म॒न्द्रस्य॑ क॒वेर्दि॒व्यस्य॒ वह्ने॒र्विप्र॑मन्मनो वच॒नस्य॒ मध्व॑: । अपा॑ न॒स्तस्य॑ सच॒नस्य॑ दे॒वेषो॑ युवस्व गृण॒ते गोअ॑ग्राः ॥ १ ॥
अ॒यमु॑शा॒नः पर्यद्रि॑मु॒स्रा ऋ॒तधी॑तिभिॠत॒युग्यु॑जा॒नः । रु॒जदरु॑ग्णं॒ वि व॒लस्य॒ सानुं॑ प॒णीँर्वचो॑भिर॒भि यो॑ध॒दिन्द्र॑: ॥ २ ॥
अ॒यं द्यो॑तयद॒द्युतो॒ व्य१क्तून्दो॒षा वस्तो॑: श॒रद॒ इन्दु॑रिन्द्र । इ॒मं के॒तुम॑दधु॒र्नू चि॒दह्नां॒ शुचि॑जन्मन उ॒षस॑श्चकार ॥ ३ ॥
अ॒यं रो॑चयद॒रुचो॑ रुचा॒नो॒३ऽयं वा॑सय॒द्व्यृ१तेन॑ पू॒र्वीः । अ॒यमी॑यत ऋत॒युग्भि॒रश्वै॑: स्व॒र्विदा॒ नाभि॑ना चर्षणि॒प्राः ॥ ४ ॥
नू गृ॑णा॒नो गृ॑ण॒ते प्र॑त्न राज॒न्निष॑: पिन्व वसु॒देया॑य पू॒र्वीः । अ॒प ओष॑धीरवि॒षा वना॑नि॒ गा अर्व॑तो॒ नॄनृ॒चसे॑ रिरीहि ॥ ५ ॥
मण्डल 6
सूक्त 39
Reach this point to mark the section finished.
Continue to सूक्त 40