॒विष्मां॑३ अस्तु॒ सूर्यः॑ ॥ १ ॥

  34. ३३ (३२३) अ॒ग्नेर्वोऽप॑न्नगृहस्य॒ सद॑सि सादयामि । इ॒न्द्रा॒ग्न्योर्भा॑ग॒धेयी॑ स्थ मि॒त्रावरु॑णयोर्भाग॒धेयी॑ स्थ॒। विश्वे॑षां दे॒वानां॑ भाग॒धेयी॑ स्थ ॥ २ ॥

  35. ३४ अ॒मूर्या उप॒ सूर्ये॒ याभि॑र्वा॒ सूर्यः॑ स॒ह । ता नो॑ हिन्वन्त्वध्व॒रम् ॥ ३ ॥

  36. (६) ३५ हृ॒दे त्वा॒ मन॑से त्वा दि॒वे त्वा॒ सूर्या॑य त्वा । ऊ॒र्ध्वो अ॑ध्व॒रं दि॒वि दे॒वेषु॒ होत्रा॑ यच्छ ॥ १ ॥

  37. ३६ सोम॑ राज॒न्विश्वा॒स्त्वं प्र॒जा उ॒पाव॑रोह । विश्वा॒स्त्वां प्र॒जा उ॒पाव॑रोहन्तु ॥ २ ॥

  38. ३७ शृ॒णोत्व॒ग्निः स॒मिधा॒ ह॒वं॑ मे शृ॒ण्वन्त्वापो॑ धि॒षणा॑श्च दे॒वीः । श्रोता॑ ग्रावाणो वि॒दुषो॒ न य॒ज्ञ शृ॒णोतु॑ दे॒वः स॑वि॒ता हवं॑ मे॒ स्वाहा॑ ॥ ३ ॥

  39. ३८ देवी॑रापो अपां नपा॒द्यो व॑ ऊ॒र्मिर्ह॑वि॒ष्यः॑ । इ॒न्द्रि॒यावा॑न् म॒दिन्त॑मः ॥ ४ ॥

  40. ३९ तं दे॒वेभ्यो॑ देव॒त्रा दा॑त शुक्र॒पेभ्यः॑ । येषां॑ भा॒ग स्थ स्वाहा॑ ॥ ५ ॥

  41. ४० कार्षि॑रसि समु॒द्रस्य॒ त्वा क्षि॑त्या॒ उन्न॑यामि । समापो॑ अ॒द्भिर॑ग्मत॒ समोष॑धीभि॒रोष॑धीः ॥ ६ ॥

  42. ४१ यम॑ग्ने पृ॒त्सु मर्त्य॒मवा॒ वाजे॑षु॒ यं जु॒नाः। स यन्ता॒ शश्व॑ती॒रिषः॒ स्वाहा॑ ॥ ७ ॥

  43. (७) ४२ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आद॑दे॒ रावा॑सि गभी॒रमि॒मम॑ध्व॒रं कृ॒धीन्द्रा॑य सु॒षूत॑मम् । उ॒त्त॒मेन॑ प॒विनोर्ज॑स्वन्तं॒ मधु॑मन्तं॒ पय॑स्वन्तम् । नि॒ग्रा॒भ्या॑ स्थ देव॒श्रुत॑स्त॒र्पय॑त मा ॥ १ ॥

  44. ४३ मनो॑ मे तर्पयत॒ वाचं॑ मे तर्पयत प्रा॒णं मे॑ तर्पयत॒ चक्षु॑र्मे तर्पयत॒ श्रोत्रं॑ मे तर्पयत। आ॒त्मानं॑ मे तर्पयत प्र॒जां मे॑ तर्पयत प॒शून् मे॑ तर्पयत ग॒णान्मे॑ तर्पयत ग॒णा मे॒ मा वितृ॑षन् ॥ २ ॥

