धर्मDharmic Data

अध्याय 3

  1. “अथ तृतीयोऽध्यायः। स॒मिधा॒ग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिम् । आस्मि॑न् ह॒व्या जु॑होतन ॥ १ ॥

  2. १ सुस॑मिद्धाय शो॒चिषे॑ घृ॒तं ती॒व्रं जु॑होतन । अ॒ग्नये॑ जा॒तवे॑दसे ॥ २ ॥

  3. २ तं त्वा॑ स॒मिद्भि॑रङ्गिरो घृ॒तेन॑ वर्धयामसि । बृ॒हछो॑चा यविष्ट्य ॥ ३ ॥

  4. ३ उप॑ त्वाग्ने ह॒विष्म॑तीर्घृ॒ताची॑र्यन्तु हर्यत । जु॒षस्व॑ स॒मिधो॒ मम॑ ॥ ४ ॥

  5. ४ भूर्भुवः॒ स्व॒र्द्यौरि॑व भू॒म्ना भूमि॑रिव वरि॒म्णा । तस्या॑स्ते पृथिवि देवयजनि पृ॒ष्ठे॒ग्निम॑न्ना॒दम॒न्नाद्या॒याद॑धे ॥ ५ ॥

  6. ५ आयं गौः पृश्नि॑रक्रमी॒दस॑दन् मा॒तरं॑ पु॒रः । पि॒तरं॑ च प्र॒यन्त्स्वः॑ ॥ ६ ॥

  7. ६ अ॒न्तश्च॑रति रोच॒नास्य प्रा॒णाद॑पान॒ती । व्य॑ख्यन् महि॒षो दिव॑म् ॥ ७ ॥

  8. ७ त्रि॒ शद्धाम॒ विरा॑जति॒ वाक् प॑त॒ङ्गाय॑ धीयते । प्रति॒ वस्तो॒रह॒ द्युभिः॑ ॥ ८ ॥

  9. (१) ८ अ॒ग्निर्ज्यो॑तिषं त्वा वायु॒मतीं॑ प्रा॒णव॑तीम्। स्व॒र्ग्या॑स्व॒र्गायोप॑दधामि॒ भास्व॑तीम्। अ॒ग्निर्ज्योति॒र्ज्योति॑र॒ग्निः स्वाहा॑ ॥ १ ॥

  10. ९ सूर्य॑ ज्योतिषं त्वा वायु॒मतीं॑ प्रा॒णव॑तीम्। स्व॒र्ग्या॑स्व॒र्गायोप॑दधामि॒ भास्व॑तीम्। सूर्यो॒ ज्योति॒र्ज्योतिः॒ सूर्यः॒ स्वाहा॑ ॥ २ ॥

  11. १० स॒जूर्दे॒वेन॑ सवि॒त्रा स॒जू रात्र्येन्द्र॑वत्या । जु॒षा॒णो अ॒ग्निर्वे॑तु॒ स्वाहा॑ ॥ ३१ ॥

  12. १॥ स॒जूर्दे॒वेन॑ सवि॒त्रा स॒जूरु॒षसेन्द्र॑वत्या । जु॒षा॒णः सूर्यो॑ वेतु॒ स्वाहा॑ ॥ ४ ॥

  13. १२ इ॒ह पुष्टिं॒ पुष्टि॑पतिर्दधात्वि॒ह प्र॒जा र॑मयतु प्र॒जाप॑तिः। अ॒ग्नये॑ गृ॒हप॑तये रयि॒मते॒ पुष्टि॑पतये॒ स्वाहा॑। अ॒ग्नये॑ऽन्ना॒दायान्न॑पतये॒ स्वाहा॑ ॥ ५ ॥

  14. १३ अ॒न॒मि॒त्रं मे॑ अध॒राग॑नमि॒त्रमुद॑क्कृधि । इन्द्रा॑नमि॒त्रं प॒श्चान्मे॑नमि॒त्रं पु॒रस्कृ॑धि ॥ ६ ॥

