धर्मDharmic Data

मण्डल 6

सूक्त 43

  1. यस्य॒ त्यच्छम्ब॑रं॒ मदे॒ दिवो॑दासाय र॒न्धय॑: । अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥ १ ॥

  2. यस्य॑ तीव्र॒सुतं॒ मदं॒ मध्य॒मन्तं॑ च॒ रक्ष॑से । अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥ २ ॥

  3. यस्य॒ गा अ॒न्तरश्म॑नो॒ मदे॑ दृ॒ळ्हा अ॒वासृ॑जः । अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥ ३ ॥

  4. यस्य॑ मन्दा॒नो अन्ध॑सो॒ माघो॑नं दधि॒षे शव॑: । अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥ ४ ॥

Reach this point to mark the section finished.

Continue to सूक्त 44

Previous: सूक्त 42