धर्मDharmic Data

मण्डल 6

सूक्त 57

  1. इन्द्रा॒ नु पू॒षणा॑ व॒यं स॒ख्याय॑ स्व॒स्तये॑ । हु॒वेम॒ वाज॑सातये ॥ १ ॥

  2. सोम॑म॒न्य उपा॑सद॒त्पात॑वे च॒म्वो॑: सु॒तम् । क॒र॒म्भम॒न्य इ॑च्छति ॥ २ ॥

  3. अ॒जा अ॒न्यस्य॒ वह्न॑यो॒ हरी॑ अ॒न्यस्य॒ सम्भृ॑ता । ताभ्यां॑ वृ॒त्राणि॑ जिघ्नते ॥ ३ ॥

  4. यदिन्द्रो॒ अन॑य॒द्रितो॑ म॒हीर॒पो वृष॑न्तमः । तत्र॑ पू॒षाभ॑व॒त्सचा॑ ॥ ४ ॥

  5. तां पू॒ष्णः सु॑म॒तिं व॒यं वृ॒क्षस्य॒ प्र व॒यामि॑व । इन्द्र॑स्य॒ चा र॑भामहे ॥ ५ ॥

  6. उत्पू॒षणं॑ युवामहे॒ऽभीशूँ॑रिव॒ सार॑थिः । म॒ह्या इन्द्रं॑ स्व॒स्तये॑ ॥ ६ ॥

Reach this point to mark the section finished.

Continue to सूक्त 58

Previous: सूक्त 56