  15. १४॥ (१२४) इन्द्रः॑ प॒श्चादिन्द्रः॑ पु॒रस्ता॒दिन्द्रो॑ अ॒स्माँ३ अ॒भिपा॑तु वि॒श्वतः॑। इन्द्रो॒ जिघा॑सतां॒ मना॑सि विषू॒चीना॒ व्य॑स्यतात् ॥ ७ ॥

  16. १५॥ स॒मिद॑सि॒ समि॑द्धो मे अग्ने दीदिहि । स॒मे॒द्धा ते॑ अग्ने दीद्यासम् ॥ ८ ॥

  17. (२) १६ उ॒प॒प्र॒यन्तो॑ अध्व॒रं मन्त्रं॑ वोचेमा॒ग्नये॑ । आ॒रे अ॒स्मे च॑ शृण्व॒ते ॥ १ ॥

  18. १७ अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम् । अ॒पा रेता॑सि जिन्वति ॥ २ ॥

  19. १८ उ॒भा वा॑मिन्द्राग्नी आहु॒वध्या॑ उ॒भा राध॑सः स॒ह मा॑द॒यध्यै॑ । उ॒भा दा॒तारा॑ इ॒षा र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम् ॥ ३ ॥

  20. १९ अ॒यं ते॒ योनि॑रृ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आरो॒हाथा॑ नो वर्धया र॒यिम् ॥ ४ ॥

  21. २० अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठो अध्व॒रेष्वीड्यः॑ । यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं वि॒शेवि॑शे ॥ ५ ॥

  22. २१ अ॒स्य प्र॒त्नामनु॒ द्युत॑ शु॒क्रं दु॑दुह्रे॒ अह्र॑यः । पयः॑ सहस्र॒सामृषि॑म् ॥ ६ ॥

  23. २२ त॒नू॒पा अ॑ग्नेऽसि त॒न्वं॑ मे पाह्यायु॒र्दा अ॑ग्ने॒ऽस्यायु॑र्मे देहि । व॒र्चो॒दा अ॑ग्नेऽसि॒ वर्चो॑ मे देहि ॥ ७ ॥

  24. २३ अग्ने॒ यन्मे॑ त॒न्वा॑ ऊ॒नं तन्म॒ आपृ॑ण । इन्धा॑नास्त्वा श॒त हिमा॑ द्यु॒मन्त॒ समि॑धीमहि ॥ ८ ॥

  25. २४ वय॑स्वन्तो वय॒स्कृत॒ सह॑स्वन्तः सह॒स्कृत॑म् । अग्ने॑ सपत्न॒दम्भ॑न॒मद॑ब्धासो॒ अदा॑भ्यम् ॥ ९ ॥

  26. २५ चित्रा॑वसो स्व॒स्ति ते॑ पा॒रम॑शीय । सं त्वम॑ग्ने॒ सूर्य॑स्य॒ वर्च॑सागथाः॒ समृषी॑णा स्तु॒तेन॑ ॥ १० ॥

  27. २६ सं प्रि॒येण॒ धाम्ना॒ सम॒हमायु॑षा॒ सं वर्च॑सा॒ सं प्र॒जया॒ स रा॒यस्पोषे॑ण ग्मिषीय । अन्ध॒ स्थान्धो॑ वो भक्षीय॒ मह॑ स्थ॒ महो॑ वो भक्षीय ॥ ११ ॥

  28. २७ ऊर्ज॒ स्थोर्जं॑ वो भक्षीय रा॒यस्पोष॑ स्थ रा॒यस्पोषं॑ वो भक्षीय । रेव॑ती॒ रम॑ध्वम॒स्मिन् योना॑ अ॒स्मिन् गोष्ठे॒ऽस्मिन् क्षये॒ऽस्मिँल्लो॒के॒ ॥ १२ ॥

  29. २८ इ॒हैव स्ते॒तो माप॑गात । स॒ हि॒तासि॑ विश्वरू॒प्यू॒र्जा मावि॑श गौप॒त्येन॑ ॥ १३ ॥

  30. २९ उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर्धि॒या व॒यम् । नमो॒ भर॑न्त॒ एम॑सि ॥ १४ ॥