  45. ४४ इन्द्रा॑य त्वा॒ वसु॑मते रु॒द्रव॑त॒ इन्द्रा॑य त्वादि॒त्यव॑ते । इन्द्रा॑य त्वाभिमाति॒घ्न्ये श्ये॒नाय॑ त्वा सोम॒भृते॑ऽग्नये॑ त्वा रायस्पोष॒दे ॥ ३ ॥

  46. ४५ यत्ते॑ सोम दि॒वि ज्योति॒र्यत्पृथि॒व्यां यदु॒रा अ॒न्तरि॑क्षे । तेना॒स्मै यज॑मानायो॒रु रा॒ये कृ॒ध्यधि॑ दा॒त्रे वो॑चः ॥ ४ ॥

  47. ४६ श्वा॒त्रा स्थ॑ वृत्र॒तुरो॒ राधो॑गूर्त्ता अ॒मृत॑स्य॒ पत्नीः॑ । ता दे॑वीर्देव॒त्रेमं य॒ज्ञं न॑य॒तोप॑हूताः॒ सोम॑स्य पिबत ॥ ५ ॥

  48. ४७ मा भे॒र्मा संवि॑क्था॒ ऊर्जं॑ धत्स्व॒ धिष॑णे वी॒ड्वी स॒ती वी॑ळयेथा॒मूर्जं॑ दधाथाम् । पा॒प्मा ह॒तो न सोमः॑ ॥ ६ ॥

  49. ४८ प्रागपा॒गुद॑गध॒राक्स॒र्वत॑स्त्वा॒ दिश॒ आधा॑वन्तु । अम्ब॒ निष्प॑र॒ सम॒रीर्वि॑दाम् ॥ ७ ॥

  50. ४९ (३३९) त्वम॒ङ्ग प्रश॑सिषो दे॒वः श॑विष्ठ॒ मर्त्य॑म् । न त्वद॒न्यो म॑घवन्नस्ति मर्डि॒तेन्द्र॒ ब्रवी॑मि ते॒ वचः॑ ॥ ८ ॥

  51. (८) ५० (३४०) ॥इति शुक्लयजुः काण्वसंहितायां षष्ठोऽध्यायः ॥ ६ ॥

  52. अथ षष्ठोऽध्यायः । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आद॑दे॒ नार्य॑सी॒दम॒ह रक्ष॑सो ग्री॒वा अपि॑कृन्तामि । यवो॑ऽसि य॒वया॒स्मद् द्वेषो॑ य॒वयारा॑तीः । दि॒वे त्वा॒न्तरि॑क्षाय त्वा पृथि॒व्यै त्वा॑ । शुन्ध॑न्ताँल्लो॒काः पि॑तृ॒षद॑नाः पितृ॒षद॑नमसि ॥ १ ॥

  53. अ॒ग्रे॒णीर॑सि स्वावे॒श उ॑न्नेतॄ॒णामे॒तस्य॑ वित्ता॒दधि॑ त्वा स्थास्यति । दे॒वस्त्वा॑ सवि॒ता मध्वा॑नक्तु सुपिप्प॒लाभ्य॒स्त्वौष॑धीभ्यः । दिव॒मग्रे॑णास्पृक्ष॒ आन्तरि॑क्षं॒ मध्ये॑नाप्राः पृथि॒वीमुप॑रेणादृहीः ॥ २ ॥

  54. २ या ते॒ धामा॑न्यु॒श्मसि॒ गम॑ध्यै॒ यत्र॒ गावो॒ भूरि॑शृङ्गा अ॒यासः॑ । अत्राहै॒तदु॑रुगा॒यस्य॒ विष्णोः॑ पर॒मं प॒दमव॑भारि॒ भूरि॑ ॥ ३ ॥

  55. ३ (२९३) ब्र॒ह्म॒वनि॑ त्वा क्षत्र॒वनि॑ रायस्पोष॒वनि॒ पर्यू॑हामि । ब्रह्म॑ दृह क्ष॒त्रं दृ॒हायु॑र्दृह प्र॒जां दृ॑ह ॥ ४ ॥

