विश्वो॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वुरीत स॒ख्यम् । विश्वो॑ रा॒य इ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे॑ ॥ १ ॥
ते ते॑ देव नेत॒र्ये चे॒माँ अ॑नु॒शसे॑ । ते रा॒या ते ह्या॒३पृचे॒ सचे॑महि सच॒थ्यै॑: ॥ २ ॥
अतो॑ न॒ आ नॄनति॑थी॒नत॒: पत्नी॑र्दशस्यत । आ॒रे विश्वं॑ पथे॒ष्ठां द्वि॒षो यु॑योतु॒ यूयु॑विः ॥ ३ ॥
यत्र॒ वह्नि॑र॒भिहि॑तो दु॒द्रव॒द् द्रोण्य॑: प॒शुः । नृ॒मणा॑ वी॒रप॒स्त्योऽर्णा॒ धीरे॑व॒ सनि॑ता ॥ ४ ॥
ए॒ष ते॑ देव नेता॒ रथ॒स्पति॒: शं र॒यिः । शं रा॒ये शं स्व॒स्तय॑ इष॒:स्तुतो॑ मनामहे देव॒स्तुतो॑ मनामहे ॥ ५ ॥
मण्डल 5
सूक्त 50
Reach this point to mark the section finished.
Continue to सूक्त 51