  31. ३० राज॑न्तमध्व॒राणां॑ गो॒पामृ॒तस्य॒ दीदि॑विम् । वर्ध॑मान॒ स्वे दमे॑ ॥ १५ ॥

  32. ३१ स नः॑ पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व । सच॑स्वा नः स्व॒स्तये॑ ॥ १६ ॥

  33. ३२ अग्ने॒ त्वं नो॒ अन्त॑म उ॒त त्रा॒ता शि॒वो भ॑वा वरू॒थ्यः॑ । वसु॑र॒ग्निर्वसु॑श्रवा॒ अच्छा॑ नक्षि द्यु॒मत्त॑म र॒यिं दाः॑ ॥ १७ ॥

  34. ३३ (१४३) तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः । स नो॑ बोधि श्रु॒धी हव॑मुरु॒ष्या णो॑ अघाय॒तः सम॑स्मात् ॥ १८ ॥

  35. ३४ इळ॒ एह्यदि॑त॒ एहि॑ काम्या॒ एहि॑ । मयि॑ वः काम॒धर॑णं भूयात् ॥ १९ ॥

  36. ३५ सो॒मान॒ स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते । क॒क्षीव॑न्तं॒ य औ॑शि॒जः ॥ २० ॥

  37. ३६ यो रे॒वान्यो अ॑मीव॒हा व॑सु॒वित् पु॑ष्टि॒वर्ध॑नः । स नः॑ सिषक्तु॒ यस्तु॒रः ॥ २१ ॥

  38. ३७ मा नः॒ श सो॒ अर॑रुषो धू॒र्तिः प्रण॒ङ्मर्त्य॑स्य । रक्षा॑ णो ब्रह्मणस्पते ॥ २२ ॥

  39. ३८ महि॑ त्री॒णामवो॑ऽस्तु द्यु॒क्षं मि॒त्रस्या॑र्य॒म्णः । दु॒रा॒धर्षं॒ वरु॑णस्य ॥ २३ ॥

  40. ३९ न॒हि तेषा॑म॒मा च॒न नाध्व॑सु वार॒णेषु॑ । ईशे॑ रि॒पुर॒घश॑ सः ॥ २४ ॥

  41. ४० ते हि पु॒त्रासो॒ अदि॑तेः॒ प्र जी॒वसे॒ मर्त्या॑य । ज्योति॒र्यच्छ॒न्त्यज॑स्रम् ॥ २५ ॥

  42. ४१ क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे॑ । उ॒पोपेन्नु म॑घव॒न् भूय॒ इन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यते ॥ २६ ॥

  43. ४२ तत् स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया॑त् ॥ २७ ॥

  44. ४३ परि॑ ते दू॒ळभो॒ रथो॒ऽस्माँ३ अ॑श्नोतु वि॒श्वतः॑ । येन॒ रक्ष॑सि दा॒शुषः॑ ।। समि॑द्धो मा॒सम॑र्धय प्र॒जया॑ च॒ धने॑न च ॥ २८ ॥

  45. (३) ४४ भूर्भुवः॒ स्वः॑ सुप्र॒जाः प्र॒जया॑ भूयासम् । सु॒वीरो॑ वी॒रैः सु॒पोषः॒ पोषैः॑ ॥ १ ॥

  46. ४५ नर्य॑ प्र॒जां मे॑ पाहि॒ शस्य॑ प॒शून् मे॑ पाहि । आग॑न्म वि॒श्ववे॑दसम॒स्मभ्यं॑ वसु॒वित्त॑मम् ॥ २४ ॥

  47. ६॥ अग्ने॑ सम्राळ॒भि द्यु॒म्नम॒भि सह॒ आय॑च्छस्व । अ॒यम॒ग्निर्गृ॒हप॑ति॒र्गार्ह॑पत्यः प्र॒जावान्वसु॒वित्त॑म ॥ ३ ॥

  48. ४७ अग्ने॑ गृहपते॒ऽभि द्यु॒म्नम॒भि सह॒ आय॑च्छस्व । गृहा॒ मा बि॑भीत॒ मा वे॑पध्व॒मूर्जं॒ बिभ्र॑त॒ एम॑सि ॥ ४ ॥

