धर्मDharmic Data

मण्डल 5

सूक्त 78

  1. अश्वि॑ना॒वेह ग॑च्छतं॒ नास॑त्या॒ मा वि वे॑नतम् । हं॒सावि॑व पतत॒मा सु॒ताँ उप॑ ॥ १ ॥

  2. अश्वि॑ना हरि॒णावि॑व गौ॒रावि॒वानु॒ यव॑सम् । हं॒सावि॑व पतत॒मा सु॒ताँ उप॑ ॥ २ ॥

  3. अश्वि॑ना वाजिनीवसू जु॒षेथां॑ य॒ज्ञमि॒ष्टये॑ । हं॒सावि॑व पतत॒मा सु॒ताँ उप॑ ॥ ३ ॥

  4. अत्रि॒र्यद् वा॑मव॒रोह॑न्नृ॒बीस॒मजो॑हवी॒न्नाध॑मानेव॒ योषा॑ । श्ये॒नस्य॑ चि॒ज्जव॑सा॒ नूत॑ने॒ना ऽऽग॑च्छतमश्विना॒ शंत॑मेन ॥ ४ ॥

  5. वि जि॑हीष्व वनस्पते॒ योनि॒: सूष्य॑न्त्या इव । श्रु॒तं मे॑ अश्विना॒ हवं॑ स॒प्तव॑ध्रिं च मुञ्चतम् ॥ ५ ॥

  6. भी॒ताय॒ नाध॑मानाय॒ ऋष॑ये स॒प्तव॑ध्रये । मा॒याभि॑रश्विना यु॒वं वृ॒क्षं सं च॒ वि चा॑चथः ॥ ६ ॥

  7. यथा॒ वात॑: पुष्क॒रिणीं॑ समि॒ङ्गय॑ति स॒र्वत॑: । ए॒वा ते॒ गर्भ॑ एजतु नि॒रैतु॒ दश॑मास्यः ॥ ७ ॥

  8. यथा॒ वातो॒ यथा॒ वनं॒ यथा॑ समु॒द्र एज॑ति । ए॒वा त्वं द॑शमास्य स॒हावे॑हि ज॒रायु॑णा ॥ ८ ॥

  9. दश॒ मासा॑ञ्छशया॒नः कु॑मा॒रो अधि॑ मा॒तरि॑ । नि॒रैतु॑ जी॒वो अक्ष॑तो जी॒वो जीव॑न्त्या॒ अधि॑ ॥ ९ ॥

Reach this point to mark the section finished.

Continue to सूक्त 79

Previous: सूक्त 77