  56. ४ विष्णोः॒ कर्मा॑णि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे । इन्द्र॑स्य॒ युज्यः॒ सखा॑ ॥ ५ ॥

  57. ५ तद्विष्णोः॑ पर॒मं प॒द सदा॑ पश्यन्ति सू॒रयः॑ । दि॒वी॑व॒ चक्षु॒रात॑तम् ॥ ६ ॥

  58. ६॥ प॒रि॒ वीर॑सि॒ परि॑ त्वा॒ दैवी॒र्विशो॑ व्ययन्ताम् । परी॒मं यज॑मान॒ रायो॑ मनु॒ष्या॑णाम् । दि॒वः सू॒नुर॑स्ये॒ष ते॑ पृथि॒व्याँल्लो॒क आ॑र॒ण्यस्ते॑ प॒शुः ॥ ७ ॥

  59. (१) ७ उ॒पा॒वीर॒स्युप॑ दे॒वान् दैवी॒र्विशः॒ प्रागु॑रु॒शिजो॒ वह्नि॑तमान् । देव॑ त्वष्ट॒र्वसु॑ रम ह॒व्या ते॑ स्वदन्ताम् ॥ १ ॥

  60. ८ रेव॑ती॒ रम॑ध्वं॒ बृह॑स्पते धा॒रया॒ वसू॑नि । ऋ॒तस्य॑ त्वा देवहविः॒ पाशे॑न॒ प्रति॑मुञ्चामि॒ धर्षा॒न् मानु॑षः ॥ २ ॥

  61. ९ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । अ॒ग्नीषोमा॑भ्यां॒ जुष्टं॒ नियु॑नज्मि । अ॒द्भ्यस्त्वौष॑धीभ्यः॒ प्रोक्षा॒म्यनु॑ त्वां मा॒ता म॑न्यता॒मनु॑ पि॒तानु॒ भ्राता॒ सग॒र्भ्योऽनु॒ सखा॒ सयू॑थ्यः । अ॒ग्नीषोमा॑भ्यां त्वा॒ जुष्टं॒ प्रोक्षा॑मि ॥ ३ ॥

  62. १० अ॒पां पे॒रुर॑स्यापो॑ दे॒वीः स॑दन्तु । स्वा॒त्तं चि॒त्सद्दे॑वह॒विः ॥ ४ ॥

  63. ११ सं ते॑ प्रा॒णो वाते॑न गच्छता॒ समङ्गा॑नि॒ यज॑त्रैः। सं यज॑मान आ॒शिषा॑ ॥ ५ ॥

  64. १२ घृ॒तेना॒क्तौ प॒शूँस्त्रा॑येथा॒ रेव॑ति॒ यज॑माने । प्रि॒यं धा आवि॑श ॥ ६ ॥

  65. १३ उ॒रोर॒न्तरि॑क्षात्स॒जूर्दे॒वेन॒ वाते॑न । अ॒स्य ह॒विष॒स्त्मना॑ यज॒ सम॑स्य त॒न्वा॑ भव ॥ ७ ॥

  66. १४ वर्षो॒ वर्षी॑यसि य॒ज्ञे य॒ज्ञप॑तिं धाः । स्वाहा॑ दे॒वेभ्यो॑ दे॒वेभ्यः॒ स्वाहा॑ । माहि॑र्भू॒र्मा पृदा॑कुः ॥ ८ ॥

  67. (२) १५ नम॑स्त आतानान॒र्वा प्रेहि॑ । घृ॒तस्य॑ कु॒ल्या उप॑ ऋ॒तस्य॒ पथ्या॒ उप॑ ॥ १ ॥

  68. १६ देवी॑रापः शु॒द्धा वो॑ढ्व॒ सुप॑रिविष्टा दे॒वेषु॑ । सुप॑रिविष्टा व॒यं प॑रिवे॒ष्टारो॑ भूयास्म ॥ २ ॥