  49. ४८ ऊर्जं॒ बिभ्र॑द्वः सु॒मनाः॑ सुमे॒धा गृ॒हानैमि॒ मन॑सा॒ मोद॑मानः । येषा॑म॒ध्येति॑ प्र॒वस॒न्येषु॑ सौमन॒सो ब॒हुः ॥ ५ ॥

  50. ४९ गृ॒हानुप॑ह्वयामहे॒ ते नो॑ जानन्तु जान॒तः । उप॑हूता इ॒ह गाव॒ उप॑हूता अजा॒वयः॑ ॥ ६ ॥

  51. ५० अथो॒ अन्न॑स्य की॒लाल॒ उप॑हूतो गृ॒हेषु॑ नः । क्षेमा॑य वः॒ शान्त्यै॒ प्रप॑द्ये । शि॒व श॒ग्म शं॒योः शं॒योः ॥ ७ ॥

  52. (४) ५१ प्र॒घा॒सिनो॑ हवामहे म॒रुत॑श्च रि॒शाद॑सः । क॒र॒म्भेण॑ स॒जोष॑सः ॥ १ ॥

  53. ५२ यद् ग्रामे॒ यदर॑ण्ये॒ यत्स॒भायां॒ यदि॑न्द्रि॒ये । यदेन॑श्चकृ॒मा व॒यमि॒दं तदव॑यजामहे॒ स्वाहा॑ ॥ २५ ॥

  54. ३ मो षू ण॑ इ॒न्द्रात्र॑ पृ॒त्सु देवै॒रस्ति॒ हि ष्मा॑ ते शुष्मिन्नव॒याः । म॒हश्चि॒द्यस्य॑ मी॒ळहुषो॑ य॒व्या ह॒विष्म॑तो म॒रुतो॒ वन्द॑ते॒ गीः ॥ ३ ॥

  55. ५४ (१६४) अक्र॒न् कर्म॑ कर्म॒कृतः॑ स॒ह वा॒चा म॑यो॒भुवा॑ । दे॒वेभ्यः॒ कर्म॑ कृ॒त्वास्तं॒ प्रेत॑ सचाभुवः ॥ ४ ॥

  56. ५५ अव॑भृथ निचुम्पुण निचे॒रुर॑सि निचुम्पुणः । अव॑ दे॒वैर्दे॒वकृ॑त॒मेनो॑ऽयासिष॒मव॒ मर्त्यै॒र्मर्त्य॑कृतं पुरु॒राव्णो॑ देव रि॒षस्पा॑हि ॥ ५ ॥

  57. (५) ५६ पू॒र्णा द॑र्वि॒ परा॑ पत॒ सुपू॑र्णा॒ पुन॒रा प॑त । व॒स्नेव॒ विक्री॑णावहा॒ इष॒मूर्ज शतक्रतो ॥ १ ॥

  58. ५७ दे॒हि मे॒ ददा॑मि ते॒ नि मे॑ धेहि॒ नि ते॑ दधौ । नि॒हारं॑ निह॑रामि ते नि॒हारं॒ निह॑रासि मे॒ स्वाहा॑ ॥ २ ॥

  59. (६) ५८ अक्ष॒न्नमी॑मदन्त॒ह्यव॑ प्रि॒या अ॑धूषत । अस्तो॑षत॒ स्वभा॑नवो॒ विप्रा॒ नवि॑ष्ठया म॒ती योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥ १ ॥

  60. ५९ सु॒सं॒दृशं॑ त्वा व॒यं मघ॑वन् वन्दिषी॒महि॑ । प्र नू॒नं पू॒र्णव॑न्धुर स्तु॒तो या॑सि॒ वशाँ॒३ अनु॒ योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥ २ ॥

  61. ६० मनो॒ न्वाहु॑वामहे नाराश॒सेन॒ स्तोमे॑न । पि॒तॄ॒णां च॒ मन्म॑भिः ॥ ३ ॥

  62. ६१ आ न॑ एतु॒ मनः॒ पुनः॒ क्रत्वे॒ दक्षा॑य जी॒वसे॑ । ज्योक् च॒ सूर्यं॑ दृ॒शे ॥ ४ ॥

  63. ६२ पुन॑र्नः पितरो॒ मनो॒ ददा॑तु दैव्यो॒ जनः॑ । जी॒वं व्रात॑ सचेमहि ॥ ५ ॥

  64. ६३ व॒यँ सो॑म व्र॒ते तव॒ मन॑स्त॒नूषु॒ बिभ्र॑तः । प्र॒जाव॑न्तः सचेमहि ॥ ६ ॥

  65. (७) ६४ ए॒ष ते॑ रुद्र भा॒गः स॒ह स्वस्राम्बि॑कया॒ तं जु॑षस्व॒ स्वाहा॑ । ए॒ष ते॑ रुद्र भा॒ग आ॒खुस्ते॑ प॒शुः ॥ १ ॥

  66. ६५ अव॑ रु॒द्रम॑दीम॒ह्यव॑ दे॒वं त्र्य॑म्बकम् । यथा॑ नो॒ वस्य॑स॒स्कर॒द्यथा॑ नः॒ श्रेय॑स॒स्कर॒द्यद्यथा॑ नो व्यवसा॒यया॑त् ॥ २ ॥

  67. ६६ भे॒ष॒जम॑सि भेष॒जं गवेऽश्वा॑य॒ पुरु॑षाय भेष॒जम् । सु॒गं मे॒षाय॑ मे॒ष्यै ॥ ३ ॥

  68. ६७ त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता॑त् ॥ ४ ॥

  69. ६८ त्र्य॑म्बकं यजामहे सुग॒न्धिं प॑ति॒वेद॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नादि॒तो मु॑क्षीय॒ मामुतः॑ ॥ ५ ॥

  70. ६९ ए॒तेन॑ रुद्राव॒सेन॑ प॒रो मूज॑व॒तोऽती॑हि । अव॑ततधन्वा॒ पिना॑कावसः॒ कृत्ति॑वासा॒ अहि॑सन्नः शि॒वः शान्तोऽती॑हि ॥ ६ ॥

  71. (८) ७० वा॒जिनां॒ वाजो॑ऽवतु भ॒क्षो अस्मान् रेतः॑ सि॒क्तम॒मृतं॒ बला॑य। विश्वे॑ दे॒वा अ॒भि यत् सं॑बभू॒वुस्तन्मा॑ धिनोतु प्र॒जया॒ धने॑न ॥ १ ॥

  72. ७१ वा॒ज्य॒हं वाजिन॒स्यो॑पहूत॒ उप॑हूतस्य भक्षयामि। वाजे॑ वा॒जी भूयासम् ॥ २ ॥

  73. ७२ स॒वि॒त्रा प्रसू॑ता॒ दैव्य॒ आप॑ उ॑दन्तु ते त॒नूम्। दी॒र्घा॒यु॒त्वाय॒ वर्चसे ॥ ३ ॥

  74. ७३ (१८३) क॒श्यप॑स्य त्र्यायु॒षं ज॒मद॑ग्नेस्त्र्यायु॒षम् । यद्दे॒वानां॑ त्र्यायु॒षं तन्मे॑ अस्तु त्र्यायु॒षम् ॥ ४ ॥

  75. ७४ येन॑ धा॒ता बृह॒स्पते॒रिन्द्र॑स्य॒ चायु॒षेऽव॑पत्।तेन॑ ते वपामि॒ ब्रह्म॑णा जी॒वात॑वे॒ जीव॑नाय ॥ ५ ॥

  76. ७५ दी॒र्घा॒यु॒त्वाय॒ बला॑य॒ वर्च॑से। सु॒प्र॒जा॒स्त्वाय॑ चासा॒ अथो॑ जीव श॒रदः॑ शतम् ॥ ६ ॥

  77. (९) ७६ (१८६) ॥इति शुक्लयजुः काण्वसंहितायां तृतीयोऽध्यायः ॥ ३ ॥

  78. ”

Reach this point to mark the section finished.

Continue to अध्याय 4

Previous: अध्याय 2