  69. १७ वाचं॑ ते शुन्धामि प्रा॒णं ते॑ शुन्धामि॒ चक्षु॑स्ते शुन्धामि॒ श्रोत्रं॑ ते शुन्धामि । नाभिं॑ ते शुन्धामि॒ मेढ्रं॑ ते शुन्धामि पा॒युं ते॑ शुन्धामि च॒रित्रा॑स्ते शुन्धामि ॥ ३१ ॥

  70. ८॥ मन॑स्त॒ आप्या॑यतां॒ वाक्त॒ आप्या॑यतां प्रा॒णस्त॒ आप्या॑यतां॒ चक्षु॑स्त॒ आप्या॑यता॒ श्रोत्रं॑ त॒ आप्या॑यताम् । यत्ते॑ क्रू॒रं यदास्थि॑तं॒ तत्त॒ आप्या॑यतां॒ तत्ते॒ निष्ठ्या॑यतां॒ तत्ते॑ शुध्यतु॒ शमहो॑भ्यः ॥ ४ ॥

  71. १९(३०९) ओष॑धे॒ त्राय॑स्व॒ स्वधि॑ते॒ मैन॑ हिसीः । रक्ष॑सां भा॒गो॑ऽसि॒ निर॑स्त॒रक्षः॑ ॥ ५ ॥

  72. २० इ॒दम॒ह रक्षो॒ऽभिति॑ष्ठामी॒दम॒ह रक्षोऽव॑बाधे। इ॒दम॒ह रक्षो॑ऽध॒मं तमो॑ नयामि ॥ ६ ॥

  73. २१ घृ॒तेन॑ द्यावापृथिवी॒ प्रोर्ण्वा॑थां॒ वायो॒ वे स्तो॒काना॑म् । जु॒षा॒णो अ॒ग्निराज्य॑स्य वेतु॒ स्वाहा॑ । स्वाहा॑कृते ऊ॒र्ध्वन॑भसं मारु॒तं ग॑च्छतम् ॥ ७ ॥

  74. (३) २२ सं ते॒ मनो॒ मन॑सा॒ सं प्रा॒णः प्रा॒णेन॑ गच्छताम् । रेळ॑स्य॒ग्निष्ट्वा॑ श्रीणा॒त्वाप॑स्त्वा॒ सम॑रिणन् ॥ १ ॥

  75. २३ वात॑स्य त्वा॒ ध्राज्यै॑ पू॒ष्णो रह्या॑ ऊ॒ष्मणो॑ व्यथिषत् । प्रयु॑तं॒ द्वेषः॑ ॥ २ ॥

  76. २४ घृ॒तं घृ॑तपावानः पिबत॒ वसां॑ वसापावानः पिबत । अन्तरि॑क्षस्य ह॒विर॑सि॒ स्वाहा॑ ॥ ३ ॥

  77. २५ दिशः॑ प्र॒दिश॑ आ॒दिशो॑ वि॒दिश॑ उ॒द्दिशो॑ दि॒ग्भ्यः स्वाहा॑ । ऐ॒न्द्रः प्रा॒णो अङ्गे॑अङ्गे॒ निधी॑त ऐ॒न्द्र उ॑दा॒नो अङ्गे॑अङ्गे॒ निदी॑धे ॥ ४ ॥

  78. २६ देव॑ त्वष्ट॒र्भूरि॑ ते॒ सस॑मेतु॒ स ल॑क्ष्मा॒ यद्विषु॑रूपं॒ भवा॑ति । दे॒व॒त्रा यन्त॒मव॑से॒ सखा॒योऽनु॑ त्वा मा॒ता पि॒तरो॑ मदन्तु ॥ ५ ॥

  79. (४) २७ स॒मु॒द्रं ग॑च्छ॒ स्वाहा॑ दे॒व स॑वि॒तारं॑ गच्छ॒ स्वाहा॑ । अ॒न्तरि॑क्षं गच्छ॒ स्वाहा॑ मि॒त्रावरु॑णौ गच्छ॒ स्वाहा॑ । अ॒हो॒रा॒त्रे ग॑च्छ॒ स्वाहा॒ छन्दा॑सि गच्छ॒ स्वाहा॑ । द्यावा॑पृथि॒वी ग॑च्छ॒ स्वाहा॒ सोमं॑ गच्छ॒ स्वाहा॑ । य॒ज्ञं ग॑च्छ॒ स्वाहा॒ नभो॑ दि॒व्यं ग॑च्छ॒ स्वाहा॑ । अ॒ग्निं वै॑श्वान॒रं ग॑च्छ॒ स्वाहा॒ मनो॑ मे॒ हार्द्य॑च्छ ॥ १ ॥

  80. २८ दिवं॑ ते धू॒मो ग॑च्छ॒त्व॒न्तरि॑क्षं॒ ज्योतिः॑ । पृथि॒वीं भस्म॒नापृ॑ण॒ स्वाहा॑ ॥ २ ॥

  81. २९ मापो मौष॑धीर्हिसी॒र्धाम्नो॑धाम्नो राज॒स्ततो॑ वरुण नो मुञ्च । यदा॒हुर॒घ्न्या इति॒ वरु॒णेति॒ शपा॑महे॒ ततो॑ वरुण नो मुञ्च ॥ ३ ॥

  82. ३० सु॒मि॒त्रि॒या न॒ आप॒ ओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु। यो॒ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ॥ ४ ॥

  83. ३१॥ इ॒दमा॑पः॒ प्रव॑हत॒ यत्किं च॑ दुरि॒तं मयि॑। यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा॑ शे॒प उ॒तानृ॑तम् ॥ ५ ॥

  84. (५) ३२ ह॒विष्म॑तीरि॒मा आपो॑ ह॒विष्माँ॒३ आवि॑वासति । ह॒विष्मा॑न् दे॒वो अ॑ध्व॒रो ह॒विष्मां॑३ अस्तु॒ सूर्यः॑ ॥ १ ॥

  85. ३३ (३२३) अ॒ग्नेर्वोऽप॑न्नगृहस्य॒ सद॑सि सादयामि । इ॒न्द्रा॒ग्न्योर्भा॑ग॒धेयी॑ स्थ मि॒त्रावरु॑णयोर्भाग॒धेयी॑ स्थ॒। विश्वे॑षां दे॒वानां॑ भाग॒धेयी॑ स्थ ॥ २ ॥

  86. ३४ अ॒मूर्या उप॒ सूर्ये॒ याभि॑र्वा॒ सूर्यः॑ स॒ह । ता नो॑ हिन्वन्त्वध्व॒रम् ॥ ३ ॥

  87. (६) ३५ हृ॒दे त्वा॒ मन॑से त्वा दि॒वे त्वा॒ सूर्या॑य त्वा । ऊ॒र्ध्वो अ॑ध्व॒रं दि॒वि दे॒वेषु॒ होत्रा॑ यच्छ ॥ १ ॥

  88. ३६ सोम॑ राज॒न्विश्वा॒स्त्वं प्र॒जा उ॒पाव॑रोह । विश्वा॒स्त्वां प्र॒जा उ॒पाव॑रोहन्तु ॥ २ ॥

  89. ३७ शृ॒णोत्व॒ग्निः स॒मिधा॒ ह॒वं॑ मे शृ॒ण्वन्त्वापो॑ धि॒षणा॑श्च दे॒वीः । श्रोता॑ ग्रावाणो वि॒दुषो॒ न य॒ज्ञ शृ॒णोतु॑ दे॒वः स॑वि॒ता हवं॑ मे॒ स्वाहा॑ ॥ ३ ॥

  90. ३८ देवी॑रापो अपां नपा॒द्यो व॑ ऊ॒र्मिर्ह॑वि॒ष्यः॑ । इ॒न्द्रि॒यावा॑न् म॒दिन्त॑मः ॥ ४ ॥

  91. ३९ तं दे॒वेभ्यो॑ देव॒त्रा दा॑त शुक्र॒पेभ्यः॑ । येषां॑ भा॒ग स्थ स्वाहा॑ ॥ ५ ॥

  92. ४० कार्षि॑रसि समु॒द्रस्य॒ त्वा क्षि॑त्या॒ उन्न॑यामि । समापो॑ अ॒द्भिर॑ग्मत॒ समोष॑धीभि॒रोष॑धीः ॥ ६ ॥

  93. ४१ यम॑ग्ने पृ॒त्सु मर्त्य॒मवा॒ वाजे॑षु॒ यं जु॒नाः। स यन्ता॒ शश्व॑ती॒रिषः॒ स्वाहा॑ ॥ ७ ॥

  94. (७) ४२ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आद॑दे॒ रावा॑सि गभी॒रमि॒मम॑ध्व॒रं कृ॒धीन्द्रा॑य सु॒षूत॑मम् । उ॒त्त॒मेन॑ प॒विनोर्ज॑स्वन्तं॒ मधु॑मन्तं॒ पय॑स्वन्तम् । नि॒ग्रा॒भ्या॑ स्थ देव॒श्रुत॑स्त॒र्पय॑त मा ॥ १ ॥

  95. ४३ मनो॑ मे तर्पयत॒ वाचं॑ मे तर्पयत प्रा॒णं मे॑ तर्पयत॒ चक्षु॑र्मे तर्पयत॒ श्रोत्रं॑ मे तर्पयत। आ॒त्मानं॑ मे तर्पयत प्र॒जां मे॑ तर्पयत प॒शून् मे॑ तर्पयत ग॒णान्मे॑ तर्पयत ग॒णा मे॒ मा वितृ॑षन् ॥ २ ॥

  96. ४४ इन्द्रा॑य त्वा॒ वसु॑मते रु॒द्रव॑त॒ इन्द्रा॑य त्वादि॒त्यव॑ते । इन्द्रा॑य त्वाभिमाति॒घ्न्ये श्ये॒नाय॑ त्वा सोम॒भृते॑ऽग्नये॑ त्वा रायस्पोष॒दे ॥ ३ ॥

  97. ४५ यत्ते॑ सोम दि॒वि ज्योति॒र्यत्पृथि॒व्यां यदु॒रा अ॒न्तरि॑क्षे । तेना॒स्मै यज॑मानायो॒रु रा॒ये कृ॒ध्यधि॑ दा॒त्रे वो॑चः ॥ ४ ॥

  98. ४६ श्वा॒त्रा स्थ॑ वृत्र॒तुरो॒ राधो॑गूर्त्ता अ॒मृत॑स्य॒ पत्नीः॑ । ता दे॑वीर्देव॒त्रेमं य॒ज्ञं न॑य॒तोप॑हूताः॒ सोम॑स्य पिबत ॥ ५ ॥

  99. ४७ मा भे॒र्मा संवि॑क्था॒ ऊर्जं॑ धत्स्व॒ धिष॑णे वी॒ड्वी स॒ती वी॑ळयेथा॒मूर्जं॑ दधाथाम् । पा॒प्मा ह॒तो न सोमः॑ ॥ ६ ॥

  100. ४८ प्रागपा॒गुद॑गध॒राक्स॒र्वत॑स्त्वा॒ दिश॒ आधा॑वन्तु । अम्ब॒ निष्प॑र॒ सम॒रीर्वि॑दाम् ॥ ७ ॥

  101. ४९ (३३९) त्वम॒ङ्ग प्रश॑सिषो दे॒वः श॑विष्ठ॒ मर्त्य॑म् । न त्वद॒न्यो म॑घवन्नस्ति मर्डि॒तेन्द्र॒ ब्रवी॑मि ते॒ वचः॑ ॥ ८ ॥

  102. (८) ५० (३४०) ॥इति शुक्लयजुः काण्वसंहितायां षष्ठोऽध्यायः ॥ ६ ॥

Reach this point to mark the section finished.

Continue to अध्याय 7

Previous: अध्याय 5